Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.7.1

तस्यामात्या गुणैरासन्विक्ष्वाकोः सुमहात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १.७.१ ॥

那位伟大高尚的甘蔗王(伊克什瓦库)之子的大臣们品德优良;他们精通谋略,能察言观色,始终致力于令人欢喜、有益于人的事务。

1.7.2

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ १.७.२ ॥

这位英雄之王有八位名声显赫的大臣,他们清廉忠诚,始终致力于国事。

1.7.3

धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्र्वर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥ १.७.३ ॥

德利什提、阇衍多、毗阇耶、苏罗湿陀罗、罗湿陀罗跋陀那、阿科帕、达磨波罗,以及第八位通晓事务的苏曼陀罗。

1.7.4

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ १.७.४ ॥

他有两位受敬重的祭司,皆为圣哲中之最优者,即婆悉吒与婆摩提婆;其他人也担任大臣。

1.7.5

सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः ।
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥ १.७.५ ॥

苏耶那、遮婆利、迦叶波、瞿昙;长寿的摩根德耶,以及再生婆罗门迦旃延。

1.7.6

एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः ।
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ॥ १.७.६ ॥

与这些梵仙相伴,他世代相传的祭司们始终在侧;他们因学识而谦逊,知羞耻,有才干,且能克制诸根。

1.7.7

श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥ १.७.७ ॥

他们富有而高尚,精通经典,勇武坚定,声名远扬,谨慎专心,言听计从。

1.7.8

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः ।
क्रोधात् कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ १.७.८ ॥

他们获得光辉、宽容与声誉;先以微笑开口。即使出于愤怒,或为欲望与利益,也绝不说谎言。

1.7.9

तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ १.७.९ ॥

无论在自己人还是他人之中,没有任何事对他们是隐秘的;正在做的,已做的,甚至通过间谍所意图做的,他们都知道。

1.7.10

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि ॥ १.७.१० ॥

精通事务,在友谊中经过考验;他们会在适当的时候依法施罚,即使是施于自己的儿子。

1.7.11

कोशसंग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥ १.७.११ ॥

他们致力于聚集国库与供养军队;对于无害的、无辜的人,他们绝不加以伤害。

1.7.12

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ १.७.१२ ॥

他们英勇而热忱坚定,奉行王道之学,并且始终守护国中的善良之人。

1.7.13

ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ १.७.१३ ॥

他们不伤害婆罗门和刹帝利,充实了国库;仔细考察人们的强弱,施以严厉的惩罚。

1.7.14

शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ १.७.१४ ॥

在这些纯洁、专一且通晓一切的人中间,城中或国中从来没有一个说谎的人。

1.7.15

क्वचिन्न दुष्टस्तत्रासीत् परदाररतिर्नरः ।
प्रशान्तं सर्वमेवासीद् राष्ट्रं पुरवरं च तत् ॥ १.७.१५ ॥

那里没有一个邪恶之人贪恋他人之妻。整个国家和那座优良的城市都十分安宁。

1.7.16

सुवाससः सुवेशाश्च ते च सर्वे शुचिव्रताः ।
हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १.७.१६ ॥

他们都衣着华美、仪容端正,持守清净的誓愿,致力于国王的利益,国王以治国之明眼警觉地守护着国家。

1.7.17

गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः ।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥ १.७.१७ ॥

他们因品德被师长所推崇,以勇武闻名,甚至在异国也广为人知,各方面的判断都坚定明确。

1.7.18

अभितो गुणवन्तश्च न चासन् गुणवर्जिताः ।
सन्धिविग्रहतत्वज्ञाः प्रकृत्या सम्पदान्विताः ॥ १.७.१८ ॥

他们各方面都有德行,没有一人缺乏德行;他们通晓和与战的本质,天性便具备富足。

1.7.19

मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ १.७.१९ ॥

他们善于保守谋略的秘密,精于细微的智慧之事,通晓政治学的特殊道理,并且总是言语和善。

1.7.20

ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद् वसुन्धराम् ॥ १.७.२० ॥

无瑕的国王达舍罗陀与这些德才兼备的大臣相辅,统治着这片大地。

1.7.21

अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥ १.७.२१ ॥

借助密探察看,以法义保护臣民,照料百姓的安乐,并远离非法。

1.7.22

विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः ।
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ १.७.२२ ॥

他在三界闻名,慷慨而信守诚愿,这位人中之虎在那里统治着这片大地。

1.7.23

नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
स शशास जगद् राजा दिवि देवपतिर्यथा ॥ १.७.२३ ॥

他找不到胜过自己或与自己相等的敌人。他有盟友相伴,诸侯低首顺服,凭其威势拔除了荆棘;这位国王统治天下,正如天上的诸神之主因陀罗。

1.7.24

तैर्मन्त्रिभिर्मन्त्रहितै निविष्टै-
र्वृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्त-
स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ १.७.२४ ॥

这位国王被那些忠于谋略、心怀爱戴、精明干练、能力出众的大臣环绕,焕发出如同放射光芒而升起的太阳一般的光辉。