Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 1.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.67.1

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः।
धनुर्दर्शय रामाय इति होवाच पार्थिवम् ॥ १.६७.१ ॥

ジャナカの言葉を聞いた大聖者ヴィシュヴァーミトラは王に言った。「ラーマに弓を見せよ」と。

1.67.2

ततः स राजा जनकः सचिवान् व्यादिदेश ह।
धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम् ॥ १.६७.२ ॥

そこで王ジャナカは大臣たちに命じた。「香料と花環で飾られた神聖な弓を持って来させよ」と。

1.67.3

जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्।
तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः ॥ १.६७.३ ॥

ジャナカの命を受け、無限の力を持つ大臣たちは町に入り、その弓を前に掲げて出て来た。

1.67.4

नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्।
मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन ॥ १.६७.४ ॥

屈強な五千人の偉大な人々が、八つの車輪のついたその箱をどうにか運んだ。

1.67.5

तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः।
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥ १.६७.५ ॥

その美しい鉄の箱を持って、神々に等しい弓のある場所に来て、王の大臣たちはジャナカに言った。

1.67.6

इदं धनुर्वरं राजन् पूजितं सर्वराजभिः।
मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि ॥ १.६७.६ ॥

王よ、この優れた弓は全ての王に崇敬されてきました。ミティラーの主、王の中の王よ、お望みなら、ご覧になる価値があります。

1.67.7

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत।
विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ ॥ १.६७.७ ॥

彼らの言葉を聞いて、王は合掌し、偉大なるヴィシュヴァーミトラと、あの二人のラーマとラクシュマナに語った。

1.67.8

इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्।
राजभिश्च महावीर्यैरशक्तैः पूरितं तदा ॥ १.६७.८ ॥

ブラーフマナよ、この最上の弓はジャナカ族に崇拝されてきました。そのとき、大力の王たちでさえこれに弦を張ることはできませんでした。

1.67.9

नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १.६७.९ ॥

この弓は、すべての神々も、阿修羅とともに、羅刹たちも、最上のガンダルヴァやヤクシャも、キンナラや大蛇たちとともに、張ることはできないでしょう。

1.67.10

क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे।
आरोपणे समायोगे वेपने तोलने तथा ॥ १.६७.१० ॥

では、この弓に弦を張り、張って結び、合わせ、揺らし、持ち上げる人間の力はどこにあるのでしょうか。

1.67.11

तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव।
दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥ १.६७.११ ॥

聖者の中の最上の方よ、弓の中で最上のこの弓が運ばれました。大いなる幸運の方よ、この二人の王子にこれを見せてください。

1.67.12

विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम्।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥ १.६७.१२ ॥

ジャナカの言葉を聞いて、ヴィシュヴァーミトラはラーマとともにラグの末裔に言った。「わが子ラーマよ、弓を見なさい。」

1.67.13

महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः।
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १.६७.१३ ॥

大聖者の言葉により、ラーマは弓の入った箱を開け、弓を見て言った。

1.67.14

इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना।
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥ १.६७.१४ ॥

この優れた神聖な弓に、私はここで手を触れます。持ち上げることにも弦を引くことにも努めましょう。

1.67.15

बाढमित्यब्रवीद् राजा मुनिश्च समभाषत।
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ॥ १.६७.१५ ॥

王は「よろしい」と言い、聖者も語った。聖者の言葉により、彼は遊ぶように弓の中ほどを掴んだ。

1.67.16

पश्यतां नृसहस्राणां बहूनां रघुनन्दनः।
आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः ॥ १.६७.१६ ॥

何千という人々と多くの人々が見守る中、ラghuの喜び、正法の心を持つラーマは、まるで遊ぶようにその弓に弦を張った。

1.67.17

आरोपयित्वा मौर्वीं च पूरयामास तद्धनुः।
तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥ १.६७.१७ ॥

弦を張って弓を完全に引き絞り、偉大な名声を持つ人中の最上の者は、その弓を中ほどから折った。

1.67.18

तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः।
भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥ १.६७.१८ ॥

その音は大きく、雷鳴のようであり、山が裂けるかのように大地が大きく揺れた。

1.67.19

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः।
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १.६७.१९ ॥

その音に打たれて人々は皆倒れた。ただ最上の聖仙、王、そしてあの二人のラーガヴァだけは例外であった。

1.67.20

प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः।
उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम् ॥ १.६७.२० ॥

人々が落ち着きを取り戻すと、恐れを脱した王は合掌し、言葉に巧みな者として、最上の聖仙にこう語った。

1.67.21

भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः।
अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया ॥ १.६७.२१ ॥

尊い方よ、ダシャラタの子ラーマの武勇を私は見ました。これは極めて驚くべきことで、思いも及ばず、私の予想を超えています。

1.67.22

जनकानां कुले कीर्तिमाहरिष्यति मे सुता।
सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥ १.६७.२२ ॥

私の娘シーターは、ダシャラタの子ラーマを夫として得て、ジャナカ族の家名に栄誉をもたらすでしょう。

1.67.23

मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक।
सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ १.६७.२३ ॥

カウシカよ、私の誓いは真実である。勇武を婚資とする、と。私の命よりも大切な娘シーターは、ラーマに与えられるべきなのです。

1.67.24

भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः।
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ १.६७.२४ ॥

ブラフマンよ、あなたの許しを得て、私の大臣たちは速やかに戦車でアヨーディヤーへ向かわせましょう。カウシカよ、あなたに幸あらんことを。

1.67.25

राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम।
प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥ १.६७.२५ ॥

謙虚な言葉で王を我が都へ連れて来させよ。また、勇気を婚資とした乙女の嫁がせについて、すべてを語らせよ。

1.67.26

मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै।
प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः ॥ १.६७.२६ ॥

聖仙に守られた二人のカクツトステの子孫のことを王に告げ、喜びに満ちた王を速やかに連れて来させよ。

1.67.27

कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः।
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्।
यथावृत्तं समाख्यातुमानेतुं च नृपं तथा ॥ १.६७.२७ ॥

カウシカは「そのとおりに」と言った。王は大臣たちに語りかけ、義心厚き王は命を受けた使者たちをアヨーディヤーへ送った。起きたことをありのまま伝え、王をも連れて来るために。