Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.6.1

तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १.६.१ ॥

在那座阿逾陀城中,住着精通吠陀、通晓万事、深谋远虑、光辉盛大、深受城民与乡民爱戴的(国王十车王)。

1.6.2

इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ १.६.२ ॥

甘蔗王族中的大战车勇士,行祭祀者,专心奉行法道,自制克己,如同大仙人,是王中仙人,名闻三界。

1.6.3

बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः ।
धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः ॥ १.६.३ ॥

他强大有力,已歼灭敌人,友朋众多,已战胜诸根;在财富与积蓄方面,与因陀罗和毗沙门(俱毗罗)相当。

1.6.4

यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा लोकस्य परिरक्षिता ॥ १.६.४ ॥

正如大光辉的摩奴是世界的守护者,国王十车王同样是世界的守护者。

1.6.5

तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ १.६.५ ॥

这位誓言真实、践行三目标(法、利、欲)的国王守护着这座殊胜之城,正如因陀罗守护着天城阿摩罗婆提。

1.6.6

तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ १.६.६ ॥

在那殊胜之城中,居住着欢喜、心怀正法、博学多闻的人们;他们各自满足于自己的财富,不贪婪,诚实守信。

1.6.7

नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ १.६.७ ॥

在那座最好的城市里,没有人积蓄很少;作为家主的人,没有缺少牛、马、财富和粮食的。

1.6.8

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः ॥ १.६.८ ॥

在阿逾陀,几乎见不到任何贪欲、吝啬或残忍之人;也看不到无知或不信教的人。

1.6.9

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः ।
मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ १.६.९ ॥

那里所有的男人和女人都崇尚正法、善于自律,因品行端正而喜悦,像大仙人一样纯洁。

1.6.10

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ १.६.१० ॥

那里看不到没有耳环、没有冠冕、没有花环、享受甚少、不洁净、身体未涂香膏或没有香气的人。

1.6.11

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ १.६.११ ॥

那里看不到食用不洁食物的人,不布施的人,不戴臂钏和金项链的人,手上没有饰物的人,或缺乏自制的人。

1.6.12

नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न चार्वृत्तो न संकरः ॥ १.६.१२ ॥

阿逾陀没有不奉持圣火的人,没有不行祭祀的人,没有卑鄙之人或盗贼,没有行为败坏的人,也没有杂种姓的人。

1.6.13

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १.६.१३ ॥

那里的婆罗门始终专注于自己的本分,克制了感官,乐于布施和学习,接受布施时也能自我节制。

1.6.14

नास्तिको नानृती वापि न कश्चिदबहुश्रुतः ।
नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥ १.६.१४ ॥

那里找不到无信仰者、说谎者、学识浅薄者、嫉妒者、无能者或愚昧无知者。

1.6.15

नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ १.६.१५ ॥

这里没有不通晓六吠陀支分的人,没有违背誓戒或不行千次布施的人,也没有贫困、心神散乱或忧伤之人。

1.6.16

कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १.६.१६ ॥

在阿逾陀,看不到缺乏光彩、相貌丑陋或不忠于国王的男女。

1.6.17

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ १.६.१७ ॥

在各种姓中,居首者与第四等的人都敬奉神明与客人,感恩且慷慨,英勇而有膽略。

1.6.18

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १.६.१८ ॥

在这座卓越的城市里,人人长寿,依止法与真理,并且总是与儿子、孙子和妻子们相伴而居。

1.6.19

क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः ।
शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ॥ १.६.१९ ॥

刹帝利以婆罗门为首;吠舍追随刹帝利;首陀罗专心履行本分,侍奉前三个种姓。

1.6.20

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ १.६.२० ॥

伊刹婆迦王族之主将此城守护得如同往昔智慧的人主摩奴所守护的一样。

1.6.21

योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।
सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ १.६.२१ ॥

此城充满如火般的武士,他们熟练、优雅、不忍受侮辱,且精通武艺,犹如山洞中充满狮子。

1.6.22

काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ १.६.२२ ॥

此城充满了生于迦摩阇国与巴赫利卡的良马,来自伐那由的马和生于河边的马,以及上等的枣红色骏马。

1.6.23

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ १.६.२३ ॥

此城充满了生于频耶山的狂暴大象,也有生于喜马拉雅的,它们浑身流淌着麝香汁液,力大无比,宛如山岳。

1.6.24

ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥ १.६.२४ ॥

此城充满了爱罗婆多族与大莲族的大象,也有出自安阇那与侏儒族的大象。

1.6.25

भदैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ १.६.२५ ॥

这座城市里有属于跋陀罗、曼陀罗和鹿类的大象,也有跋陀罗-曼陀罗、跋陀罗-鹿类和鹿类-曼陀罗的混种大象。

1.6.26

नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः ।
सा योजने द्वे च भूयः सत्यनामा प्रकाशते ।
यस्यां दशरथो राजा वसञ्जगदपालयत् ॥ १.६.२६ ॥

这座城市常有如山的发情大象,绵延两由旬,名副其实地光耀四方;国王十车王住在那里,守护着世界。

1.6.27

तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ १.६.२७ ॥

这座城市由伟大而光辉的国王十车王统治。他平息了敌人,如同月亮统治众星一般治理着此城。

1.6.28

तां सत्यनामां दृढतोरणार्गलाम्
गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसंकुलां
शशास वै शक्रसमो महीपतिः ॥ १.६.२८ ॥

这座名副其实的阿逾陀城,门楼坚固、门闩牢固,装饰着形态各异的房舍,吉祥而人口成千上万。统治它的是与因陀罗同等的大地之主。