蚁垤《罗摩衍那》 · 篇 1.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.20.1
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥ १.२०.१ ॥
十车王,诸王中的雄虎,听了毗首密多罗的话,一时仿佛失去了知觉;随后恢复神志,说道:
1.20.2
ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ १.२०.२ ॥
我那莲花眼的罗摩尚未满十六岁;我看他不适合与罗刹作战。
1.20.3
इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः ।
अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः ॥ १.२०.३ ॥
这是一支阿克绍希尼大军,我是它的主帅与统领;我将与它同行,亲自与那些夜行者作战。
1.20.4
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ १.२०.४ ॥
我这些勇猛善战、精通武艺的部下,足以与罗刹大军交战;您不应带走罗摩。
1.20.5
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः ॥ १.२०.५ ॥
我将亲自手持弓箭,站在战阵前列守护;只要我还有一口气,就会与那些夜行者作战。
1.20.6
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥ १.२०.६ ॥
您的修行誓约将不受阻碍,并得到妥善守护;我自己将前往那里。您不应带走罗摩。
1.20.7
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥ १.२०.७ ॥
他还是个孩子,尚未学习技艺。他不知强弱,不具备兵器之力,也不精通战阵。
1.20.8
न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः ।
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥ १.२०.८ ॥
他也不是罗刹的对手,因为罗刹善用诡计作战。离开罗摩,我连片刻也不敢独自活下去。
1.20.9
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।
यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ॥ १.२०.९ ॥
众仙中的猛虎啊,你不应带走罗摩。婆罗门啊,持守善愿者啊,若你想带走的正是罗ghava,
1.20.10
चतुरङ्गसमायुक्तं मया सह च तं नय ।
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥ १.२०.१० ॥
带上他与我一同,连同四军之众。憍尸迦啊,他是我历经六万年后才得的儿子。
1.20.11
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि ।
चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥ १.२०.११ ॥
他是历经艰难才得来的,所以你不应带走罗摩。我对四个儿子皆怀着至深的爱。
1.20.12
ज्येष्ठे धर्मप्रधानेच न रामं नेतुमर्हसि ।
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ॥ १.२०.१२ ॥
长子、以法为先的罗摩,你也不应带走。那些罗刹有何等力量?他们是谁的儿子?又是什么人?
1.20.13
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव ।
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥ १.२०.१३ ॥
最优秀的仙人啊,这些罗刹有多强大?谁在保护他们?罗摩该如何对付这些罗刹?
1.20.14
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् ।
सर्वं मे शंस भगवन् कथं तेषां मया रणे ॥ १.२०.१४ ॥
婆罗门啊,我以自己的军队,或我自己这个善用诡计的战士,该如何在战场上对付他们?尊贵者啊,请把一切都告诉我。
1.20.15
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ।
तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ १.२०.१५ ॥
应当坚定地面对那些心怀恶意的人,因为罗刹们因自身力量而骄傲自大。听了他的这番话,毗首弥多罗开口回答。
1.20.16
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥ १.२०.१६ ॥
有一位名叫罗波那的罗刹,生于补罗斯底耶一族。他从梵天那里得到了恩赐,正在极力压迫三界。
1.20.17
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।
श्रूयते च महाराज रावणो राक्षसाधिपः ॥ १.२०.१७ ॥
大王啊,他拥有强大的力量与英勇的气魄,身边簇拥着众多罗刹。据说,那位罗刹之主罗波那,正是此人。
1.20.18
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।
यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः ॥ १.२०.१८ ॥
他确实是毗舍罗婆那(俱毗罗)的兄弟,是仙人毗首罗婆之子。然而,因为这位大力者目前并未真正阻碍祭祀,
1.20.19
तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ १.२०.१९ ॥
在他的鼓动下,这两个极其强大的罗刹,摩利遮与苏婆呼,将会阻碍祭祀。
1.20.20
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥ १.२०.२० ॥
仙人如此说后,国王便对仙人说:“我绝不能在战场上抵挡那个心术邪恶的人。”
1.20.21
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥ १.२०.२१ ॥
因此,知法者啊,请对我和我的儿子施以恩惠。对我这薄福之人而言,您正是神明与导师。
1.20.22
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ १.२०.२२ ॥
连天神、檀那婆、乾闼婆、夜叉、飞禽和龙蛇都无法抵挡罗波那,更何况人类在战场上呢?
1.20.23
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः ।
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ॥ १.२०.२३ ॥
那罗波那在战场上甚至夺走英勇者的勇力;而我既不能与他作战,也无力对抗他的军队。
1.20.24
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।
कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ॥ १.२०.२४ ॥
最优秀的仙人啊,无论他是带着军队,还是与我的儿子们同来,他都如同天神一般;我不擅长战斗;无论如何,我都无法抵挡他。
1.20.25
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ।
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥ १.२०.२५ ॥
婆罗门啊,我绝不会交出我年幼的儿子。连在战场上如死神一般的善与次善两位王子,我也不会交出。
1.20.26
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥ १.२०.२६ ॥
那两个扰乱祭祀的人,我不会交给你。摩利遮与苏跋褐,勇猛且训练有素,我也不会交出。
1.20.27
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः ।
अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः ॥ १.२०.२७ ॥
若要与他们之一交战,我将亲自率领朋友和随从前往。否则,我将与亲族一同设法使您息怒。
1.20.28
कुशिकसुतं सुमहान् विवेश मन्युः ।
सुहुत इव मखेऽग्निराज्यसिक्तः
समभवदुज्ज्वलितो महर्षिवह्निः ॥ १.२०.२८ ॥
极大的愤怒进入了古什卡之子心中。正如祭祀中淋了酥油、得到充分供奉的火焰熊熊燃起,大仙的怒火也随之炽烈。