Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.10.1

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः
तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥ १.१०.१ ॥

国王催促之下,苏曼特罗当时说道:"请听完整的经过,即大臣们用何种方法将鹿角仙人请来,此事已转告于我,请与大臣们一同聆听。"

1.10.2

रोमपादमुवाचेदं सहामात्यः पुरोहितः
उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥ १.१०.२ ॥

大臣们与祭司一同对罗摩波陀说:"我们仔细考虑过的这个方法是没有危险的。"

1.10.3

ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः
अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥ १.१०.३ ॥

鹿角仙人是林中居民,专心苦修与诵习,对女人和感官之乐一无所知。

1.10.4

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ १.१०.४ ॥

我们将用令人心动、能扰乱世人心意的可爱感官之物,迅速把他引来城中;请定下此事。

1.10.5

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः
प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥ १.१०.५ ॥

让美丽而盛装的妓女前往那里;她们以种种手段诱惑他,把他带到这里,并会受到礼遇。

1.10.6

श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्
पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥ १.१०.६ ॥

国王听罢,回答祭司说:"就这样吧";祭司与大臣们便照此去做。

1.10.7

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्
आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥ १.१०.७ ॥

众位名妓听闻此事,便进入大森林,在这座修行处附近想方设法让他看见她们。

1.10.8

ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः
पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥ १.१०.८ ॥

这位坚定的仙人之子,常年居住在修行处,始终顺从父亲,从未走出修行处。

1.10.9

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना
स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥ १.१०.९ ॥

自出生以来,这位苦行者从未见过女子、男子,也未见过城邑或国土中所生的其他任何生灵。

1.10.10

ततः कदाचित् तं देशमाजगाम यदृच्छया
विभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः ॥ १.१०.१० ॥

一日,毗婆陀迦之子偶然来到那个地方,在那里看见了那些美妙的女子。

1.10.11

ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ १.१०.११ ॥

那些身着各色华服的女子,以甜美的声音歌唱,走近仙人之子,众人一同说出了这些话。

1.10.12

कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्
एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ १.१०.१२ ॥

你是谁,做什么?婆罗门啊,我们想知道。你独自在这可怕而荒僻的森林中游荡,请告诉我们。

1.10.13

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः
हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥ १.१०.१३ ॥

森林中那些容貌美丽的女子从未见过他的模样;出于对她们的情意,他心中生起了告诉自己父亲的念头。

1.10.14

पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः
ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ १.१०.१४ ॥

我们的父亲是毗婆达迦,我是他亲生的儿子。在人间,我的名字和事迹以“鹿角仙人”(Ṛṣyaśṛṅga)著称。

1.10.15

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ १.१०.१५ ॥

在我们修行处附近,美丽吉祥的女子们啊,我将在此依礼为你们每一位献上敬意。

1.10.16

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै
तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥ १.१०.१६ ॥

众女听了仙人之子的话,心中都想前往;于是她们都去观看那修行之处。

1.10.17

गतानां तु ततः पूजामृषिपुत्रश्चकार ह
इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥ १.१०.१७ ॥

众女到达之后,仙人之子为她们行礼供养:“这是敬水,这是洗足水,这是我们的根与果。”

1.10.18

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः
ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥ १.१०.१८ ॥

众女接受了那份供养,但都心急;她们因畏惧仙人,便决定迅速离去。

1.10.19

अस्माकमपि मुख्यानि फलानीमानि हे द्विज
गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥ १.१०.१९ ॥

啊,再生者,这些也是我们最好的果实。啊,婆罗门,请接受,愿你吉祥,并且不要迟疑,快吃吧。

1.10.20

ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः
मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥ १.१०.२० ॥

于是她们都满怀喜悦地拥抱他,把甜点和各种美味的食物都给了他。

1.10.21

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ १.१०.२१ ॥

他品尝之后,这位光彩照人的人心想:这些果实是常住森林之人从未尝过的。

1.10.22

आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च
गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥ १.१०.२२ ॥

于是,她们向婆罗门告辞,以持守誓戒为借口,怀着恐惧离去,那些是他父亲的妻子们。

1.10.23

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः
अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥ १.१०.२३ ॥

当她们全部离去后,迦叶波的儿子这位再生者心神不安,因悲伤而辗转反侧。

1.10.24

ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्
विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥ १.१०.२४ ॥

第二天,那位强大而光辉的毗婆罗陀之子来到那个地方,心中反复思量。

1.10.25

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः
दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥ १.१०.२५ ॥

那里可见美丽而盛装的头号妓女;她们一看见婆罗门走来,心中便欢喜起来。

1.10.26

उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः
एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥ १.१०.२६ ॥

于是她们都走近他,说了这些话:“来吧,善良的人,到我们的修行处来吧。”

1.10.27

चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च
तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥ १.१०.२७ ॥

这里有许多奇妙的根和果实;那里也一定会有同样的特别安排。

1.10.28

श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ १.१०.२८ ॥

他听了她们那些都悦于心的话,便决定前往;那时,那些女子便带他走了。

1.10.29

तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि
ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥ १.१०.२९ ॥

就在那位大德婆罗门被带来的时候,天神忽然降下雨来,使世界欢喜。

1.10.30

वर्षेणैवागतं विप्रं तापसं स नराधिपः
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ १.१०.३० ॥

国王出迎那位随雨而来的婆罗门苦行仙人,恭敬地低下头,俯身触地。

1.10.31

अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥ १.१०.३१ ॥

他依礼恭敬地奉上阿尔ghya,并向婆罗门中的至尊祈求恩惠,愿愤怒不要侵入这位婆罗门。

1.10.32

अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि
शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥ १.१०.३२ ॥

他将其迎入内宫,依礼将女儿珊塔嫁与他,国王以平静之心获得了喜悦。

1.10.33

एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः
ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥ १.१०.३३ ॥

如此,他在那里一切心愿皆得满足,备受尊崇而居住——大光明的鹿角仙人与他的妻子珊塔同在。