摩诃婆罗多 · 章 9.65
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
9.65.1
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः ।
शौटीर्यमानी पुत्रो मे किमभाषत सञ्जय ॥ ९.६५.१ ॥
孙贾雅啊,我那以勇武自傲的儿子,头被脚踩,大腿折断,倒在地上,他说了什么?
9.65.2
अत्यर्थं कोपनो राजा जावैरश्च पाण्डुषु ।
व्यसनं परमं प्राप्तः किमाह परमाहवे ॥ ९.६५.२ ॥
那位极其愤怒、嫉妒般度诸子的国王,在那场大战中陷入至极的灾难后,说了什么?
9.65.3
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप ।
राज्ञा यदुक्तं मग्नेन तस्मिन्व्यसनसागरे ॥ ९.६५.३ ॥
请听,国王,人主,我将按实情讲述那位陷入灾难之海的国王所说的话。
9.65.4
भग्नसक्थो नृपो राजन्पांसुना सोऽवकुण्ठितः ।
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ॥ ९.६५.४ ॥
国王啊,那位断了大腿的国王满身尘土。他在那里揪住头发,环顾十方。
9.65.5
केशान्नियस्य यत्नेन निःश्वसन्नुरगो यथा ।
संरम्भाश्रुपरीताब्यां नेत्राभ्यामभिवीक्ष्य माम् ॥ ९.६५.५ ॥
他费力地揪着头发,像毒蛇一样喘息,以充满愤怒泪水的双眼看着我。
9.65.6
बाहू धरण्यां निष्पिष्य सुदुर्मत्त इव द्विपः ।
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन्।
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ॥ ९.६५.६ ॥
他以双臂拍击大地,如同狂怒的大象,甩动散乱的头发,牙齿相互咬磨,责备长兄般度子,叹息着说出了这些话。
9.65.7
भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे ।
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ॥ ९.६५.७ ॥
山陀努之子毗湿摩为依怙,持械者中最优的迦尔纳,乔答摩与沙恭尼亦然,持神箭者中最优的德罗纳亦然。
9.65.8
अश्वत्थाम्नि यथा शल्ये शूरे च कृतवर्मणि ।
अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु।
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ॥ ९.६५.८ ॥
我将重担托付给阿湿婆担摩、沙利耶、英雄Kṛtavarman及其他大心勇士,如今已到此境地;时间难以超越。
9.65.9
एकादशचमूभर्ता सोऽहमेतां दशां गतः ।
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ॥ ९.६५.९ ॥
我为十一军之主,如今已至此境。大臂者啊,时至之时,无人能够逾越。
9.65.10
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे ।
यथाऽहं भीमसेनेन व्युत्क्रम्य समयं हतः ॥ ९.६५.१० ॥
凡我方在此战中尚存者,当告知他们:我如何在毗摩犍陀之子违背约定之后被击倒。
9.65.11
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः ।
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च धीमति ॥ ९.६५.११ ॥
般度之子确实对婆利深罗婆、迦尔纳、毗湿摩以及智者德罗纳做了许多极其残忍之事。
9.65.12
इदं च गर्हितं कर्म नृशंसैः पाण्डवैः कृतम् ।
येन ते वाच्यतां सत्सु गमिष्यन्तीति मे मतिः ॥ ९.६५.१२ ॥
而残忍的般度之子做了这件可耻之事,我认为,因此他们将在善人之中遭受非议。
9.65.13
का प्रीतिः सत्वयुक्तस्य कृत्वोपाधिकृतं जयम् ।
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति ॥ ९.६५.१३ ॥
以诡计获得胜利,有德之人何乐之有?或者哪位智者会尊重背弃誓约之人?
9.65.14
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः ।
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ॥ ९.६५.१४ ॥
哪位智者会因以不义取得的胜利而欢喜?然而罪人般德的儿子、狼腹者(Vṛkodara)却欣喜若狂。
9.65.15
किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम ।
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ॥ ९.६५.१५ ॥
对我这断了大腿之人而言,今日此事有何可奇怪的?愤怒的怖军(Bhīmasena)以脚踏碎了头颅。
9.65.16
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु ।
एवं कुर्यान्नरो यो हि स वै स़ञ्जय पूरुषः ॥ ९.६५.१६ ॥
凡是光耀、得享吉祥、身处亲族之中的人,应当这样行事。哦,桑闪耶,那才是真正的男子。
9.65.17
अभिज्ञौ युद्धधर्मस्य मम माता पिता च यौ ।
तौ हि सञ्जय दुःखार्तौ विज्ञाप्यौ वचनाद्वि मे ॥ ९.६५.१७ ॥
我的母亲与父亲,两人都通晓战争之法,哦,桑闪耶,他们正为悲痛所折磨。请以我的话转告他们。
9.65.18
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा ।
मूर्ध्नि स्थितममित्राणां जीवतामेव स़ञ्जय ॥ ९.६५.१८ ॥
善养仆从、统治大地与四海的人,哦,桑闪耶,如今尚在人世,却已站在敌人的头顶之上。
9.65.19
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् ।
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया ॥ ९.६५.१९ ॥
依其能力施舍,为朋友做了所喜之事,所有敌人都被制服。谁比我更幸运?
9.65.20
मानिता बान्धवाः सर्वे मान्यः सम्पूजितो जनः ।
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ॥ ९.६५.२० ॥
所有亲属都受到尊敬,受尊重的人得到礼敬,三者都得以享受。谁比我更幸运?
9.65.21
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः ।
आजानेयैस्तथा यातं को नु स्वन्ततरो मया ॥ ९.६५.२१ ॥
在诸王之首发号施令,获得了极为罕见的尊荣,乘坐良驹出行。谁比我更幸运?
9.65.22
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् ।
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ॥ ९.६५.२२ ॥
进入他国,诸王如奴仆般被役使,为所爱之人行善。谁比我更幸运?
9.65.23
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् ।
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ॥ ९.६५.२३ ॥
依法学习,施舍布施,获得无病之寿,以自身之法征服了诸世界。谁比我更幸运?
9.65.24
दिष्ट्या नाहं जितः सङ्ख्ये परान्प्रेष्यवदाश्रितः ।
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यगता विभो ॥ ९.६५.२४ ॥
幸运的是,我未在战场上被敌人击败而像仆人一样投降;幸运的是,主啊,即使我死了,我广大的财富也没有归于他人。
9.65.25
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् ।
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया ॥ ९.६५.२५ ॥
那是守持自身责任的刹帝利亲族所期望的死亡,我已经获得了这样的死亡。还有谁比我更幸运呢?
9.65.26
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवञ्जितः ।
दिष्ट्या न विमतिं काञ्चिद्भजित्वा तु पराजितः ॥ ९.६५.२६ ॥
幸而我没有因仇恨像常人一样转身逃走,也没有被欺骗。幸而我没有因依恃某种疑虑而被击败。
9.65.27
सुप्तं वाऽथ प्रमत्तं वा यथा हन्याद्विषेण वा ।
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ॥ ९.६५.२७ ॥
如同杀害熟睡或疏忽之人,或以毒药杀害,违背法度者违背约定,将我杀死。
9.65.28
अश्चत्थामा महाभागः कृतवर्मा च सात्वतः ।
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ॥ ९.६५.२८ ॥
应当依我的话告诉大福的马嘶、萨特瓦塔族的克利塔瓦尔曼,以及沙罗陀之子克利巴。
9.65.29
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः ।
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ॥ ९.६५.२९ ॥
你们不应当信任那些屡次行不义、违背约定的般度之子。
9.65.30
वार्तिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः ।
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ॥ ९.६५.३० ॥
你的儿子、真正勇武的国王对使者们说:「正如我在战场上被毗摩森那以不义所杀。」
9.65.31
सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा ।
वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ॥ ९.६५.३१ ॥
我想起升天的德罗纳、迦尔纳与沙利亚二人,以及大力的维由舍那,还有苏巴拉之子沙恭尼。
9.65.32
जलसन्धं महावीर्यं भगदत्तं च पार्थिवम् ।
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम् ॥ ९.६५.३२ ॥
大力的阇罗山陀、国王婆伽达多、大弓箭手苏摩达多,以及信度王胜车。
9.65.33
दुऋशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा ।
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ॥ ९.६५.३३ ॥
以难降为首的、与我相同的兄弟们,勇猛的难降之子,以及拉克什玛那,我的两个儿子。
9.65.34
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः ।
पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः ॥ ९.६५.३४ ॥
这些人以及我的其他成千上万的人,我将从后面跟随,如同失去商队的旅人。
9.65.35
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम ।
रोरूयामाणा दुःखार्ता दुःशला सा भविष्यति ॥ ९.६५.३५ ॥
听说兄弟和丈夫都被杀了,我的姐姐难降娑罗,悲痛欲绝、哭泣不止,将会怎样呢?
9.65.36
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम ।
गान्धारीसहितश्चैव का गतिं प्रतिपत्स्यति ॥ ९.६५.३६ ॥
我年迈的国王父亲,与儿媳、孙媳们及甘陀利在一起,将会得到怎样的归宿?
9.65.37
नूनं लक्ष्मणमाताऽपि हतपुत्रा हतेश्वरा ।
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ॥ ९.६५.३७ ॥
毫无疑问,罗什曼那之母亦因子与夫被杀,将很快走向毁灭,那位吉祥的广目女子。
9.65.38
यदि जानाति चार्वाकः परिव्राद्वाग्विशारदः ।
करिष्यति महाभागो ध्रुवं चापचितिं मम ॥ ९.६५.३८ ॥
若善辩的游方苦行者遮婆迦知晓此事,那位大福者必定会报答我。
9.65.39
समन्तप़ञ्चके पुण्ये त्रिषु लोकेषु विश्रुते ।
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ॥ ९.६५.३९ ॥
在闻名三界的圣地三嘴湖(Samantapañcaka),我将迎来死亡,并获得永恒的世界。
9.65.40
ततो जनसहस्राणि बाष्पपूर्णानि दिशो दश ।
ससागरवना घोरा पृथिवी सचराचरा। ॥ ९.६५.४० ॥
于是,连同海洋与森林、动与不动之物的可怕大地,在十方被泪水盈满的千万人填满了。
9.65.41
चचालाथ सनिर्हादा दिशश्चैवाविलाऽभवन् ।
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्। ॥ ९.६५.४१ ॥
于是伴随轰鸣,大地震动,诸方昏暗。他们来到德罗纳之子面前,将所发生的一切如实禀报。
9.65.42
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम् ।
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत। ॥ ९.६५.४२ ॥
婆罗多之子啊,他们讲述了钵罗乌战中的经过与国王的倒下之后,众人便向德罗纳之子说道。
9.65.43
वादिका दुःखसन्तप्ताः शोकोपहतचेतसः ।
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ॥ ९.६५.४३ ॥
那些被悲痛折磨、心为忧愁所困的使者,沉思良久之后,满怀哀伤,循着来时的路返回了。