蚁垤《罗摩衍那》 · 篇 1.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.64.1
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया।
लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ १.६४.१ ॥
罗verbha啊,诸神的这件大事须由你来完成:在此,你要把憍尸迦引入欲望与迷惑的诱惑之中。
1.64.2
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता।
व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम् ॥ १.६४.२ ॥
罗摩啊,智慧的千眼神(因陀罗)这样说后,那位天女羞怯地合掌,向天王说出了这些话。
1.64.3
अयं सुरपते घोरो विश्वामित्रो महामुनिः।
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः ॥ १.६४.३ ॥
天王啊,这位凶猛的大仙毗奢蜜多罗将向我发出可怕的愤怒,天神啊,这毫无疑问。
1.64.4
ततो हि मे भयं देव प्रसादं कर्तुुमर्हसि।
एवमुक्तस्तया राम सभयं भीतया तदा ॥ १.६४.४ ॥
因此,天神啊,我心中恐惧;请您赐我恩惠。罗摩啊,被这样对待后,受惊的罗婆那时带着恐惧说道。
1.64.5
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्।
मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम् ॥ १.६४.५ ॥
千眼神(因陀罗)对那位颤抖着合掌而立的罗婆说:莫怕,罗婆,愿你吉祥——遵从我的命令吧。
1.64.6
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे।
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ॥ १.६४.६ ॥
在春天的美丽树林中,能摄取人心的杜鹃将鸣唱;我将与爱神迦摩(甘达尔巴)一起站在你身旁。
1.64.7
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्।
तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम् ॥ १.६४.७ ॥
善良的女子啊,化作一个具备众多美德、极其光彩的形象,去破坏那位苦行的仙人憍尸迦的苦修吧。
1.64.8
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥ १.६४.८ ॥
她听了他的话,那位笑容纯净、姿态优雅的罗跋(Rambhā)化作无与伦比的形象,诱惑了毗首密多罗。
1.64.9
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्।
सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत ॥ १.६४.९ ॥
听到杜鹃鸟悦耳的啼鸣,他心中非常欢喜,于是看向了她。
1.64.10
अथ तस्य च शब्देन गीतेनाप्रतिमेन च।
दर्शनेन च रम्भाया मुनिः संदेहमागतः ॥ १.६४.१० ॥
随后,罗跋的声音、无与伦比的歌声以及她的容貌,使仙人心生疑虑。
1.64.11
सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः।
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥ १.६४.११ ॥
憍尸迦之子,众仙之中最优秀的毗首密多罗,明白了千眼因陀罗的全部阴谋后,怒火中烧,诅咒了罗跋。
1.64.12
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ १.६४.१२ ॥
罗跋啊,你竟诱惑我这个想要战胜欲望与愤怒的人,所以你这不幸的女子,将化为石头站立一万年。
1.64.13
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः।
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ॥ १.६४.१३ ॥
一位具有大光辉、拥有苦行之力的婆罗门,将拯救你,罗陀,被我的愤怒所玷污的你。
1.64.14
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः।
अशक्नुवन् धारयितुं कोपं संतापमात्मनः ॥ १.६४.१४ ॥
说完这些,大光辉的大仙人毗首密多罗无法抑制怒火,内心痛苦万分。
1.64.15
तस्य शापेन महता रम्भा शैली तदाभवत्।
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥ १.६४.१५ ॥
因他的大诅咒,罗陀立刻变成了石头;而迦摩(爱神)听了大仙人的话,也从那里离开了。
1.64.16
कोपेन च महातेजास्तपोऽपहरणे कृते।
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥ १.६४.१६ ॥
啊,罗摩!因苦行被夺而生的愤怒,以及未被征服的感官,那位大光辉者在内心找不到平静。
1.64.17
बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते।
नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन ॥ १.६४.१७ ॥
他的苦行被夺后,心中生起忧虑:“我不会如此被愤怒所控,也绝不会说任何话。”
1.64.18
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि।
अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः ॥ १.६४.१८ ॥
或者,即便经历百年我也不呼吸;我将战胜感官,让自己枯竭。
1.64.19
तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्।
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः ॥ १.६४.१९ ॥
在我获得以苦行所得的婆罗门身份之前,我将不呼吸、不进食,永久地静立数年。
1.64.20
नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः।
एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन ॥ १.६४.२० ॥
我修苦行之时,身体绝不会衰朽。就这样,那位最优秀的圣者发下千年的誓愿,在世间立下了无与伦比的誓言,啊,罗怙之喜。