蚁垤《罗摩衍那》 · 篇 1.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.58.1
ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ १.५८.१ ॥
此时,听到特利商枯充满愤怒的话语,罗摩啊,百位仙人之子对国王说了这番话。
1.58.2
प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना।
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ १.५८.२ ॥
你已被诚实的老师拒绝,愚蠢之人啊。你违背了他,怎么又去了另一支派?
1.58.3
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ १.५८.३ ॥
的确,家庭祭司是伊刹婆迦所有后裔的最高依靠,而诚实者的话是不可违背的。
1.58.4
अशक्यमिति सोवाच वसिष्ठो भगवानृषिः।
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन ॥ १.५८.४ ॥
尊贵的仙人婆湿吒说:“这不可能。”我们无论如何也无法完成那场祭祀。
1.58.5
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः।
याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव ॥ १.५८.५ ॥
你真愚蠢,人中之杰。请回你的城去吧。国王啊,尊贵的婆湿吒即使为三界主持祭祀也有能力。
1.58.6
अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम्।
तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥ १.५८.६ ॥
“我们怎能侮辱他呢?”听到他们这些话语,字字都被愤怒搅乱……
1.58.7
स राजा पुनरेवैतानिदं वचनमब्रवीत्।
प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि ॥ १.५८.७ ॥
国王再次对他们说道:"同样地,我也被尊贵的师尊之子们拒绝了。"
1.58.8
अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥ १.५८.८ ॥
"我将另走一条路;愿诸位苦修之人平安。"然而仙人之子听到他这番蕴含可怕意图的话语后——
1.58.9
शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि।
इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम् ॥ १.५८.९ ॥
他们大为愤怒,诅咒道:"你将沦为旃陀罗!"说罢,这些大德各自返回自己的修行林中。
1.58.10
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः।
नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः ॥ १.५८.१० ॥
夜过之后,国王已沦为旃陀罗:一个身着深蓝衣、肤色黝黑、发髻散乱的男子。
1.58.11
चित्यमाल्यांगरागश्च आयसाभरणोऽभवत्।
तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् ॥ १.५८.११ ॥
他身上带着火葬场的花环和灰泥,佩戴铁饰,成了这般模样。众大臣见这旃陀罗之形,都弃他而去——
1.58.12
प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः।
एको हि राजा काकुत्स्थ जगाम परमात्मवान् ॥ १.५८.१२ ॥
罗摩啊!追随他的城中百姓都一同逃散了。啊,迦恭特之后裔,那位自制而坚定的国王却独自前行。
1.58.13
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्।
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ॥ १.५८.१३ ॥
苦行为财富的毗首密多罗日夜燃烧;毗首密多罗见那国王已然失败。
1.58.14
चण्डालरूपिणं राम मुनिः कारुण्यमागतः।
कारुण्यात् स महातेजा वाक्यं परमधार्मिकः ॥ १.५८.१४ ॥
罗摩啊,仙人对那化作旃陀罗之形的人生起了怜悯;出于怜悯,那位大光明、至为正法的仙人说出了这些话。
1.58.15
इदं जगाद भद्रं ते राजानं घोरदर्शनम्।
किमागमनकार्यं ते राजपुत्र महाबल ॥ १.५८.१५ ॥
他对那相貌可怖的国王说:“愿你吉祥。王子啊,大力者,你来此的目的是什么?”
1.58.16
अयोध्याधिपते वीर शापाच्चण्डालतां गतः।
अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः ॥ १.५८.१६ ॥
英雄,阿逾陀的主人,你因诅咒而沦为旃陀罗之境。那时,那位沦为旃陀罗之境的国王听了这些话 ...
1.58.17
अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्।
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ॥ १.५८.१७ ॥
那位通晓言辞的国王合掌对精通言辞者说:“我已被我的上师拒绝,也被上师之子们拒绝了。”
1.58.18
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः।
सशरीरो दिवं यायामिति मे सौम्यदर्शन ॥ १.५८.१८ ॥
未能得到那个愿望,我便遭遇了逆境。啊,相貌温和的人,我的愿望是带着这身躯升上天界。
1.58.19
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्।
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ॥ १.५८.१९ ॥
我举行了百次祭祀,却未得其果。我从未说过谎话,也永不会说。
1.58.20
कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे।
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ॥ १.५८.२० ॥
善人啊,我陷入了困苦;我以刹帝利之法向你发誓。我举行了多种祭祀,依法保护了臣民。
1.58.21
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः।
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ॥ १.५८.२१ ॥
师长与大德对我良好的品性与行为感到满意;我在法中努力,并希望完成祭祀。
1.58.22
परितोषं न गच्छन्ति गुरवो मुनिपुंगव।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ १.५८.२२ ॥
最优秀的圣者啊,师长们并未得到满足。我认为唯有天命至高;人力实在无用。
1.58.23
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः।
तस्य मे परमार्तस्य प्रसादमभिकांक्षतः।
कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ॥ १.५८.२३ ॥
万事皆为天命所制,天命乃至高的归依。我深受其苦,渴望你的恩惠,我的行为已被天命所摧;愿你施恩于我,愿你吉祥。
1.58.24
नान्यां गतिं गमिष्यामि नान्यच्छरणमस्ति मे।
दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ १.५८.२४ ॥
我不会走其他的路,我别无他靠。你有能力以人力扭转天命。