ヴァールミーキのラーマーヤナ · サルガ 1.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.2.1
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।
पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥ १.२.१ ॥
ナーラダの言葉を聞いて、言葉に巧みな法の魂の人は、弟子とともにその大聖者を供養した。
1.2.2
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।
आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ १.२.२ ॥
彼から相応しく供養されたデーヴァルシ・ナーラダは、別れを告げて許しを得、空路を去った。
1.2.3
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ १.२.३ ॥
彼がしばしのうちに神界へ去ると、その聖者はガンジス川の近くにあるタマサー河の岸へ向かった。
1.2.4
स तु तीरं समासाद्य तमसाया मुनिस्तदा ।
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ १.२.४ ॥
タマサー河の岸に着くと、その聖者は泥のない渡し場を見て、傍らに立つ弟子に語った。
1.2.5
अकर्दममिदं तीर्थं भरद्वाज निशामय ।
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ १.२.५ ॥
バラドヴァージャよ、この渡し場を見よ。泥がなく、美しく、澄んだ水があり、善人の心のようだ。
1.2.6
न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ १.२.६ ॥
わが子よ、水瓶を置き、私の樹皮衣を渡しなさい。この優れたタマサーの渡し場で沐浴しよう。
1.2.7
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ १.२.७ ॥
偉大なるヴァールミーキにこう言われ、バラドヴァージャは師に従い、聖者の樹皮衣を手渡した。
1.2.8
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।
विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥ १.२.८ ॥
弟子の手から樹皮衣を受け取り、感官を制して、その広大な森をあちこち眺めながら歩き回った。
1.2.9
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥ १.२.९ ॥
その近くで、尊き聖者は決して離れることのなく歩き回る一対、すなわち美しい声で鳴く二羽のクラウンチャ鳥を見た。
1.2.10
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः ।
जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १.२.१० ॥
その一対のうち一羽の雄を、罪深い決意を抱き、敵意の巣窟であるその猟師が、彼の見ている前で殺した。
1.2.11
तं शोणितपरीताङ्गं चेष्टमानं महीतले ।
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥ १.२.११ ॥
血に染まった体で地面にもがき、殺された夫を見て、その妻は哀れな声で叫び泣いた。
1.2.12
वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥ १.२.१२ ॥
その二度生まれの鳥、伴侶、赤い冠毛をもち興奮した雄鳥から引き離されて……
1.2.13
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् ।
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ १.२.१३ ॥
猟師に射落とされたその鳥を見て、正しき魂の聖仙の心に慈悲が生じた。
1.2.14
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः ।
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥ १.२.१४ ॥
そこで慈悲を感じ、「これは不正だ」と思い、泣くクラウンチーの声を聞いて、その聖者はこの言葉を語った。
1.2.15
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १.२.१५ ॥
猟師よ、お前は果てしない年月にわたり安住の地を得ることがないように。欲に惑わされ、クラウンチャの番の一羽を殺したのだから。
1.2.16
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥ १.२.१६ ॥
そう語るうちに、彼の心に思いが生じた。「悲しみに打ちひしがれたこの鳥のために、私は何を言ってしまったのか。」
1.2.17
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् ।
शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥ १.२.१७ ॥
思索したその大智の聖者、聖仙の最上の者は、ある決意を定め、弟子にこの言葉を語った。
1.2.18
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १.२.१८ ॥
悲しみに打ちひしがれた私から生じたこの詩節こそがそうあれ、ほかではない。韻律に従い、音節は等しく、琴の調べに合う詩である。
1.2.19
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।
प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ १.२.१९ ॥
弟子は喜んで、その聖者の比類なき言葉を受け取り、師は彼に満足した。
1.2.20
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥ १.२.२० ॥
その聖なる渡し場で定め通りに沐浴した後、聖者はなおその同じ意味を思いめぐらしながら帰っていった。
1.2.21
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥ १.२.२१ ॥
すると、師の謙虚で学識ある弟子バラドヴァージャは、水の満ちた壺を取り、後ろについて行った。
1.2.22
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ १.२.२२ ॥
法を知る聖者は弟子とともに庵に入って座り、他の話をした後、瞑想に入った。
1.2.23
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः ।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ १.२.२३ ॥
そこへ、世界の創造主であり主そのものである、四面の大光明のブラフマーが、あの最上の聖者を見るために来られた。
1.2.24
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ १.२.२४ ॥
ヴァールミーキはその方を見るや、すぐさま立ち上がり、言葉を慎み、合掌して敬虔に、大いに驚きながら立った。
1.2.25
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।
प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥ १.२.२५ ॥
彼はその神を足を洗う水、敬意の供物、座席、礼拝によって供養した。規定どおりに礼拝し、その無事をも尋ねた。
1.2.26
अथोपविश्य भगवानासने परमार्चिते ।
वाल्मीकये च ऋषये संदिदेशासनं ततः ॥ १.२.२६ ॥
そして尊き方は最も尊ばれた座に座り、聖者ヴァールミーキにも座るよう命じた。
1.2.27
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ।
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ॥ १.२.२७ ॥
ブラフマーの許しを得て、彼もまた座に着いた。世界の祖父ご自身が座っておられたとき。
1.2.28
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ।
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ॥ १.२.२८ ॥
その一事に心を向けたまま、ヴァールミーキは瞑想に入った。罪深い者が敵意の報復心から犯した残酷な行いについて。
1.2.29
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।
शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ॥ १.२.२९ ॥
これほど美しい声のクラウンチャ鳥を理由もなく殺す者は罪人である。嘆きながら、彼はまたクラウンチーのためにこの詩句を歌った。
1.2.30
पुनरन्तर्गतमना भूत्वा शोकपरायणः ।
तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥ १.२.३० ॥
再び心を内に向け悲しみに沈んでいると、ブラフマーは微笑みながらその聖者の中の最上の人に語りかけた。
1.2.31
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा ।
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥ १.२.३१ ॥
この詩節こそが成り立て、ここに疑いを抱いてはならない。ブラフマーよ、私の意志によってこそ、このサラスヴァティーがおまえから流れ出たのだ。
1.2.32
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।
धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥ १.२.३२ ॥
聖仙の中の最上者よ、法を魂とする、世において尊く賢明なラーマの全行跡を、あなたは作れ。
1.2.33
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।
रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ॥ १.२.३३ ॥
ナーラダから聞いたとおりに、その堅固なる人の行跡を語れ。その賢者の行為の、秘められたものも明らかなものも。
1.2.34
रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।
वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥ १.२.३४ ॥
ラーマとサウミトリ(ラクシュマナ)の、ラークシャサたちの全て、そしてヴァイデーヒー(シーター)の、明らかなものであれ秘められたものであれ、その行為。
1.2.35
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।
न ते वागनृता काव्ये काचिदत्र भविष्यति ॥ १.२.३५ ॥
まだ知られていないことはすべて、あなたに知られるであろう。この詩において、あなたの言葉は決して偽りとはならない。
1.2.36
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।
यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥ १.२.३६ ॥
ラーマの聖なる物語を詩節に編み、心を喜ばせるものとせよ。大地に山々と河川がある限り。
1.2.37
तावद् रामायणकथा लोकेषु प्रचरिष्यति ।
यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥ १.२.३७ ॥
大地に山々と河川がある限り、ラーマーヤナの物語は諸世界に広まるであろう。そして、おまえによって作られたラーマの物語も広まるであろう。
1.2.38
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।
ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥ १.२.३८ ॥
「それだけの間、上と下にある私の世界でおまえは住むであろう。」こう言って、尊き梵天はその場で姿を消した。そこで尊き聖仙は弟子たちとともに驚きに包まれた。
1.2.39
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।
मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ १.२.३९ ॥
そこで弟子たちは皆、この詩節を再び歌った。何度も喜び、大いに驚きながら、彼らは語った。
1.2.40
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।
सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥ १.२.४० ॥
大聖者が等しい音節の四つの句で歌ったその嘆きは、繰り返し唱えられたことによって詩節(シュローカ)の性質を得た。
1.2.41
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।
कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥ १.२.४१ ॥
心の清らかなヴァールミーキにこの考えが生じた——「このような詩節によって、ラーマーヤナの詩を全体にわたって作ろう」。
1.2.42
उदारवृत्तार्थपदैर्मनोरमै-
स्तदास्य रामस्य चकार कीर्तिमान् ।
समाक्षरैः श्लोकशतैर्यशस्विनो
यशस्करं काव्यमुदारदर्शनः ॥ १.२.४२ ॥
気高い行いと意味と言葉を備えた麗しい詩節によって、その名高い者は、そのときラーマの物語を作った。等しい音節の数百の詩節において、名声ある広い見識の詩人は、名誉をもたらす詩を作った。
1.2.43
तदुपगतसमाससंधियोगं
सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरकरितं मुनिप्रणीतं
दशशिरसश्क वधं निशामयध्वम् ॥ १.२.४३ ॥
ラグの最良者ラーマについて聖者が作り、均整がとれ甘美な語で意味豊かな文に織られ、複合語とサンディが適切に結ばれた、十頭の者の殺害を聞きなさい。