Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 1.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.50.1

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह।
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १.५०.१ ॥

そこでラーマはサウミトリと共に北東へ行き、ヴィシュヴァーミトラを先頭に立てて祭祀の場に至った。

1.50.2

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः।
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ १.५०.२ ॥

ラクシュマナと共にいたラーマは、聖者の中の虎であるヴィシュヴァーミトラに言った。「偉大なるジャナカの祭祀の繁栄は、まことに見事です。」

1.50.3

बहूनीह सहस्राणि नानादेशनिवासिनाम्।
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥ १.५०.३ ॥

「大いなる福徳を持つ方よ、ここには様々な地方に住み、ヴェーダの学習に秀でた数千のバラモンがおります。」

1.50.4

ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः।
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥ १.५०.४ ॥

「仙人たちの庵の陣営が見え、何百もの車で溢れています。バラモンよ、我々が滞在する場所をお定めください。」

1.50.5

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः।
निवासमकरोद् देशे विविक्ते सलिलान्विते ॥ १.५०.५ ॥

ラーマの言葉を聞いた大聖者ヴィシュヴァーミトラは、水の豊かな人里離れた場所に住まいを定めた。

1.50.6

विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा।
शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः ॥ १.५०.६ ॥

ヴィシュヴァーミトラが到着したと聞き、非の打ちどころのない王の中の王は、司祭シャタananda を先頭に立てて出発した。

1.50.7

ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्।
प्रत्युज्जगाम सहसा विनयेन समन्वितः ॥ १.५०.७ ॥

偉大な祭官たちもまた、アルギヤを手に速やかに、謙虚さをもって直ちに出迎えに向かった。

1.50.8

विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम्।
प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥ १.५०.८ ॥

ヴィシュヴァーミトラは、偉大なジャナカがダルマにしたがい敬意をもって捧げた供養を受け取った。

1.50.9

पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्।
स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥ १.५०.९ ॥

彼は王の無事と、祭祀が障りなく進んでいるかを尋ねた。その後、諸仙、師、家付きの祭官にも安否を尋ねた。

1.50.10

यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत्।
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥ १.५०.१० ॥

彼は諸仙すべてにふさわしく喜びをもって会った。そして王は合掌して、仙人の中の最勝者に語りかけた。

1.50.11

आसने भगवानास्तां सहैभिर्मुनिपुंगवैः।
जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥ १.५०.११ ॥

「尊者よ、これらの諸仙の最勝者たちとともに座席におつきください。」ジャナカの言葉を聞いて、大仙は座についた。

1.50.12

पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः।
आसनेषु यथान्यायमुपविष्टाः समन्ततः ॥ १.५०.१२ ॥

家付きの祭官、祭官たち、王と大臣たちは、慣習にしたがって座席に周囲をとり囲んで座った。

1.50.13

दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्।
अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ॥ १.५०.१३ ॥

そこでヴィシュヴァーミトラを見た王は言った。「今日、神々は私の祭祀の繁栄を実りあるものとされた。」

1.50.14

अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ॥ १.५०.१४ ॥

今日、尊き方を拝見したことで、私は祭祀の果報を得ました。私は幸せで恩恵を受けています。聖者の中で最も優れたあなたが私のもとに来られたのですから。

1.50.15

यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह।
द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः ॥ १.५०.१५ ॥

バラモンよ、あなたは聖仙たちと共に祭祀の場に来られました。バラモン仙よ、賢者たちは灌頂の誓いは十二日間だと言います。

1.50.16

ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक।
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥ १.५०.१६ ॥

さて、カウシカよ、分け前を求める神々をご覧ください。こう言って、喜びの面持ちの王はその聖仙の中の虎に向かって語った。

1.50.17

पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः।
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ॥ १.५०.१७ ॥

王は合掌し、敬虔な態度で再び彼に尋ねた。「あなたに幸いがありますように。神々に匹敵する勇猛さを持つこの二人の王子は誰なのでしょうか。」

1.50.18

गजतुल्यगती वीरौ शार्दूलवृषभोपमौ।
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ १.५०.१८ ॥

象のような歩みの英雄たち、虎と牡牛に似て、蓮の花びらのように広い目をし、剣と箙と弓を携え、美しさは双子のアシュヴィン神のよう、若さの盛りに達している。

1.50.19

यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ १.५०.१९ ॥

まるで偶然に天界から地上に降りた二人の不死者のようです。聖仙よ、二人は徒歩でどうやってここへ来たのか、何のためか、そして誰の息子なのか。

1.50.20

वरायुधधरौ वीरौ कस्य पुत्रौ महामुने।
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥ १.५०.२० ॥

優れた武器を携えたこの二人の英雄は、誰の息子なのでしょうか、大聖者よ。彼らは、月と太陽が空を飾るように、この地を飾っています。

1.50.21

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः।
काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ १.५०.२१ ॥

互いに背丈も身振りも振る舞いも似ており、カラスの翼の髪房を結ったこの英雄たち——彼らについて真実を聞きたいのです。

1.50.22

तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः।
न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ ॥ १.५०.२२ ॥

偉大な心のジャナカのその言葉を聞き、無限の魂を持つ聖者はダシャラタの二人の息子について語った。

1.50.23

सिद्धाश्रमनिवासं च राक्षसानां वधं तथा।
तत्रागमनमव्यग्रं विशालायाश्च दर्शनम् ॥ १.५०.२३ ॥

成就者の隠棲所での滞在、羅刹の殺害、そこへ動じることなく到着したこと、そしてヴィシャーラーを見たこと。

1.50.24

अहल्यादर्शनं चैव गौतमेन समागमम्।
महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥ १.५०.२४ ॥

アハリヤーを見たこと、ゴータマとの再会、そして大弓への好奇心を呼び起こすためにそこへ来たこと——同様に。

1.50.25

एतत् सर्वं महातेजा जनकाय महात्मने।
निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ १.५०.२५ ॥

偉大な光輝を持つ大仙ヴィシュヴァーミトラは、これらすべてを大いなる魂のジャナカ王に告げ終えると、口を閉じた。