蚁垤《罗摩衍那》 · 篇 1.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.22.1
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् ।
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥ १.२२.१ ॥
当婆悉吒如此说时,国王十车王亲自面带喜色,召唤罗摩与罗什曼那。
1.22.2
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥ १.२२.२ ॥
母亲、父亲十车王与祭司婆悉吒为他举行了吉祥祝福仪式,并以吉祥咒语为他加持。
1.22.3
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा ।
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥ १.२२.३ ॥
于是国王十车王亲吻儿子的头顶,满心欢喜地将他交给了拘尸迦之子毗湿多弥多罗。
1.22.4
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा ।
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥ १.२२.४ ॥
那时,一阵触之舒适、无尘的微风吹起,因为看到莲花眼的罗摩随毗湿多弥多罗而行。
1.22.5
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः ।
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ १.२२.५ ॥
当这位大德出发时,伴随着天神鼓声,降下大量花雨,并响起海螺与鼓的轰鸣。
1.22.6
विश्वामित्रो ययावग्रे ततो रामो महायशाः ।
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ १.२२.६ ॥
毗湿多弥多罗走在前面,接着名声远扬的罗摩,头顶乌鸦翼般发髻的弓箭手,随之而行;罗什曼那(苏弥陀罗之子)跟随在后。
1.22.7
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥ १.२२.७ ॥
二人手持弓箭,装点十方,跟随大德的毗奢密多罗,犹如两条三头蛇。
1.22.8
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।
अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥ १.२२.८ ॥
二位高尚的青年跟随,如双阿输昆跟随祖父,光辉照人,无可指责,增添了光彩。
1.22.9
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ ।
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥ १.२२.९ ॥
当时二人手持弓箭,装束齐整,系着蜥蜴皮的指套,佩带宝剑,光辉耀眼,跟随着古希卡之子。
1.22.10
कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ।
अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥ १.२२.१० ॥
二位容貌俊美的王子,兄弟罗摩与罗什曼那随行,光辉照人,无可指责,增添了光彩。
1.22.11
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ।
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥ १.२२.११ ॥
如不可思议的湿婆神,如火神之子,二人行走了一由旬半,到达萨拉尤河南岸。
1.22.12
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ।
गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥ १.२२.१२ ॥
毗奢密多罗以温柔的声音呼唤“罗摩”说:“孩子,取水吧;不要耽误时间。”
1.22.13
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ।
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥ १.२२.१३ ॥
你要接受众多咒语,包括婆罗(Balā)与阿提婆罗(Atibalā)。疲倦与发热都不会侵扰你,你的容貌也不会有任何改变。
1.22.14
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः ।
न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥ १.२२.१४ ॥
即使你沉睡或疏忽,罗刹(nairṛta)也不会攻击你。大地之上,没有谁能与你双臂的勇力相比。
1.22.15
त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव ।
बलामतिबलां चैव पठतस्तात राघव ॥ १.२२.१५ ॥
罗摩啊,若你诵念婆罗与阿提婆罗,三界之中便无人能与你相比。亲爱的孩子,罗怙之裔啊!
1.22.16
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥ १.२२.१६ ॥
无瑕者啊,论福运、才干、学识、坚定的心智,以及应答的敏捷,世上没有谁能与你相比。
1.22.17
एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव ।
बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ १.२२.१७ ॥
得到这两门知识之后,便无人能与你相比。婆罗与阿提婆罗是一切知识的两位母亲。
1.22.18
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।
बलामतिबलां चैव पठस्तात राघव ॥ १.२२.१८ ॥
罗摩啊,人中之最,饥渴之苦不会折磨你。亲爱的孩子,罗怙之裔啊,请诵念婆罗与阿提婆罗。
1.22.19
गृहाण सर्वलोकस्य गुप्तये रघुनन्दन ।
विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि ।
पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥ १.२२.१९ ॥
瞿那的喜悦者啊,为了保护一切世界,请接受这两门知识。学习它们,你也将在大地上获得名声。这两门知识是祖父之女,具有光辉。
1.22.20
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव ।
कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥ १.२२.२० ॥
瞿那的王子啊,你才是配得到它们的人。这些众多的美德确实都在你身上,此中没有疑问。
1.22.21
तपसा संभृते चैते बहुरूपे भविष्यतः ।
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥ १.२२.२१ ॥
这两门由苦行而生的知识将会有许多形态。随后,罗摩触摸了水,面容喜悦,变得清净。
1.22.22
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ।
विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥ १.२२.२२ ॥
罗摩从那位心已调伏的大仙人处接受了那两门知识。具备知识的大勇罗摩光彩焕发。
1.22.23
सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः ।
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ १.२२.२३ ॥
将所有老师交付的职责托付给古史迦之子后,这三人,如同秋日的太阳,那位千光的尊者,在萨拉尤河岸安然度过了那个夜晚。
1.22.24
दशरथनृपसूनुसत्तमाभ्यां
तृणशयनेऽनुचिते तदोषिताभ्याम् ।
कुशिकसुतवचोऽनुलालिताभ्याम्
सुखमिव सा विबभौ विभावरी च ॥ १.२२.२४ ॥
十车王的两位杰出王子睡在那不合身份的草席上;受到古史迦之子言语的抚慰,那一夜仿佛幸福本身一般闪耀。