蚁垤《罗摩衍那》 · 篇 1.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.59.1
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः।
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम् ॥ १.५९.१ ॥
说完这些话后,俱舍之子毗奢弥多罗出于怜悯,对已明显沦为旃陀罗之境的国王说了温和的话语。
1.59.2
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्।
शरणं ते प्रदास्यामि मा भैषीर्नृपपुंगव ॥ १.५९.२ ॥
欢迎你,伊刹婆迦之裔!孩子,我知道你极为正直。我将庇护你;不要害怕,人中之王。
1.59.3
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः।
यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥ १.५९.३ ॥
我将召集所有行善的大仙人,他们将协助祭祀。大王,那时你便会安然地举行祭祀。
1.59.4
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते।
अनेन सह रूपेण सशरीरो गमिष्यसि ॥ १.५९.४ ॥
你因上师的诅咒而有的这副形貌,你将以此身躯,有形体地升往天界。
1.59.5
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप।
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ १.५९.५ ॥
人主啊,我认为天界已经触手可及,因为你来到了值得依托的俱舍身边,并向他寻求庇护。
1.59.6
एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्।
व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् ॥ १.५९.६ ॥
说完这番话,大光明的毗奢弥多罗吩咐他那极为正直、极有智慧的儿子们,为祭祀准备所需的物品。
1.59.7
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह।
सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया ॥ १.५९.७ ॥
他召集所有弟子,说出这些话:“奉我的命令,把所有仙人连同伐私吒一起带来。”
1.59.8
सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्।
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ॥ १.५९.८ ॥
连同他们的弟子、朋友、祭司以及博学之人;如果有其他人在我的话语之力驱使下说出什么。
1.59.9
तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्।
तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ॥ १.५९.९ ॥
所说的一切都要完整地告诉我,不可疏忽。他们听了他的话,便奉他的命令分赴四方。
1.59.10
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः।
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ॥ १.५९.१० ॥
于是各地的梵言者仙人都来了;那些弟子聚集后,也前往这位光辉灼灼的仙人处。
1.59.11
ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्।
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ॥ १.५९.११ ॥
他们把所有梵言者的话全部转述;众人听了这话,所有再生族都聚集而来。
1.59.12
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्।
वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ॥ १.५९.१२ ॥
他们从各地前来,只有伐私吒的一百个儿子,因大福而著称,他们的言辞因愤怒而激动,未曾前来。
1.59.13
यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव।
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥ १.५९.१३ ॥
请听他所说的一切话,诸仙之最——尤其是关于为旃陀罗主持祭祀的刹帝利之事。
1.59.14
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः।
ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम् ॥ १.५९.१४ ॥
在集会上,诸神与仙人如何享用他的祭品?或者,那些伟大的婆罗门吃了旃陀罗的食物之后又当如何?
1.59.15
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः।
एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः ॥ १.५९.१५ ॥
受仙人毗奢蜜多罗庇护的他们,如何能升天?这些人双眼通红,说出了这般严厉的话。
1.59.16
वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः।
तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ॥ १.५९.१६ ॥
诸仙中的猛虎啊——婆私吒的所有弟子与那些伟人一同——听到他们的这些话,诸仙之最(毗奢蜜多罗)……
1.59.17
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्।
यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ॥ १.५९.१७ ॥
他双眼因愤怒而通红,怒气冲冲地说道:“他们竟玷污我这个无过失、正处于严酷苦行中的人……”
1.59.18
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः।
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ॥ १.५९.१८ ॥
“那些恶人必将化为灰烬,毫无疑问。今日,你们已被时间之索牵引至毗婆薮多(阎摩)之处。”
1.59.19
सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते।
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ॥ १.५९.१९ ॥
愿他们七百世都做食死者之人,愿他们成为名为穆什提迦的无情之徒,以狗肉为固定食物。
1.59.20
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्।
महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ॥ १.५९.२० ॥
愿他们变得畸形丑陋,游荡于这些世界;恶意的摩诃陀耶污染了我——我本是不可污染之人。
1.59.21
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति।
प्राणातिपातनिरतो निरनुक्रोशतां गतः ॥ १.५९.२१ ॥
他在一切世界中受到玷污,将堕为尼沙陀,沉溺于杀害众生,失去悲悯。
1.59.22
दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति।
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः।
विरराम महातेजा ऋषिमध्ये महामुनिः ॥ १.५९.२२ ॥
因我的愤怒,他将长久地在苦难中生活。说完这番话,大苦行者、大光辉的大仙毗奢密多罗在众仙之中沉默了。