Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.61.1

विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्।
अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः ॥ १.६१.१ ॥

大光辉的毗首弥多罗看见那些仙人将要离去,便对所有那些林居者说道:人中之雄啊。

1.61.2

महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥ १.६१.२ ॥

在南方出现了一个大障碍。我们将前往另一个方向,在那里修行苦行。

1.61.3

पश्चिमायां विशालायां पुष्करेषु महात्मनः।
सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम् ॥ १.६१.३ ॥

在西方广阔的普什卡拉地区,我们将轻松地修行苦行,因为那里确实是苦行林。

1.61.4

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ १.६१.४ ॥

说完这些,大光辉的大仙人在普什卡拉修行严酷而不可侵犯的苦行,以根和果为食。

1.61.5

एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान्।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ १.६१.५ ॥

就在此时,阿逾陀的大王、名为安巴利沙的人开始举行祭祀。

1.61.6

तस्य वै यजमानस्य पशुमिन्द्रो जहार ह।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ १.६१.६ ॥

因陀罗果然偷走了那位祭主的祭牲。祭牲丢失后,婆罗门对国王说了这些话。

1.61.7

पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात्।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ १.६१.७ ॥

大王啊,祭祀的牲畜因你的失政而被夺走并丢失了。人主啊,不保护臣民的君王,会被过失所毁灭。

1.61.8

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ।
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ १.६१.८ ॥

人中之雄啊,此事需要大赎罪。在祭祀仪式仍在进行之时,速把一人或一畜带来。

1.61.9

उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः।
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ १.६१.९ ॥

国王闻祭司之言,此人中之雄、大智之君,率领成千上万头牛寻找那头牲畜。

1.61.10

देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १.६१.१० ॥

他遍寻诸国、诸邦、各城、山林与圣洁的隐修之所,这位大地之主四处行走。

1.61.11

स पुत्रसहितं तात सभार्यं रघुनन्दन।
भृगुतुंगे समासीनमृचीकं संददर्श ह ॥ १.६१.११ ॥

啊,罗怙之子的欢悦者,他看见里周迦与其子及妻同坐于婆利古山巅。

1.61.12

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च।
महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ॥ १.६१.१२ ॥

这位光辉无限、大德的王仙向那因苦行而光辉的大仙行礼,并使之欢喜,然后对他说道。

1.61.13

पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः।
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥ १.६१.१३ ॥

问候了众人之后,国王对里契卡说:如果你愿意用十万头牛把儿子卖给我……

1.61.14

पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव।
सर्वे परिगता देशा यज्ञियं न लभे पशुम् ॥ १.६१.१४ ॥

啊,大福的婆利古后裔!我走遍了所有地方寻找祭祀用的牲畜,却没有找到合适的。

1.61.15

दातुमर्हसि मूल्येन सुतमेकमितो मम।
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः ॥ १.६१.१५ ॥

你应当把一个儿子以钱财换给我。里契卡听了这话,大有光辉地说道:

1.61.16

नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन।
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ॥ १.६१.१६ ॥

人中之雄啊,我绝不会卖掉长子。那些大德之子的母亲听了里契卡的话……

1.61.17

उवाच नरशार्दूलमम्बरीषमिदं वचः।
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥ १.६१.१७ ॥

那些大德之子的母亲对人中之虎安巴利莎说了这些话:尊贵的婆利古后裔宣布,长子不可出卖。

1.61.18

ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो।
तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ॥ १.६१.१८ ॥

陛下,请知道,我的幼子舒那卡也是我所珍爱的。因此,国王啊,我不会把小儿子给你。

1.61.19

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः।
मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम् ॥ १.६१.१९ ॥

人中之最!通常父亲钟爱长子,母亲钟爱幼子;因此我要保护幼子。

1.61.20

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च।
शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ १.६१.२० ॥

罗摩啊,当仙人如此说完,仙人之妻也同样说完之后,中间的儿子舍那舍黑波亲自说出了这些话。

1.61.21

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्।
विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम् ॥ १.६१.२१ ॥

父亲说长子不可卖,母亲说幼子不可卖;我认为中间的可以卖。王子啊,请带我去吧。

1.61.22

अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः।
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥ १.६१.२२ ॥

然后,大臂者啊,当梵语者说完话,国王便以千万之数的黄金和堆积如山的珠宝……

1.61.23

गवां शतसहस्रेण शुनःशेपं नरेश्वरः।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥ १.६१.२३ ॥

国王以十万头牛,带着舍那舍黑波,极为欢喜地离去,罗怙子孙之乐啊。

1.61.24

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः।
शुनःशेपं महातेजा जगामाशु महायशाः ॥ १.६१.२४ ॥

然而,王仙阿姆巴利沙,光辉与名声都极盛,迅速让舍那舍黑波登上战车,飞快地离去。