Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.42.1

कालधर्मं गते राम सगरे प्रकृतीजनाः ।
राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १.४२.१ ॥

萨格罗依时间之法离世后,臣民拥立最为正直的安舒曼为王。

1.42.2

स राजा सुमहानासीदंशुमान् रघुनन्दन ।
तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः ॥ १.४२.२ ॥

安舒曼是一位伟大的君王,罗怙之喜悦者啊。他的儿子名为迪利帕,是一位著名的伟人。

1.42.3

तस्मै राज्यं समादिश्य दिलीपे रघुनन्दन ।
हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् ॥ १.४२.३ ॥

罗怙之喜悦者啊,迪利帕将王国交付于他,便在喜马拉雅美丽的山峰上行了极为严酷的苦行。

1.42.4

द्वात्रिंशच्छतसाहस्रं वर्षाणि सुमहायशाः ।
तपोवनगतो राजा स्वर्गं लेभे तपोधनः ॥ १.४२.४ ॥

在苦行林中居住三万二千年后,这位大名远扬、以苦行为财富的君王升入了天界。

1.42.5

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।
दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ १.४२.५ ॥

然而,大光辉的迪利帕听闻祖先遭毁灭之事,心被忧伤所困,终究拿不定主意。

1.42.6

कथं गङ्गावतरणं कथं तेषां जलक्रिया ।
तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ॥ १.४२.६ ॥

“如何让恒河降临?如何为他们行水祭?我该如何救度他们?”他因此陷入了深深的思索。

1.42.7

तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ १.४२.७ ॥

他终日思虑之时,生下一子,名为跋吉罗陀,极为正直,因法而了悟自我。

1.42.8

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ १.४२.८ ॥

而大光辉的迪利波以众多祭祀崇拜神明;作为国王,他治理国家三万年。

1.42.9

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।
व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ १.४२.९ ॥

人中猛虎啊!国王未能为他们的救度作出决断,便因疾病而迎来了时之法则(死亡)。

1.42.10

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ १.४२.१० ॥

人中雄牛之王凭借自己所积的善业升往因陀罗天界,并将儿子跋吉罗陀立为国王。

1.42.11

भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।
अनपत्यो महाराजः प्रजाकामः स च प्रजाः ॥ १.४२.११ ॥

然而跋吉罗陀这位正直的王仙,啊,罗怙之喜,没有子嗣;这位大王渴望子孙。

1.42.12

मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः ।
तपो दीर्घं समातिष्ठद् गोकर्णे रघुनन्दन ॥ १.४२.१२ ॥

他将王国托付给大臣,一心致力于恒河降临,在牛耳处行长久苦修。罗怙之喜啊!

1.42.13

ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ।
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥ १.४२.१३ ॥

他双臂高举,行五火苦行,每月只进一次食,已制服诸根,在严酷的苦行中安住,千年万载就这样流逝了。

1.42.14

अतीतानि महाबाहो तस्य राज्ञो महात्मनः ।
सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः ॥ १.४२.१४ ॥

大力者啊,那位大德之王的那些岁月过去了;那时,众生之主、至尊的梵天大为欢喜。

1.42.15

ततः सुरगणैः सार्धमुपागम्य पितामहः ।
भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ १.४२.१५ ॥

于是,祖父梵天与众天神一同来到,对正在修苦行的大德婆吉罗陀说道。

1.42.16

भगीरथ महाराज प्रीतस्तेऽहं जनाधिप ।
तपसा च सुतप्तेन वरं वरय सुव्रत ॥ १.४२.१६ ॥

婆吉罗陀啊,大王,人主啊,我因你这番修得极好的苦行而欢喜;持守坚定誓愿者啊,请选择一个恩赐吧。

1.42.17

तमुवाच महातेजाः सर्वलोकपितामहम् ।
भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः ॥ १.४२.१७ ॥

于是,大光明、大臂的婆吉罗陀合掌恭敬站立,对一切世界的祖父梵天说道。

1.42.18

यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् ।
सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥ १.४२.१८ ॥

尊者啊,若您对我欢喜,若我的苦行有果报,愿萨加罗的所有儿子都能从我这里得到水。

1.42.19

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।
स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः ॥ १.४२.१९ ॥

以恒河之水浸润这些大德者的骨灰,所有的曾祖父都将完全升入天界。

1.42.20

देव याचे ह संतत्यै नावसीदेत् कुलं च नः ।
इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥ १.४२.२० ॥

大神啊,我祈求子嗣,愿我们的家族与甘蔗王族不致断绝;大神啊,愿这便是我最上的恩赐。

1.42.21

उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।
प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ १.४२.२१ ॥

国王说完这些话后,万界之祖以吉祥、柔和、音韵甜美的声音回答了他。

1.42.22

मनोरथो महानेष भगीरथ महारथ ।
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥ १.४२.२२ ॥

薄伽罗陀啊,这是你的大愿。大车手啊,就这样吧。愿你吉祥,甘蔗王族的光大者啊!

1.42.23

इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता ।
तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् ॥ १.४२.२३ ॥

这是恒河,雪山之长女。国王啊,应当委派哈罗(湿婆)在那里承接她。

1.42.24

गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते ।
तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः ॥ १.४२.२४ ॥

国王啊,大地将无法承受恒河的坠落。国王啊,除了持三叉戟者,我看不到还有谁能承接她。

1.42.25

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।
जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः ॥ १.४२.२५ ॥

创造世界者对国王如此说完,又对恒河说了话,便与诸神及摩录多众一同前往三界天上。