Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 1.73

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.73.1

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्।
तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान् ॥ १.७३.१ ॥

王が最高の牛の布施を行ったその日、英雄ユダージットが到着した。

1.73.2

पुत्रः केकयराजस्य साक्षाद्भरतमातुलः।
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ १.७३.२ ॥

ケーカヤ王の息子で、バラタの実の伯父である彼は、王を見て安否を尋ね、このように言った。

1.73.3

केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्।
येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥ १.७३.३ ॥

ケーカヤの主の王は愛情をもって安否を尋ねた。あなたが安寧を願う人々は、今は無事である。

1.73.4

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः।
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥ १.७३.४ ॥

王の中の王よ!姉の息子に会いたいと願う王のために、私はアヨーディヤーに来たのです、ラghu族の喜びよ。

1.73.5

श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्।
मिथिलामुपयातांस्तु त्वया सह महीपते ॥ १.७३.५ ॥

地の主よ、アヨーディヤーで私は聞きました。ご子息たちは婚礼のためにあなたと共にミティラーへ行かれたと。

1.73.6

त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्।
अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥ १.७३.६ ॥

姉の息子に会いたくて、私は急いでやって来ました。そのとき王ダシャラタは、愛しい客人が目の前に現れたのを見た。

1.73.7

दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्।
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥ १.७३.७ ॥

彼女を見て、彼は最高の敬意をもって礼拝に値する客をもてなした。それから彼女は偉大な心の息子たちとともにその夜そこに泊まった。

1.73.8

प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् ।
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ १.७३.८ ॥

夜明けに再び起き、務めを果たした真理に通じた王は、聖仙たちを先に立てて祭場へ赴いた。

1.73.9

युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः।
भ्रातृभिः सहितो रामः कृतकौतुकमंगलः ॥ १.७३.९ ॥

吉祥で勝利の時刻に、ラーマは装飾品で飾られた兄弟たちとともに、祝福と吉祥の儀礼を終えて来た。

1.73.10

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि।
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥ १.७३.१० ॥

ヴァシシュタを先頭に、他の大聖仙たちとともに、尊き聖者ヴァシシュタはヴィデーハの王のもとへ来て、このように言った。

1.73.11

राजा दशरथो राजन् कृतकौतुकमंगलैः।
पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते ॥ १.७३.११ ॥

王よ。人中の最上者、ダシャラタ王は、祝福の儀礼を終えた息子たちとともに、施与者(花嫁の父)を望んでいる。

1.73.12

दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि।
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ १.७३.१२ ॥

施与者と受領者の両方によって、すべての目的は成就する。あなたの本分を果たし、すぐれた婚礼を執り行え。

1.73.13

इत्युक्तः परमोदारो वसिष्ठेन महात्मना।
प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ १.७३.१३ ॥

偉大なヴァシシュタにこう言われて、最も寛大で大いに輝き、最高のダルマを知る(ジャナカ)はこの言葉を答えた。

1.73.14

कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते।
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ १.७३.१४ ॥

私の門番はどこに立っており、誰の命令を待っているのか。自分の家に何の思案があろうか。この王国は、まさにあなたのものである。

1.73.15

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः।
मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः ॥ १.७३.१५ ॥

最高の聖仙よ、婚礼の儀式はすべて終わり、私の娘たちは火の炎のように輝きながら祭壇の根元に来ています。

1.73.16

सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः।
अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते ॥ १.७३.१६ ॥

私はあなたを待って、すぐにこの祭壇に座っています。すべてを障りなく行いましょう。なぜ遅れているのですか。

1.73.17

तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा।
प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥ १.७३.१७ ॥

ジャナカの言葉を聞いて、ダシャラタは息子たち全員と聖仙の一団をも中に入らせた。

1.73.18

ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्।
कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक ॥ १.७३.१८ ॥

そのとき、ヴィデーハの王はヴァシシュタに言った。「聖仙よ、ダルマの人よ、聖仙たちと共にすべてを執り行わせてください。」

1.73.19

रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो।
तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ॥ १.७३.१९ ॥

世界を喜ばせるラーマの婚礼の儀式よ、主よ。「そのとおりに」と言って、尊き聖仙ヴァシシュタはジャナカに告げた。

1.73.20

विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्।
प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः ॥ १.७३.२० ॥

ヴィシュヴァーミトラと敬虔なシャタナンダを前に立て、大苦行者(ヴァシシュタ)は規定どおりに、東屋の中央に祭壇を設けた。

1.73.21

अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः।
सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः ॥ १.७३.२१ ॥

その祭壇を四方から香りの良い花で飾り、金の柱と芽をつけた彩色の壺で飾った。

1.73.22

अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः।
शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः ॥ १.७३.२२ ॥

芽の満ちた浅い皿、香を入れた香炉、法螺貝の器、杓子、花輪、そしてアルギャなどの供物で敬われた器で。

1.73.23

लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः।
दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ॥ १.७३.२३ ॥

炒り米で満たされた器と、規定どおりに整えられた無傷の米で。ダルバ草を均一に敷き、規定どおり真言を伴って。

1.73.24

अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्।
जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः ॥ १.७३.२४ ॥

祭壇の上に儀軌と真言に従って火を置き、大いに輝く聖者の中の最上者ヴァシシュタは、火に供物を捧げた。

1.73.25

ततः सीतां समानीय सर्वाभरणभूषिताम्।
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ॥ १.७३.२५ ॥

そこで、あらゆる装身具で飾られたシーターが連れて来られ、火の前、ラーガヴァに向かい合うように据えられた。

1.73.26

अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्।
इयं सीता मम सुता सहधर्मचरी तव ॥ १.७३.२६ ॥

カウサリャーの喜びを増す者に、ジャナカ王は言った。「これは私の娘シーターだ。おまえのダルマの伴侶である。

1.73.27

प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना।
पतिव्रता महाभागा छायेवानुगता सदा ॥ १.७३.२७ ॥

彼女を受け入れなさい、あなたに幸あれ。あなたの手で彼女の手を取りなさい。貞淑で大いなる幸運を持つ彼女は、影のように常にあなたに従うでしょう。

1.73.28

इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा।
साधुसाध्विति देवानामृषीणां वदतां तदा ॥ १.७३.२८ ॥

こう言って王はマントラで清めた水を注いだ。その時、神々と聖仙たちは「善いかな、善いかな」と唱えた。

1.73.29

देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्।
एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम् ॥ १.७३.२९ ॥

天界の太鼓が轟き、大いに花が降り注いだ。こうして、マントラの水で清められた娘シーターを与えると、

1.73.30

अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः।
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ॥ १.७३.३० ॥

喜びに満たされたジャナカ王は言った。「ラクシュマナよ、来なさい、おまえに幸あれ。私が差し出すウールミラーを受け取りなさい。

1.73.31

प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः।
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥ १.७३.३१ ॥

受け入れて手を取れ、時を失うな。彼にそう告げてから、ジャナカはバラタにも語りかけた。

1.73.32

गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन।
शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः ॥ १.७३.३२ ॥

ラグの歓び、マーンダヴィーの手をおまえの手で取れ。そして法の心をもつミティラーの王は、シャトルグナにも語った。

1.73.33

श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना।
सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः ॥ १.७३.३३ ॥

大いなる腕の者よ、シュルタキールティの手を取れ。おまえたちは皆穏やかで、善き誓いを守る者だ。

1.73.34

पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः।
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ॥ १.७३.३४ ॥

カークツトゥハの子孫たちは妻とともにあれ、時を失うな。ジャナカの言葉を聞き、彼らは手と手を触れ合わせた。

1.73.35

चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः।
अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ॥ १.७३.३५ ॥

四人はヴァシシュタの助言に従い、四人の女性とともに立ち、火とヴェーディーと王の周りを右回りに巡った。

1.73.36

ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः।
यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम् ॥ १.७३.३६ ॥

偉大な魂のラグの末裔たちは、妻たちと聖仙たちとともに、告げられたとおり作法にのっとって婚礼を執り行った。

1.73.37

पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा।
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥ १.७३.३७ ॥

空から非常に輝かしい大きな花の雨が降り、神々の太鼓の轟きと歌と楽器の音が響いた。

1.73.38

ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ १.७३.३८ ॥

アプサラスの群れが舞い、ガンダルヴァたちが甘美に歌った。ラグbased諸公の婚礼で、その不思議な光景が見られた。

1.73.39

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ १.७३.३९ ॥

このような中、楽器の轟きが響きわたる中、かの大いなる力の持ち主たちは聖火を三度めぐり、妻たちを連れて帰った。

1.73.40

अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः।
राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ १.७३.४० ॥

そこでラグの歓喜の子らは妻たちとともに住まいへ向かった。王もまた、聖仙の群れと親族とともに、見守りながら彼らの後に従った。