蚁垤《罗摩衍那》 · 篇 1.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.46.1
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता।
मारीचं कश्यपं नाम भर्तारमिदमब्रवीत् ॥ १.४६.१ ॥
那些儿子被杀之后,极度悲痛的提提对她的丈夫摩利制·迦叶波这样说道。
1.46.2
हतपुत्रास्मि भगवंस्तव पुत्रौर्महाबलैः।
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ॥ १.४६.२ ॥
尊者啊,我的儿子们被你那些大力的儿子所杀。我渴望一个以长久苦行所得、能杀死帝释天的儿子。
1.46.3
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि।
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ १.४६.३ ॥
我将修苦行;你应当赐我怀孕。你应允许我,为了一个能杀死因陀罗的儿子。
1.46.4
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ १.४६.४ ॥
摩利制·迦叶波听了她的话,这位大光明者便回答了极度悲痛的提提。
1.46.5
एवं भवतु भद्रं ते शुचिर्भव तपोधने।
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ १.४६.५ ॥
就这样吧,愿你吉祥。保持清净,苦行的宝藏啊;你将生下一个能在战场上杀死因陀罗的儿子。
1.46.6
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि।
पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि ॥ १.४६.६ ॥
待满一千年之时,若你保持清净,你将从我这里生下一个能杀死三界敌人的儿子。
1.46.7
एवमुक्त्वा महातेजाः पाणिना सम्ममार्ज ताम्।
तामालभ्य ततः स्वस्ति इत्युक्त्वा तपसे ययौ ॥ १.४६.७ ॥
大光辉者如此说罢,以手抚摸她;然后触摸她并说“吉祥”,便前往苦行去了。
1.46.8
गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता।
कुशप्लवं समासाद्य तपस्तेपे सुदारुणम् ॥ १.४६.८ ॥
人中之尊啊,他离去后,提缇大喜,来到吉祥草之岸,修行极其严苛的苦行。
1.46.9
तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह।
सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ १.४६.९ ॥
人中之尊啊,当她修行苦行时,千眼者(因陀罗)以至高的德行之富来侍奉她。
1.46.10
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम् ॥ १.४६.१० ॥
千眼者奉上火、吉祥草、柴薪、水、果实和根茎,以及她所希求的一切。
1.46.11
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा।
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥ १.४६.११ ॥
帝释在一切时候,以按摩肢体、消除疲劳来侍奉提缇。
1.46.12
पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन।
दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत् ॥ १.४६.१२ ॥
罗怙之欢喜者啊,当千年将满,只差十年时,提缇大喜,对千眼者说道。
1.46.13
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर।
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ १.४६.१३ ॥
勇力之中最优秀的人啊,愿你吉祥。待十年苦行中剩余的岁月过去,你便会见到你的兄弟。
1.46.14
यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम्।
त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर ॥ १.४६.१४ ॥
孩子啊,为了你,我将立起那渴望胜利的人;孩子啊,你将与征服三界一同无忧地享有它。
1.46.15
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना।
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १.४६.१५ ॥
诸神中最优秀的人啊,你那伟大的父亲应我的恳求,在千年之末赐予我一个关于儿子的恩典。
1.46.16
इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यं दिनेश्वरे।
निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥ १.४६.१६ ॥
说完这些,太阳到了中午,女神底提被睡意征服,便躺在那里,双脚放在头的一侧。
1.46.17
दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम्।
शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥ १.४६.१७ ॥
因子见她污秽不净,头发铺在脚边,双脚放在头的位置,因陀罗大笑,心中欢喜。
1.46.18
तस्याः शरीरविवरं प्रविवेश पुरंदरः।
गर्भं च सप्तधा राम चिच्छेद परमात्मवान् ॥ १.४६.१८ ॥
罗摩啊,破城者因陀罗进入了她身体的孔道,那位自制力极强的神将胎儿切成了七段。
1.46.19
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा।
रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥ १.४६.१९ ॥
罗摩啊,当胚胎被百节金刚杵劈开时,它大声啼哭;于是提提醒了过来。
1.46.20
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत।
बिभेद च महातेजा रुदन्तमपि वासवः ॥ १.४६.२० ॥
“莫哭,莫哭。”帝释对胎儿这样说;然而大光明的婆薮仍然劈开了哭泣的胎儿。
1.46.21
न हन्तव्यं न हन्तव्यमित्येव दितिरब्रवीत्।
निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥ १.४६.२१ ॥
“不可杀,不可杀。”提提如此说;于是,出于对母亲之言的敬重,帝释走了出来。
1.46.22
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत।
अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा ॥ १.४६.२२ ॥
帝释手持金刚杵,合掌对提提说:“女神啊,你不洁地躺着,头发散落在脚边。”
1.46.23
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे।
अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ १.४६.२३ ॥
“女神啊,我抓住那个机会,将将来会在战场上杀死帝释者劈成七段;此事请你原谅我。”