蚁垤《罗摩衍那》 · 篇 1.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.49.1
अफलस्तु ततः शक्रो देवानग्निपुरोगमान्।
अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान् ॥ १.४९.१ ॥
于是因恐惧而目光惊惶的因陀罗,对以阿耆尼为首的诸神、悉陀、乾闼婆和遮罗那说道。
1.49.2
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ १.४९.२ ॥
我阻挠了大德乔答摩的苦行,激起他的愤怒,因此完成了诸神的使命。
1.49.3
अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता।
शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ १.४९.३ ॥
他盛怒之下使我失去生育之能,又抛弃了那位女子。我借口解除她的诅咒,夺去了他的大苦行。
1.49.4
तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः।
सुरकार्यकरं यूयं सफलं कर्तुमर्हथ ॥ १.४९.४ ॥
因此,诸神中的至尊们啊,你们所有人与众仙人和遮罗那一道,理应使我这完成诸神使命的人重新获得生育之能。
1.49.5
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः।
पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ॥ १.४९.५ ॥
诸神以阿耆尼为首,闻听因陀罗之言后,与众摩录多一道前往祖灵诸神处,齐声说道。
1.49.6
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत ॥ १.४९.६ ॥
这只公羊有睾丸,而因陀罗却已变得没有睾丸。取来公羊的两枚睾丸,迅速交给因陀罗。
1.49.7
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति।
भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः।
अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ॥ १.४९.७ ॥
虽然这只公羊已被变得无果,它仍会给你们带来至高的满足。那些为了你们的欢喜而布施的人,你们将赐予他们不尽而丰厚的果报。
1.49.8
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ १.४९.८ ॥
诸祖神听闻阿耆尼之言,齐聚一处;拔下公羊的睾丸,安放在千眼的因陀罗身上。
1.49.9
तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः।
अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन् ॥ १.४९.९ ॥
自那时起,啊,嘉古史塔之裔,诸祖神便聚集在一起,食用那无果的公羊,并为他们配上果实的供物。
1.49.10
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव।
गौतमस्य प्रभावेण तपसा च महात्मनः ॥ १.४९.१० ॥
然而因陀罗自那时起便带着公羊的睾丸,啊,罗怙之裔,因大德乔达摩的威力与苦行而一直如此。
1.49.11
तदागच्छ महातेज आश्रमं पुण्यकर्मणः।
तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ १.४९.११ ॥
因此,啊,大光辉者,请来到那行善积德者的净舍,救度这位大福的、具神形的阿诃厘耶。
1.49.12
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह ॥ १.४९.१२ ॥
罗怙之子闻听毗首弥多罗之言,与罗什曼那一同,将毗首弥多罗置于前,走入了净舍。
1.49.13
ददर्श च महाभागां तपसा द्योतितप्रभाम्।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ १.४९.१३ ॥
他们看见了她,这位大有福德者,因苦行而光辉照耀,即便三界、天神与阿修罗聚集,也难以直视。
1.49.14
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव।
धूमेनाभिपरीतांगीं दीप्तामग्निशिखामिव ॥ १.४९.१४ ॥
仿佛梵天以极大的努力造就,是神圣的幻化之物;肢体被烟雾笼罩,如同炽燃的火焰。
1.49.15
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव।
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥ १.४९.१५ ॥
如同被霜雪与云彩遮蔽的满月光华;在水中央,难以接近,闪耀如太阳之光。
1.49.16
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह।
त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्।
शापस्यान्तमुपागम्य तेषां दर्शनमागता ॥ १.४९.१६ ॥
因为仙人gautama的话,她对三界而言都难以得见,直到见到罗摩;她终结了诅咒,来到他们面前显现。
1.49.17
राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा।
स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ ॥ १.४९.१७ ॥
此时,两位罗ghu之后满心欢喜地握住她的双足;她记起仙人gautama的话,便接纳了他们二人。
1.49.18
पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १.४९.१८ ॥
她心神专注,供奉洗足之水、敬奉之水与待客之礼;迦古特斯达按规定的仪轨接受了这些。
1.49.19
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः।
गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः ॥ १.४९.१९ ॥
在天神鼓声中降下大量花雨,乾闼婆与阿普萨拉斯举行了盛大的庆典。
1.49.20
साधु साध्विति देवास्तामहल्यां समपूजयन्।
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ १.४९.२० ॥
诸天说:“善哉,善哉!”他们全心尊崇那位阿诃厘雅,她的身体因苦行之力而得净化,且顺从于乔达摩。
1.49.21
गौतमोऽपि महातेजा अहल्यासहितः सुखी।
रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः ॥ १.४९.२१ ॥
光辉盛大的乔达摩也与阿诃厘雅一同欢喜;依法尊敬罗摩之后,这位大苦行者便修起苦行。
1.49.22
रामोऽपि परमां पूजां गौतमस्य महामुनेः।
सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः ॥ १.४९.२२ ॥
罗摩也依法从大仙乔达摩处获得至上的尊敬,随后便启程前往弥提罗。