Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.52.1

तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः।
प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम् ॥ १.५२.१ ॥

毗湿轮达看见他,大为欢喜的大力仙人毗首密多罗(Viśvāmitra)以谦逊的英雄姿态,向诵咒者中最优秀的婆悉吒(Vasiṣṭha)致敬。

1.52.2

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना।
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥ १.५२.२ ॥

伟大的婆悉吒说:“欢迎你。”尊敬的婆悉吒便为他指定了座位。

1.52.3

उपविष्टाय च तदा विश्वामित्राय धीमते।
यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ १.५२.३ ॥

当时,最优秀的仙人依仪轨为坐着的智者毗首密多罗奉上果实与根茎。

1.52.4

प्रतिगृह्य तु तां पूजां वसिष्ठाद् राजसत्तमः।
तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥ १.५२.४ ॥

这位最优秀的王者接受了婆悉吒的礼遇,询问苦行、火祭以及弟子们是否安好。

1.52.5

विश्वामित्रो महातेजा वनस्पतिगणे तदा।
सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम् ॥ १.५२.५ ॥

那时,大光明的毗首密多罗说,林木之间处处安好;婆悉吒便对最优秀的王者说。

1.52.6

सुखोपविष्टं राजानं विश्वामित्रं महातपाः।
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥ १.५२.६ ॥

梵天之子、大苦行者、诵咒者中最优秀的婆悉吒,问安坐的国王毗首密多罗。

1.52.7

कच्चित्ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन्।
प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक ॥ १.५२.७ ॥

国王啊,您安好吗?您是否以法令悦民而保护臣民?正法之人啊,您是否以王者之道治理?

1.52.8

कच्चित्ते सम्भृता भृत्याः कच्चित् तिष्ठन्ति शासने।
कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥ १.५२.८ ॥

您的臣仆是否得到妥善供养?他们是否听从您的命令?灭敌者啊,您的一切敌人是否都已被征服?

1.52.9

कच्चिद् बलेषु कोशेषु मित्रेषु च परंतप।
कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ ॥ १.५२.९ ॥

灭敌者啊,您的军队、府库与盟友是否安好?人中之虎、无瑕之人啊,您的子孙是否也安好?

1.52.10

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्।
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम् ॥ १.५२.१० ॥

国王回答婆悉吒说一切安好。于是光辉伟大的毗奢弥多罗对谦逊的婆悉吒说道。

1.52.11

कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा।
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ १.५२.११ ॥

二位最为正直之人长时间谈论这些正法之事,怀着至高的喜悦,彼此欢喜。

1.52.12

ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन।
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥ १.५२.१२ ॥

于是尊贵的婆悉吒在谈话结束时,罗怙之喜悦者啊,微笑着对毗奢弥多罗说了这番话。

1.52.13

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल।
तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे ॥ १.५२.१३ ॥

大力者啊,我愿以相称的礼数款待此军与您这不可量度之人,请接受我的款待。

1.52.14

सत्क्रियां हि भवानेतां प्रतीच्छतु मया कृताम्।
राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ १.५२.१४ ॥

国王啊,您是客人中最优秀的,应当细心尊敬。请接受我所行的这份敬礼。

1.52.15

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः।
कृतमित्यब्रवीद् राजा पूजावाक्येन मे त्वया ॥ १.५२.१५ ॥

婆私吒这样说后,大智的王者毗首密多罗说:“好吧;您尊敬的言辞,已使我得到了敬礼。”

1.52.16

फलमूलेन भगवन् विद्यते यत् तवाश्रमे।
पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ १.५२.१६ ॥

尊者啊,您隐居处的果实与根茎、洗足之水与漱口之水,以及见到您,便已足够。

1.52.17

सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः।
नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा ॥ १.५२.१७ ॥

大智者啊,您处处都值得尊敬,已得到良好的敬奉;向您致敬。现在我将离去,请以友善的目光看着我。

1.52.18

एवं ब्रुवन्तं राजानं वसिष्ठं पुनरेव हि।
न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥ १.५२.१८ ॥

对这样说话的国王,正直而心胸宽广的婆私吒一再地邀请他。

1.52.19

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह।
यथाप्रियं भगवतस्तथास्तु मुनिपुंगव ॥ १.५२.१९ ॥

迦提之子对筏悉吒说:“很好。诸仙中最尊者,愿一切依尊者所喜而行。”

1.52.20

एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः।
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषाम् ॥ १.५२.२० ॥

他这样说后,念诵者中最优秀的筏悉吒欢喜,唤来那无垢的花斑母牛卡玛沙希。

1.52.21

एह्येहि शबले क्षिप्रं शृणु चापि वचो मम।
सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्।
भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥ १.५२.२१ ॥

“来吧,快来,沙巴拉,听我的话。我已决心以盛宴礼敬这位王仙及其大军。请用珍贵的食物为我安排款待。”

1.52.22

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्।
तत् सर्वं कामधुग् दिव्ये अभिवर्ष कृते मम ॥ १.५२.२२ ॥

“神圣的母牛啊,请为我倾注六味之中所有受人敬重的美食,每人所欲皆如愿。”

1.52.23

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्।
अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥ १.५२.२३ ॥

“沙巴拉啊,快快行动,创造出全部食物的丰盛堆积,连同美味的佳肴、饮料,以及可舔可吮之物。”