ヴァールミーキのラーマーヤナ · サルガ 1.77
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.77.1
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः।
वरुणायाप्रमेयाय ददौ हस्ते महायशाः ॥ १.७७.१ ॥
ラーマが去ったのち、心穏やかで大いに名高いダシャラティの子ラーマは、無量なるヴァルナにその弓を手渡した。
1.77.2
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्।
पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥ १.७७.२ ॥
その後、ラグの子孫の喜びであるラーマは、ヴァシシュタを筆頭とする仙人たちに礼拝し、苦しむ父を見て語った。
1.77.3
जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी।
अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥ १.७७.३ ॥
ジャマダグニの子ラーマは去りました。あなたが主として守る四軍よ、アヨーディヤーへ向かって進め。
1.77.4
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम् ॥ १.७७.४ ॥
ラーマの言葉を聞いて、王ダシャラタは息子ラーガヴァを両腕で固く抱きしめ、頭に口づけした。
1.77.5
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥ १.७७.५ ॥
ラーマが去ったと聞いて王は喜び、大いに歓喜した。そのとき王は自分と息子が生まれ変わったと思った。
1.77.6
चोदयामास तां सेनां जगामाशु ततः पुरीम्।
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ॥ १.७७.६ ॥
王がその軍に進軍を命じると、軍勢はたちまち、旗や幟で飾られ、楽器の響きに満ちた美しい都へ向かって進んだ。
1.77.7
सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्।
राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः ॥ १.७७.७ ॥
王道は水が撒かれて美しく、散らされた花の山で覆われていた。王の入城に顔を輝かせた市民たちは、手に吉祥の品を持っていた。
1.77.8
सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्।
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ॥ १.७७.८ ॥
王は、人々の群れで満ち、美しく飾られた都市に入られた。市民や婆羅門たちは遠くまで出迎えた。
1.77.9
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः।
प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम् ॥ १.७७.९ ॥
息子たちに従われ、栄光に満ち大いに名高い王は、ヒマラヤのように愛おしい自分の館に入られた。
1.77.10
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः।
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥ १.७७.१० ॥
王は親族とともに喜び、館で望みのものによって厚くもてなされた。カウサリヤー、スミトラー、そして細腰のカイケーイーも同様であった。
1.77.11
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः।
ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥ १.७७.११ ॥
新婦を迎えることに携わっていた他の王妃たちは、そのとき大いに幸福なシーターと名高いウールミラーを迎えた。
1.77.12
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः।
मंगलालापनैर्होमैः शोभिताः क्षौमवाससः ॥ १.७७.१२ ॥
王妃たちはクシャドワジャの二人の娘を迎え入れた。彼女たちは吉祥の詠唱と供犠で飾られ、亜麻布の衣をまとっていた。
1.77.13
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्।
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥ १.७७.१३ ॥
彼女たちは皆すぐに神々の社を礼拝し、それから王家の嫁たちは敬うべき人々に礼をした。
1.77.14
रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः।
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ॥ १.७७.१४ ॥
彼女たちは皆喜びに満ち、夫たちと人目のないところで楽しんだ。彼女たちは既婚で、武芸に長け、財産と友人にも恵まれていた。
1.77.15
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः।
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥ १.७७.१५ ॥
人中の雄牛たちは父に仕えて暮らしていた。やがてしばらくして、王ダシャラタは息子に語りかけた……
1.77.16
भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः।
अयं केकयराजस्य पुत्रो वसति पुत्रक ॥ १.७७.१६ ॥
ラグの歓喜であるラーマは、カイケーイーの息子バラタに言った。「わが息子よ、ここにケーカヤ王の息子が住んでいる。」
1.77.17
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव।
श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः ॥ १.७७.१७ ॥
君を連れ帰るために、勇士ユダジトという君の母方のおじが来ている」。ダシャラタのこの言葉を聞いて、カイケーイーの息子バラタは……
1.77.18
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा।
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ॥ १.७७.१८ ॥
そこで勇士バラタは、シャトルグナを伴い、父と、過ちなき行いをするラーマに別れを告げて出発しようとした。
1.77.19
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ।
युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ॥ १.७७.१९ ॥
人中の最勝者はシャトルグナとともに母たちのもとへも行った。ユダージットはバラタとシャトルグナに会い、喜んだ。
1.77.20
स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह।
गते च भरते रामो लक्ष्मणश्च महाबलः ॥ १.७७.२० ॥
勇士は自らの都に入り、その父は喜んだ。バラタが去ると、ラーマと大力のラクシュマナもまた。
1.77.21
पितरं देवसंकाशं पूजयामासतुस्तदा।
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥ १.७७.२१ ॥
彼らはその時、神のような父を敬った。父の命令を第一に置き、都のあらゆる務めを。
1.77.22
चकार रामः सर्वाणि प्रियाणि च हितानि च।
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ॥ १.७७.२२ ॥
ラーマはすべての喜ばしく有益なことを行った。母たちへの務めを果たし、彼は極めて自制心強く在った。
1.77.23
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत।
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥ १.७७.२३ ॥
師たちのための務めを、折々に気遣った。こうしてダシャラタは喜び、バラモンや市民もまた同じであった。
1.77.24
रामस्य शीलवृत्तेन सर्वे विषयवासिनः।
तेषामतियशा लोके रामः सत्यपराक्रमः ॥ १.७७.२४ ॥
ラーマの品格と振る舞いによって、国中の住民は皆喜んだ。その中でも真の勇気をもつラーマは、世に最も名高かった。
1.77.25
स्वयंभूरिव भूतानां बभूव गुणवत्तरः।
रामश्च सीतया सार्धं विजहार बहूनृतून् ॥ १.७७.२५ ॥
万物の中で自生神(ブラフマー)が最も優れているように、ラーマは最も徳高くなった。彼はシーターと共に多くの季節を楽しく過ごした。
1.77.26
मनस्वी तद्गतमनास्तस्या हृदि समर्पितः।
प्रिया तु सीता रामस्य दाराः पितृकृता इति ॥ १.७७.२६ ॥
気高い心のラーマは、その心も思いもシーターに向けられていた。シーターはラーマの愛しい人であり、父が与えた妻であった。
1.77.27
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते।
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥ १.७७.२७ ॥
彼女の徳と容姿・資質によって愛情はさらに増し、夫の彼女への愛は心の中で二倍になって宿った。
1.77.28
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा।
तस्य भूयो विशेषेण मैथिली जनकात्मजा।
देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥ १.७७.२८ ॥
心の奥に隠れた思いさえ、心によって明らかに表れる。彼にとりわけ愛しいのは、ジャナカの娘マイティリー(シーター)であった。その美しさは女神たちに等しく、まるで形を得た吉祥天女のようであった。
1.77.29
तया स राजर्षिसुतोऽभिकामया।
समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभे मुदान्वितो
विभुः श्रिया विष्णुरिवामरेश्वरः ॥ १.७७.२९ ॥
その慕わしい気高い王女と結ばれ、王仙の子ラーマは喜びに満ちて大いに輝いた。吉祥天女を伴う全能のヴィシュヌや、神々の主のようであった。