Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.53.1

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन।
विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा ॥ १.५३.१ ॥

婆誓陀如此吩咐之后,啊,敌人的摧毁者,如意牛沙巴拉依各人所愿,满足了每个人的心愿。

1.53.2

इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि ॥ १.५३.२ ॥

还有甘蔗、蜂蜜、炒米、迈烈耶酒和上好的发酵饮料,贵重的饮品,以及高低各式的食物。

1.53.3

उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः।
मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च ॥ १.५३.३ ॥

这里有热腾腾丰盛的米饭堆积如山,还有美味的菜肴和豆汤,以及同样的凝乳之河。

1.53.4

नानास्वादुरसानां च खाण्डवानां तथैव च।
भोजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ १.५३.४ ॥

还有各种美味的甜点,如坎达瓦糕点,丰盛的餐食,以及成千上万的高达甜食。

1.53.5

सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्।
विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम् ॥ १.५३.५ ॥

啊,罗摩,毗首密多罗的全军经婆誓陀充分款待,非常满足,充满了欢欣、饱足的人们。

1.53.6

विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्।
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥ १.५३.६ ॥

王仙毗首密多罗那时欢欣饱足,国王连同后宫、婆罗门和家庭祭司都感到满意。

1.53.7

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ १.५३.७ ॥

国王与大臣、谋士及侍从一同受到礼遇,此时满怀极大的喜悦,对伐悉瑟德说了这番话。

1.53.8

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ १.५३.८ ॥

婆罗门啊,您值得尊敬,以应有的敬意很好地款待了我。善于言辞的人啊,请听,我将说出我的话。

1.53.9

गवां शतसहस्रेण दीयतां शबला मम।
रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः ॥ १.५३.९ ॥

尊贵的人啊,请用十万头牛换给我我的花牛。这是一件珍宝,而国王才是珍宝的拥有者。

1.53.10

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज।
एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः ॥ १.५३.१० ॥

因此,再生者啊,这头花牛按法理属于我,请给我吧。被这样说后,最尊贵的仙人伐悉瑟德,

1.53.11

विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्।
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ॥ १.५३.११ ॥

当毗首密多罗如此说后,正直的伐悉瑟德回答国王:即便用十万头牛,甚至用上亿头牛,我也不会给。

1.53.12

राजन् दास्यामि शबलां राशिभी रजतस्य वा।
न परित्यागमर्हेयं मत्सकाशादरिंदम ॥ १.५३.१२ ॥

国王啊,即便用成堆的白银,我也不会给出这头花牛。降伏敌人者啊,她不应从我这里被舍弃。

1.53.13

शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा।
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ॥ १.५३.१३ ॥

斑点牛对我而言是永恒的,正如自制者的名声永存。天神的祭品与祖先的供奉都在于她,生命的延续也由她而来。

1.53.14

आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च।
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ॥ १.५३.१४ ॥

火祭、献祭(bali)与燔祭都依赖于她,祭词“斯瓦哈”与“瓦沙特”,以及种种神圣的学问,也都依赖于她。

1.53.15

आयत्तमत्र राजर्षे सर्वमेतन्न संशयः।
सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा ॥ १.५३.१५ ॥

啊,王仙,这一切都依赖于她,毫无疑问。以真理说,她便是我的全部财富,也是使我满足的根源。

1.53.16

कारणैर्बहुभी राजन् न दास्ये शबलां तव।
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा ॥ १.५३.१६ ॥

国王啊,因为诸多缘由,我不会把斑点牛给你。婆罗门仙人(伐悉吒)这样说后,那时毗奢蜜多罗便回答道。

1.53.17

संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः।
हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान् ॥ १.५३.१७ ॥

善于言辞的毗奢蜜多罗,愈发愤怒,说出这些话:「(我将给你)饰以金制鞍带与项链、装饰金制驱象钩的……」

1.53.18

ददामि कुञ्जराणां ते सहस्राणि चतुर्दश।
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ॥ १.५३.१८ ॥

我要给你一万四千头象,还有金制的战车,以及用四匹白马驾驭的战车。

1.53.19

ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्।
हयानां देशजातानां कुलजानां महौजसाम्।
सहस्रमेकं दश च ददामि तव सुव्रत ॥ १.५३.१९ ॥

我赠你八百匹装饰着铃铛的骏马,它们生于良土,出身高贵,力量强大。善誓者啊,我还将再给你一万一千匹。

1.53.20

नानावर्णविभक्तानां वयःस्थानां तथैव च।
ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ १.५३.२० ॥

我将以各色各龄的牛中一俱胝头牛相赠;请把我的花牛还给我。

1.53.21

यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम।
तावद् ददामि ते सर्वं दीयतां शबला मम ॥ १.५३.२१ ॥

再生者中最殊胜者啊,你想要多少宝物或黄金,我都将全部给你;请把我的花牛还给我。

1.53.22

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता।
न दास्यामीति शबलां प्राह राजन् कथंचन ॥ १.५३.२२ ॥

智者毗奢蜜多罗如此说后,尊者(婆悉吒)说道:国王啊,我绝不会把花牛给你。

1.53.23

एतदेव हि मे रत्नमेतदेव हि मे धनम्।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ १.५३.२३ ॥

这正是我的宝物,正是我的财富,正是我的全部所有,正是我的生命。

1.53.24

दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥ १.५३.२४ ॥

新月与满月的祭祀、奉上布施的诸祭,以及种种仪式——国王啊,这些才是我所有的。

1.53.25

अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ १.५३.२५ ॥

国王啊,我所有的祭祀仪式都以她为根本,这毫无疑问。何必多言哀求?我不会交出这头能满足愿望的神牛。