蚁垤《罗摩衍那》 · 篇 1.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.38.1
तां कथां कौशिको रामे निवेद्य मधुराक्षराम् ।
पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १.३८.१ ॥
仙人憍尸迦向迦古特斯塔族的罗摩讲完这段甜美言辞的故事后,又对罗摩说了这另外一番话。
1.38.2
अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ १.३८.२ ॥
英雄啊,古时阿逾陀国的君主名叫萨伽罗,是一位心地正直的王者,他渴望子嗣,却没有子女。
1.38.3
वैदर्भदुहिता राम केशिनी नाम नामतः ।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ १.३८.३ ॥
罗摩啊,名叫克舍尼的,是毗达婆国王的女儿,长女,乃是萨伽罗的妻子;她极其正直,言语诚实。
1.38.4
अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा ।
द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥ १.३८.४ ॥
阿利什塔涅弥之女,金翅鸟(迦楼罗)的妹妹,是第二位妻子,名叫苏摩提,是萨伽罗之妻。
1.38.5
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः ।
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ १.३८.५ ॥
这位大王与两位妻子一同来到喜马拉雅山,在名为“仙人泉”的山上修行苦行。
1.38.6
अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः ।
सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ॥ १.३८.६ ॥
一百年圆满之时,因苦行而被感动的仙人婆利古,即真实者中最优秀的,赐予萨伽罗一个恩惠。
1.38.7
अपत्यलाभः सुमहान् भविष्यति तवानघ ।
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥ १.३८.७ ॥
无罪者啊,你将得到极大的子嗣之福;人中之雄啊,你将在世上获得无比的声名。
1.38.8
एका जनयिता तात पुत्रं वंशकरं तव ।
षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ १.३८.८ ॥
亲爱的,其中一人将生下一个延续你家族的儿子,另一人将生下六万个儿子。
1.38.9
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ १.३८.९ ॥
大德者说话时,两位公主十分欢喜,使他欢心后,合掌恭敬地说道。
1.38.10
एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ १.३८.१० ॥
婆罗门啊,我们中谁将生下那个独子,谁将生下众多之子?婆罗门啊,我们愿意听闻;愿您的话成真。
1.38.11
तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥ १.३८.११ ॥
婆利固最为正直,听了她们的话,以庄严的言辞说道:“就依你们自己的心愿来决定吧。”
1.38.12
एको वंशकरो वास्तु बहवो वा महाबलाः ।
कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ १.३८.१२ ॥
是要一个能延续家族的儿子,还是要许多强大、有名、极有进取心的儿子?你们谁想要哪一种恩赐?
1.38.13
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन ।
पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥ १.३८.१३ ॥
罗怙之喜的罗摩啊,克希尼听了仙人的话,在国王面前选定了延续家族血脉的儿子。
1.38.14
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १.३८.१४ ॥
那时,苏巴尔纳之妹须摩提选取了六万个充满大志、名声显赫的儿子。
1.38.15
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य तम् ।
जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ १.३८.१५ ॥
罗怙之喜的罗摩啊,国王右绕仙人,低头致敬,然后偕同诸妃返回自己的城市。
1.38.16
अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत ।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १.३८.१६ ॥
时间流逝之后,他的长妻克希尼生下了一个名叫阿萨曼遮的儿子,即萨伽罗之子。
1.38.17
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः ॥ १.३८.१७ ॥
人中虎啊,须摩提产下一个葫芦状的胎,葫芦破开后,六万个儿子从中出来。
1.38.18
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् ।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १.३८.१८ ॥
乳母们把他们养在盛满酥油的瓮中,久而久之,他们全都成长为青年。
1.38.19
अथ दीर्घेण कालेन रूपयौवनशालिनः ।
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १.३८.१९ ॥
此后经过很长时间,萨加拉生下了六万个容貌俊美、年华正盛的儿子。
1.38.20
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥ १.३८.२० ॥
人中之杰、罗怙之悦!萨加拉那位亲生的长子,抓起孩子们,投入萨拉尤河水中……
1.38.21
प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै ।
एवं पापसमाचारः सज्जनप्रतिबाधकः ॥ १.३८.२१ ॥
他把孩子们投入水中,看着他们沉没便常常大笑。他行为邪恶,是善良之人的障碍。
1.38.22
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् ।
तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥ १.३८.२२ ॥
他一心加害城中百姓,被父亲逐出城外。他的儿子名叫安舒曼,是阿萨曼遮的勇武之子。
1.38.23
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ।
ततः कालेन महता मतिः समभिजायत ॥ १.३८.२३ ॥
他为三界所敬重,对人人言语和善。此后经过很长时间,萨加拉心中生出一个决意。
1.38.24
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ।
स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा ।
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥ १.३८.२४ ॥
人中之杰!萨加拉决意:“我要举行祭祀。”那位精通吠陀的国王,与他的祭司群一同作出决定,随即开始主持祭祀之事。