摩诃婆罗多 · 章 9.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.6.1
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् ।
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ॥ ९.६.१ ॥
摩德罗王听了国王的这番话,勇猛的他便对难敌说道:大王啊,这些话。
9.6.2
दुर्योधन महाबाहो शृणु वाक्यविदां वर ।
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनांवरौ।
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन ॥ ९.६.२ ॥
大臂的难敌啊,善辩者中的最优者,请听:你认为站在车上的诸车战士中最优秀的这两位黑天,在臂力上绝不能与我相比。
9.6.3
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् ।
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् ॥ ९.६.३ ॥
即使整个大地,连同诸天、阿修罗与人类,都起来反对我,我也能在战阵前愤怒地作战;更何况是般度之子们呢?
9.6.4
विजेष्यामि रणे पार्थान्सोमकांश्च समागतान् ।
अहं सेनाप्रमेता ते भविष्यामि न संशयः ॥ ९.६.४ ॥
我将在战场上战胜聚集的普利塔之子与索摩迦人。我将成为你军队的统帅,这毫无疑问。
9.6.5
तं च व्यूहं विधास्यामि न क रिष्यन्ति यं परे ।
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः ॥ ९.६.५ ॥
我将布下敌人无法冲破的阵形。难敌啊,我说的是实话,毫无疑问。
9.6.6
अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः ।
निहनिष्यामि वा राजन्स्वर्गं यास्यामि वा हतः ॥ ९.६.६ ॥
今日我将在战场上杀尽所有般遮罗人与般度之子;或者,大王啊,我将战死并升往天界。
9.6.7
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् ॥ ९.६.७ ॥
今日愿世人见我无畏地行走。
9.6.8
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ।
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः।
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ॥ ९.६.८ ॥
今日,般度诸子、婆苏提婆与萨谛亚基、般遮罗人与遮提人、德罗波蒂之子、德里斯塔笃姆那、湿икhandin,以及一切普罗跋陀罗人,皆来。
9.6.9
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् ।
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि ॥ ९.६.९ ॥
愿他们看见我的勇武、弓的大力、敏捷、武器的威力,以及战场上我双臂的力量。
9.6.10
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः ।
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे ॥ ९.६.१० ॥
今日,普利塔之子与成就者及持明者同来,观看我双臂的力量与我在武器上的财富。
9.6.11
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः ।
प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः ॥ ९.६.११ ॥
今日见我的勇武,般度的大车勇士们将欲图报复,纷纷奋力施展种种行动。
9.6.12
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः ॥ ९.६.१२ ॥
今日我将从四面八方驱散般度之军。
9.6.13
द्रोणभीष्मावति विमो सूतपुत्रं च संयुगे ।
विचरिष्ये रणमुखे प्रियार्थं तव कौरव ॥ ९.६.१३ ॥
威猛者啊,我将保护德罗纳与毗湿摩,并在战斗中保护御者之子,为了你的利益在战阵前线往来奔走,俱卢之子啊。
9.6.14
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा ।
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम।
विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते ॥ ९.६.१४ ॥
如此被说之后,国王即刻在军中依照经典规定,为摩德罗之主行了灌顶礼,婆罗多之最优者啊,人民之主啊,他神色烦乱。
9.6.15
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् ।
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत ॥ ९.६.१५ ॥
他受灌顶之后,发出巨大的狮吼,你的军中号角鼓乐齐鸣,婆罗多啊。
9.6.16
हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः ।
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ॥ ९.६.१६ ॥
战士们欢欣鼓舞,摩德罗的大车战士也是如此,他们赞颂了装点战场的国王沙利耶。
9.6.17
जय राजंश्चिरं जीव जहि शत्रून्समागतान् ।
तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः।
निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम् ॥ ९.६.१७ ॥
胜利属于你,国王啊!愿你长寿,诛杀聚集而来的敌人。借你臂力之助,大力的持国之子将统治整个大地,敌人尽皆诛灭。
9.6.18
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् ।
मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान् ॥ ९.६.१८ ॥
你在战场上确实能够战胜诸神、阿修罗与人类,更何况这里那些有死之性的斯洛伊耶和索摩迦呢!
9.6.19
एवं सम्पूज्यमानस्तु मद्राणामधिपो बली ।
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ॥ ९.६.१९ ॥
如此受到尊敬,马德拉的强大君主、那位英雄,此时获得了不自制者难以得到的喜悦。
9.6.20
अभिषिक्ते तथा शल्ये तव सैन्येषु मानद ।
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ॥ ९.६.२० ॥
施敬者啊,即使在你的军中沙利耶受了灌顶,婆罗多后裔啊,他们在那里丝毫没有把迦尔纳的任何不幸放在心上。
9.6.21
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः ।
मेनिरे निहतान्पार्थान्मद्रराजवशङ्गतान् ॥ ९.६.२१ ॥
那里的士兵欢欣鼓舞,心中喜悦;他们认为普利塔之子已被杀死,落入了摩德罗王的掌控之中。
9.6.22
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ ।
तां रात्रिं सुखिता सुप्ता हर्षचित्ता च साभवत् ॥ ९.६.२२ ॥
你的军队获得了巨大的喜悦,婆罗多之雄啊,那一夜安然入睡,心中充满了欢喜。
9.6.23
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः ॥ ९.६.२३ ॥
听到你军中那阵喧声,国王坚战当着所有刹帝利的面,对伐尔施尼之后说了这番话。
9.6.24
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माघव ।
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ॥ ९.६.२४ ॥
摩陀婆啊,持国之子已任命马德罗王沙利耶为统帅;这位大弓箭手在所有军队中都受到尊敬。
9.6.25
एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् ।
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ॥ ९.६.२५ ॥
知道此事的真相后,摩度婆啊,做应当做的事。你既是领导者也是守护者,请安排接下来该做的事。
9.6.26
तमब्रवीन्महाराज वासुदेवो जनाधिपम् ।
आर्तायनिमहं जाने यथातत्त्वेन भारत ॥ ९.६.२६ ॥
婆苏提婆对那位人主、大王说:"婆罗多啊,我如实地了解阿尔塔亚尼。"
9.6.27
वीर्यवांश्च महातेजा महात्मा च विशेषतः ।
कृती च चित्रयोधी च संयुक्तो लाघवेन च ॥ ९.६.२७ ॥
他勇猛,光辉盛大,尤其是大德之人;善于多种战斗之术,并兼具敏捷。
9.6.28
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे ।
तादृशृस्तद्विशिष्टो वा मद्रराजो मतो मम ॥ ९.६.२८ ॥
如毗湿摩,德罗纳亦然;如迦尔纳在战场上,摩德罗王也如此,甚至更为出众——这是我的看法。
9.6.29
युध्यमानस्य तस्याहं चिन्तयानश्च भारत ।
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ॥ ९.६.२९ ॥
婆罗多啊,人主啊,我一边思量他作战的情形,一边却找不到一位与他外貌相当的战士。
9.6.30
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत ।
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे ॥ ९.६.३० ॥
婆罗多啊,他在战场上的力量甚至超过尸犍底、阿周那、怖军、萨谛奇与持明。
9.6.31
मद्रराजो महाराजः सिंहद्विरदविक्रमः ।
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ॥ ९.६.३१ ॥
摩德罗国的大王,勇武如狮子与象,将无畏地行动,如愤怒的时间之神在众生之中。
9.6.32
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहने ।
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ॥ ९.६.३२ ॥
今日在战场上,除你之外我看不到能与他对敌的人,人中之虎啊,你的勇猛如虎。
9.6.33
स त्वमेको हि लोकेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् ।
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन ॥ ९.६.३३ ॥
在这世上只有你是这样的人;除你之外,无人能在战场上杀死愤怒的摩德罗王,库鲁之喜啊。
9.6.34
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव ।
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् ॥ ९.६.३४ ॥
在战场上杀死沙利耶,他日复一日地作战,搅扰你的军队,正如因陀罗杀死了商跋罗。
9.6.35
सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः ।
तवैव हि जयो नूनं हते मद्रेश्वरे युधि। ॥ ९.६.३५ ॥
那位被持国之子所尊敬的英雄随后而来;当摩德罗之主在战场上被杀,胜利必定属于你。
9.6.36
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् ।
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्। ॥ ९.६.३६ ॥
他一旦被杀,持国诸子的庞大军队将全部覆灭。大王啊,现在请听我这番话。
9.6.37
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम् ।
जहि चैनं महाबाहो वासवो नमुचिं यथा ॥ ९.६.३७ ॥
帕特哈啊,去战场迎战那位伟大的车将——摩德罗之王。大臂者啊,像帝释天杀死那牟其一样杀死他吧。
9.6.38
न चैवात्र दया कार्या मातुलोऽयं ममेति वै ।
क्षत्रवर्म पुरस्कृत्य जहि मद्रजनेश्वरम् ॥ ९.६.३८ ॥
此处不应因“他是我的舅舅”而心生怜悯。以刹帝利之法为先,杀掉摩德罗人的主君吧。
9.6.39
द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम् ।
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्। ॥ ९.६.३९ ॥
你已渡过德罗纳与毗湿摩的大海,以及从迦尔纳的深渊中涌出的灾难,既然已到达沙利耶面前,就不要与你的随从一同沉没在牛蹄窝般的浅水中。
9.6.40
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव ।
तद्दर्शय रणे सर्वं जहि चैनं महारथम् ॥ ९.६.४० ॥
把你苦行的威力和你刹帝利的力量,全部在战场上显示出来,杀死这位大车将吧。
9.6.41
एतावदुक्त्वा वचनं केशवः परवीरहा ।
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः ॥ ९.६.४१ ॥
说完这番话,斩杀敌方英雄的羯舍婆于傍晚时分,受到般度诸子的尊敬,回到了自己的营帐。
9.6.42
केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः ।
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान्।
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ॥ ९.६.४२ ॥
羯舍婆离去后,法之子坚战遣散了所有兄弟、般遮罗人和苏摩迦人,那一夜他像拔去了箭的象一样入睡。
9.6.43
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा ।
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ॥ ९.६.४३ ॥
那些大弓箭手,般遮罗人与般度之子,因迦尔纳之死而欢喜,那夜便睡去了。
9.6.44
गतज्वरं महेष्वासं तीर्णपारं महारथम् ।
बभूव पाण्डवेयानां सैन्यं च मुदितं निशि।
सूतपुत्रस्य निधनाज्जयं लब्ध्वा च मारिष ॥ ९.६.४४ ॥
尊者啊,般度之子的军队因御者之子的死而获胜,夜间欢喜;那位已无忧烦、已渡到彼岸的大弓手、大车士,也安然了。