Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.18.1

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
प्रतिगृह्यमरा भागान् प्रतिजग्मुर्यथागतम् ॥ १.१८.१ ॥

那位大德的马祠完成后,诸神领取了各自的份额,依照来时的路返回了。

1.18.2

समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ १.१८.२ ॥

国王完成了受戒的誓愿与仪轨,偕同众妃,与侍从、军队和车驾一同进入了城市。

1.18.3

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम् ॥ १.१८.३ ॥

诸位地上的君主受到国王应有的礼遇,欢喜地向最杰出的仙人顶礼,然后各自返回自己的国土。

1.18.4

श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ १.१८.४ ॥

当那些尊贵的君主离开城市返回各自的家园时,诸王明亮的军队欢喜地闪耀起来。

1.18.5

गतेषु पृथिवीशेषु राजा दशरथः पुनः ।
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ १.१८.५ ॥

诸位君主离去之后,光荣的国王十车王率领最杰出的婆罗门走在前面,再次进入了城市。

1.18.6

शान्तया प्रययौ सार्धमृशष्यशृङ्गः सुपूजितः ।
अमुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥ १.१८.६ ॥

备受尊敬的鹿角仙人与善依一同启程,而那位睿智的国王率随从跟随在他之后。

1.18.7

एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ १.१८.७ ॥

国王送走了所有人,心满意足,在那里快乐地停留,思考着生子之事。

1.18.8

ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ १.१८.८ ॥

祭祀完成后,六个季节过去了。然后,在第十二个月,即支跋罗月,于一个非闰月的太阴日。

1.18.9

नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ १.१८.९ ॥

在阿底提所主的星宿之下,五颗行星处于其旺位,以巨蟹宫升起,木星与月亮同在。

1.18.10

प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥ १.१८.१० ॥

当受万界敬拜的世界之主升起时,考薩利雅生下了具有神圣特征的罗摩。

1.18.11

विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् ।
लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥ १.१८.११ ॥

此子是毗湿奴的半身,极为有福,是甘蔗王族的喜悦;他眼睛红润,双臂强壮,嘴唇殷红,声音如鼓。

1.18.12

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ १.१८.१२ ॥

考薩利雅因这位光辉无量的儿子而光彩照人,正如诸神之母阿底提因持金刚者的恩赐而光彩照人。

1.18.13

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।
साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ १.१८.१३ ॥

真勇的婆罗多生于吉迦叶伊,他正是毗湿奴的四分之一,具备一切美德。

1.18.14

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ ।
वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥ १.१८.१४ ॥

随后苏弥多罗生下两个儿子,罗什曼那与舍睹卢祇那,二人都是英雄,精通一切兵器,具有毗湿奴的一半。

1.18.15

पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ।
सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥ १.१८.१५ ॥

婆罗多在补鲁沙星宿、双鱼宫升起时出生,心境安宁;苏弥多罗的两个儿子则在阿奢离沙星宿、巨蟹宫升起、太阳升起时出生。

1.18.16

राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ १.१८.१६ ॥

国王的四位伟大的儿子各自分别出生;他们德行俱足、各得其宜,光彩如同补瑟陀波达星。

1.18.17

जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥ १.१८.१७ ॥

乾闥婆歌唱悦耳,阿block罗陀众女翩翩起舞,天上的神鼓响起,花雨从空中纷纷落下。

1.18.18

उत्सवश्च महानासीदयोध्यायां जनाकुलः ।
रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः ॥ १.१८.१८ ॥

阿逾陀城中举行了盛大的庆典,人群熙攘;街道上挤满了人群,充满了演员与舞者。

1.18.19

गायनैश्च विराविण्यो वादनैश्च तथापरैः ।
विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥ १.१८.१९ ॥

歌手的歌声与乐师的乐器声回荡其间,满载各种珍宝的广大城市在那里光彩夺目。

1.18.20

प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तम् गोधनानि सहस्रशः ॥ १.१८.२० ॥

国王将应给的赏赐施予苏多、摩嘎陀与文底,又向婆罗门施予财富与成千上万的牛群。

1.18.21

अतीत्यैकादशाहं तु नामकर्म तथाकरोत् ।
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ १.१८.२१ ॥

过了十一天,他为长子伟大的罗摩、以及甘迦伊之子婆罗多举行了命名礼。

1.18.22

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।
वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥ १.१८.२२ ॥

苏弥多罗之子名为罗什曼那,另一子名为设睹卢祇那;极为欢喜的婆悉吒于是为他们命名。

1.18.23

ब्राह्मणान् भोजयामास पौराजानपदानपि ।
अददद् ब्राह्मणानां च रत्नौघमलं बहु ॥ १.१८.२३ ॥

他宴请婆罗门、城中居民与乡间百姓,并向婆罗门施予大量珠宝之堆。

1.18.24

तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ १.१८.२४ ॥

他为他们举行了从诞生礼起的一切仪式;在他们之中,长子罗摩如同旗帜,是父亲的喜乐。

1.18.25

बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः ।
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ १.१८.२५ ॥

他们再次受到众生的尊敬,如同自生者梵天。他们都精通吠陀,都是勇士,并且都致力于世界的福祉。

1.18.26

सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः ।
तेषामपि महातेजा रामः सत्यपराक्रमः ॥ १.१८.२६ ॥

他们都具备智慧,都充满美德。然而在他们之中,光辉伟大、勇武真实的罗摩尤为出众。

1.18.27

इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।
गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥ १.१८.२७ ॥

他为整个世界所爱戴,如月亮般纯洁无瑕。在象背上、马背上以及驾驭战车方面,他都备受推崇。

1.18.28

धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः ।
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ १.१८.२८ ॥

他精通弓术,乐于侍奉父亲。自幼时起,极其亲爱的罗什曼那便是增益吉祥之人。

1.18.29

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ १.१८.२९ ॥

他始终在一切事上令其兄长罗摩、世界之欢乐者欢喜;他对罗摩来说,如同罗摩自身的身体一般亲近。

1.18.30

लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः ।
न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ १.१८.३० ॥

具备光辉的罗什曼那,宛如罗摩身外的另一生命之气。没有他,人中至上的罗摩甚至无法入眠。

1.18.31

मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।
यदा हि हयमारूढो मृगयां याति राघवः ॥ १.१८.३१ ॥

即使有美味的食物送来,没有他,他也不吃;当罗ghava骑上马去打猎时。

1.18.32

अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥ १.१८.३२ ॥

随后,手持弓箭,在后面护卫着他的是舍特鲁祇那,他是婆罗多的幼弟,也确实是罗什曼那的最小弟弟。

1.18.33

प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः ।
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥ १.१८.३३ ॥

他始终比生命还珍爱他,他也同样珍爱着父亲。十车王有四个极为有福、令人钟爱的儿子。

1.18.34

बभूव परमप्रीतो देवैरिव पितामहः ।
ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः ॥ १.१८.३४ ॥

他万分欣喜,如同祖父梵天因众神而欢喜。当他们都具备智慧、并汇集了诸般德性时。

1.18.35

ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ।
तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् ॥ १.१८.३५ ॥

他们谦逊、享有盛名、博知一切、远见卓识。这些威力如此、光辉灿烂的人们,他们全体。

1.18.36

पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ १.१८.३६ ॥

父亲十车王欣喜如世界之主梵天。他们也都是人中之虎,专心研习吠陀。

1.18.37

पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ।
अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ १.१८.३७ ॥

他们侍奉父亲,精通射箭之术。于是国王十车开始考虑他们的婚事。

1.18.38

चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ।
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥ १.१८.३८ ॥

这位心地正直的国王与师傅、亲族共同商议。当这位大德之人在大臣之中沉思时,

1.18.39

अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः ।
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥ १.१८.३९ ॥

大光明的大仙人毗首密多罗来到那里,他想见国王,便对守门人说道。

1.18.40

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ।
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥ १.१८.४० ॥

"请速告诉国王,我,伽提之子憍尸迦,已经到来。"他们听了这话,便向国王的宫殿奔去。

1.18.41

संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ।
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ १.१८.४१ ॥

他们在这话的催促下,个个心慌意乱,来到王宫,报告了仙人毗首密多罗的到来。

1.18.42

प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ।
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥ १.१८.४२ ॥

他们便向伊刹婆迦王禀报仙人的到来。国王听了他们的话,与祭司一同变得专注而镇定。

1.18.43

प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः ।
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥ १.१८.४३ ॥

国王心中欢喜,迎上前去,如同因陀罗迎接梵天。他见这位光辉灼灼、持守严苛誓约的苦行者,

1.18.44

प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ।
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ १.१८.४४ ॥

国王面露喜色,随即献上敬水。他接受了国王的敬水,依照经典所载的仪轨行礼。

1.18.45

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ १.१८.४५ ॥

他们询问国王的安康与不衰的繁荣:关于城市、府库、领地,以及亲族与朋友。

1.18.46

कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।
अपि ते संनताः सर्वे सामन्तरिपवो जिताः ॥ १.१८.४६ ॥

最为虔诚的憍尸迦询问国王的安康:“您周围的敌人是否都已臣服、被征服?”

1.18.47

दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् ।
वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥ १.१८.४७ ॥

“您的神圣与世俗之业是否都已妥善完成?”见到婆悉吒后,这位最优秀的仙人询问他的安康。

1.18.48

ऋषींश्च तान् यथान्यायं महाभाग उवाच ह ।
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥ १.१८.४८ ॥

这位大福者也依礼与那些仙人交谈。他们个个心怀欢喜,前往国王的居所。

1.18.49

विविशुः पूजितास्तेन निषेदुश्च यथार्हतः ।
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ १.१८.४९ ॥

他们受到款待,入内依各自身份就座。于是心情喜悦的国王对大仙人毗首弥多罗说道。

1.18.50

उवाच परमोदारो हृष्टस्तमभिपूजयन् ।
यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥ १.१८.५० ॥

极其慷慨的国王欢喜地敬重他,说道:“如同获得甘露,如同无水之地降下甘霖。”

1.18.51

यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै ।
प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥ १.१८.५१ ॥

如同无子者由相配的妻子生下儿子,如同失而复得,如同大福带来的欢喜。

1.18.52

तथैवागमनं मन्ये स्वागतं ते महामुने ।
कं च ते परमं कामं करोमि किमु हर्षितः ॥ १.१८.५२ ॥

我同样视您的到来为喜事。欢迎您,大仙人。我心欢喜,您有何最高的愿望,我可以为您满足?

1.18.53

पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि मानद ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ १.१८.५३ ॥

婆罗门啊,您对我而言是值得敬奉的贵客;幸运的是您来了,赐予尊荣者啊。今日我的生命有了成果,我的人生也过得美好。

1.18.54

यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम ।
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥ १.१८.५४ ॥

因为我见到了婆罗门中的首领,我的夜晚变成了吉祥的黎明。您从前以王仙之名、凭借苦行而光辉闪耀。

1.18.55

ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ।
तदद्भुतमभूद् विप्र पवित्रं परमं मम ॥ १.१८.५५ ॥

婆罗门啊,你已达到梵仙的境界,我多方面敬你为值得尊崇之人。婆罗门啊,这对我而言已成为奇妙而至为神圣之事。

1.18.56

शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो ।
ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥ १.१८.५६ ॥

大人啊,因见到您而来到这吉祥之地。请告诉我您所求之事,即您此来的目的。

1.18.57

इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये ।
कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत ॥ १.१८.५७ ॥

我愿为您而蒙受恩惠,以增进您的福祉。持善愿者啊,此事不必迟疑,请放心前往。

1.18.58

कर्ता चाहमशेषेण दैवतं हि भवान् मम ।
मम च अयमनुप्राप्तो महानभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥ १.१८.५८ ॥

我完全是您的侍从,您实为我的神明。再生者啊,我这份大的兴隆已经到来。再生者啊,因您的到来而生的圆满无上之法,也已降临于我。

1.18.59

श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टः
परमऋषिः परमं जगाम हर्षम् ॥ १.१८.५९ ॥

闻听这位自制者谦逊说出的悦耳之言,那位以德行与名望闻名、以品质卓异的至上仙人,获得了无上的喜悦。