Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.5.1

सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा ।
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ १.५.१ ॥

往昔,整个大地属于那些以生主为本源、富于胜利的诸王。

1.5.2

येषां स सगरो नाम सागरो येन खानितः ।
षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ १.५.२ ॥

其中有名为萨加罗的王,大海为他所开凿;他前行时,六万个儿子环绕着他。

1.5.3

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ १.५.३ ॥

此乃伊刹婆库之族;此大叙事生于那些大德诸王的世系之中,名为《罗摩衍那》。

1.5.4

तदिदं वर्तयिष्यावः सर्वं निखिलमादितः ।
धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥ १.५.४ ॥

我们将从头完整讲述此事,其中兼具法、欲与利;应当无嫉妒地聆听。

1.5.5

कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ १.५.५ ॥

有一大国名为憍萨罗,欢乐而富饶,坐落于萨罗由河岸,财富与谷物丰足。

1.5.6

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ १.५.६ ॥

那里有一座名为阿逾陀的城市,闻名于世,是人主摩奴亲自所建。

1.5.7

आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ १.५.७ ॥

这座大城长十二由旬,宽三由旬,大道划分得井然有序。

1.5.8

राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ १.५.८ ॥

这座城以宽阔而井然有序的王道为装饰,那里总是洒满散落的花朵,并以清水洒扫。

1.5.9

तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।
पुरीमावासयामास दिवि देवपतिर्यथा ॥ १.५.९ ॥

辅佐广大王国的国王十车王,将那座城市充实得如同天界的诸神之王因陀罗居于天上一般。

1.5.10

कपाटतोरणवतीं सुविभक्तान्तरापणाम् ।
सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥ १.५.१० ॥

这座城有门和牌楼,城内市集划分得井然有序;城中备有各种器械与兵器,居住着各行各业的工匠。

1.5.11

सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ १.५.११ ॥

这座光辉而壮丽的城市人声鼎沸,有游吟诗人与颂扬者,拥有无与伦比的光彩;高耸的楼台与旌旗林立,城中布满数百架百杀器。

1.5.12

वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १.५.१२ ॥

这座大城四周人群中有舞女与戏班相伴,园林与芒果林相映,被一圈娑罗树所环绕。

1.5.13

दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् ।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १.५.१३ ॥

四周环绕着深广难越的护城河,敌人难以靠近,充满战马与战象,并有牛、骆驼和驴。

1.5.14

सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १.५.१४ ॥

四周环绕着众多附庸小王与纳贡之君,并有来自各地的居民与商人使其增添光彩。

1.5.15

प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् ।
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १.५.१५ ॥

装饰着以珠宝雕琢的楼阁,如群山般耸立,充满高塔厅堂,宛如因陀罗的阿摩罗跋提。

1.5.16

चित्रामष्टापदाकारां वरनारीगणायुताम् ।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ १.५.१६ ॥

奇妙的城市呈棋盘之形,聚集着众多美丽的女子,遍布各种珍宝,并以如天车般的宫殿装饰。

1.5.17

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥ १.५.१७ ॥

房屋密集而无空隙,建立在平坦之地,充满稻米与去壳的谷物,水甜如甘蔗汁。

1.5.18

दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १.५.१८ ॥

鼓声、大鼓、琵琶与盘鼓之声响彻不绝,那座大地上无与伦比的城市。

1.5.19

विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १.५.१९ ॥

它如同天界中以苦行所获的成就者的宫殿,内部房舍布置得井然有序,被最优秀的人们环绕。

1.5.20

ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ १.५.२० ॥

他们用箭射击,不会错失单一目标,也不会错失接连而来的目标;他们能凭声音命中,也能射中广阔的目标——手法轻捷而娴熟。

1.5.21

सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥ १.५.२१ ॥

在森林中猎杀咆哮的狂怒狮子、老虎和野猪;以利刃,也以臂力,有力地将它们杀死。

1.5.22

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ॥ १.५.२२ ॥

那座被成千上万这样的大车战士所充满的城市,当时由国王十车王使之人丁兴旺。

1.5.23

तामग्निमद्भिर्गुणवद्भिरावृतां
द्विजोत्तमैर्वेदषडङ्गपारगैः ।
सहस्रदैः सत्यरतैर्महात्मभि-
र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥ १.५.२३ ॥

这座城市被最优秀的再生族环绕:他们奉持圣火,品德高尚,精通吠陀及其六支,施舍千计,恪守真理,心胸高尚,如同大仙,还有纯净的仙人。