Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.37.1

तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ १.३७.१ ॥

当时,神(湿婆)正沉浸于苦行之中,因陀罗与火神为首的诸天神渴望一位统帅,便前往祖父(梵天)处。

1.37.2

ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥ १.३७.२ ॥

于是,以因陀罗和火神为首的诸天神向尊贵的祖父(梵天)行礼,说道:“诸神的喜乐啊!”

1.37.3

येन सेनापतिर्देव दत्तो भगवता पुरा ।
स तपः परमास्थाय तप्यते स्म सहोमया ॥ १.३७.३ ॥

“神啊,尊者昔日授予统帅之职的那位,如今正与乌玛一同修持至高的苦行。”

1.37.4

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ १.३७.४ ॥

“精通仪轨者啊,出于利益众生的愿望,请安排接下来应当做的事;因为您正是我们最高的归依。”

1.37.5

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ १.३७.५ ॥

祖父(梵天)听了诸神的话,以温和的言辞安慰三十三天,于是说道:

1.37.6

शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु ।
तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥ १.३७.६ ॥

“山之女(乌玛)所说的——他不会从自己的妻子那里生育子嗣——她那番话出于自然,确实是真实的,毫无疑问。”

1.37.7

इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिंदमम् ॥ १.३७.७ ॥

此乃天河,阿耆尼将在此生下一子,为诸神之将帅,降伏敌人者。

1.37.8

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् ।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥ १.३७.८ ॥

山王之长女乌玛将尊敬那个儿子;此事必为乌玛所深为看重,毫无疑问。

1.37.9

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ १.३७.९ ॥

罗怙之喜悦者啊!诸神闻其言,心愿已成,皆向祖父礼拜并供奉之。

1.37.10

ते गत्वा परमं राम कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ १.३७.१० ॥

罗摩啊,诸神前往以矿物装饰的至高冈仁波齐,并委派阿耆尼为求子之事。

1.37.11

देवकार्यमिदं देव समाधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥ १.३७.११ ॥

神啊,此乃诸神之事;阿耆尼啊,请成就之。大光明者啊,请将你的光辉注入山女与恒河之中。

1.37.12

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ १.३७.१२ ॥

阿耆尼以允诺答复诸神后,来到恒河之前说道:天女啊,请务必怀上此胎;此事为诸神所喜。

1.37.13

इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥ १.३७.१३ ॥

听到这些话,他化为神圣的形体;见到她的威严,他便向四面八方散去。

1.37.14

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १.३७.१४ ॥

于是火神从四面八方注满了女神,恒河所有的水流都充盈了,啊,罗怙之喜。

1.37.15

तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् ।
अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥ १.३७.१५ ॥

于是恒河对众神之首火神说:“天神啊,我无法承受你熊熊燃烧的光辉。”

1.37.16

दह्यमानाग्निना तेन सम्प्रव्यथितचेतना ।
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥ १.३७.१६ ॥

恒河被那火焰灼烧,心神极度惶乱,于是那位享用诸神祭品的火神对她说了这些话。

1.37.17

इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् ।
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥ १.३७.१७ ॥

“让这胎儿安置在此,在喜马拉雅的山坡上。”恒河听到火神的话,便将那极其光辉的胎儿——

1.37.18

उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ ।
यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥ १.३७.१८ ॥

于是,啊,无罪者,她从自己的水流中将它释放;从她那里出来的,光辉如熔化的金子。

1.37.19

काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् ।
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥ १.३७.१९ ॥

抵达金色大地的,是光芒无比的黄金;由于其锐利之性,铜与铁矿也随之产生。

1.37.20

मलं तस्याभवत् तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ १.३७.२० ॥

其渣滓便在那里化为锡与铅;如此抵达大地后,它化为多种金属而增长。

1.37.21

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम् ॥ १.३७.२१ ॥

一旦置于大地之胎,万物便被其光辉染透,被群山环绕的整片森林都变成了金色。

1.37.22

जातरूपमिति ख्यातं तदाप्रभृति राघव ।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ।
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥ १.३७.२२ ॥

自此,它便被称为「生相」。啊,罗摩,人中之虎,那如火焰般光亮的黄金;草、树、藤蔓与灌木,一切都化为金色。

1.37.23

तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥ १.३७.२३ ॥

为这位新生的童子,因陀罗与摩录多群众指派昴宿女神们为其哺乳。

1.37.24

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥ १.३७.२४ ॥

童子方生,昴宿女神们便立下美好的约定,给他喂奶,并确定:「这孩子是我们所有人的儿子。」

1.37.25

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥ १.३७.२५ ॥

于是众神说:“此子名为迦尔提刻耶。”他将在三界闻名,此事毋庸置疑。

1.37.26

तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।
स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥ १.३७.२६ ॥

他们听了这话,便以至上的光辉为从胎中滑落、如火般闪耀的那孩子沐浴。

1.37.27

स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे ।
कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥ १.३७.२७ ॥

众神称这从胎中滑落之子为“斯坎达”。啊,迦咂斯特,那位大臂的迦尔提刻耶,如火一般。

1.37.28

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥ १.३७.२८ ॥

于是,迦利底迦诸女的乳中涌出了至上的乳汁。他化作六面,吮吸了六人的乳汁。

1.37.29

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥ १.३७.२९ ॥

这位身体柔嫩的全能者,一日之内饮乳,便以自身的威力击败了魔众的军队。

1.37.30

सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् ।
ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥ १.३७.३० ॥

他们册立这位大光明者为天军众将之主。随后,以火神为首的诸不死者齐聚一起,为他灌顶。

1.37.31

एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ १.३७.३१ ॥

罗摩啊,我已向你讲述了恒河的这段源流;而鸠摩罗的诞生同样吉祥而圣洁。

1.37.32

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ १.३७.३२ ॥

迦古特斯特啊,世间信奉室建陀(迦尔底盖耶)的人,将长寿、子孙满堂,并得以往生斯堪达之界。