Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.10.1

विदर्शिता यदा देवी कुब्जया पापया भृशम्।
तदा शेते स्म सा भूमौ दिग्धविद्धेव किंनरी ॥ २.१०.१ ॥

当狡诈的驼背女把王后大大煽动起来时,她便躺在地上,像被毒箭射中的紧那罗女一样。

2.10.2

निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी।
मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २.१०.२ ॥

她心中决定了行动,认为“这样才对”,于是这位聪慧的女子慢慢地把一切告诉了曼陀罗。

2.10.3

सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता।
नागकन्येव निःश्वस्य दीर्घमुष्णं च भामिनी ॥ २.१०.३ ॥

她满心忧伤,被曼陀罗的话所迷惑,像蛇女一样长长地、热热地叹息。

2.10.4

मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्।
सा सुहृच्चार्थकामा च तं निशम्य विनिश्चयम् ॥ २.१०.४ ॥

她思量了片刻,想着能给自己带来幸福的道路;听了曼陀罗的决定——这位既为她好又图利益的女友……

2.10.5

बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा।
अथ सा रुषिता देवी सम्यक् कृत्वा विनिश्चयम् ॥ २.१०.५ ॥

曼陀罗欣喜万分,仿佛已经成功。于是那愤怒的王后彻底下定了决心。

2.10.6

संविवेशाबला भूमौ निवेश्य भ्रुकुटिं मुखे।
ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ २.१०.६ ॥

那柔弱的女子躺倒在地,眉头紧皱。随后她摘下了那些色彩斑斓的花环和天界的饰物。

2.10.7

अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे।
तया तान्य् अपविद्धानि माल्यान्य् आभरणानि च ॥ २.१०.७ ॥

凯凯依所抛弃的那些(花环)落到了地上;她所抛弃的花环和饰物也落到了地上。

2.10.8

अशोभयन्त वसुधां नक्षत्राणि यथा नभः।
क्रोधागारे च पतिता सा बभौ मलिनाम्बरा ॥ २.१०.८ ॥

如同星辰装点天空,那些(饰物)装点着大地;她跌落在愤怒的房间里,身着污秽的衣裳,依然光彩照人。

2.10.9

एकवेणीं दृढां बद्ध्वा गतसत्त्वेव किंनरी।
आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ॥ २.१०.९ ॥

她将一根发辫紧紧束起,仿佛失去生气的紧那罗女。大王已下令为罗怙家族的罗摩举行灌顶。

2.10.10

उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्।
अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥ २.१०.१० ॥

送走朝臣后,大王走进自己的寝宫,心中明白今日罗摩的灌顶已经正式宣告。

2.10.11

प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी।
स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥ २.१०.११ ॥

为了将喜讯告诉心爱的人,这位自律的大王走进了内宫;这位大名鼎鼎的人走进了凯凯依的华美居所。

2.10.12

पाण्डुराभ्रम् इवाकाशं राहुयुक्तं निशाकरः।
शुक-बर्हिसमायुक्तं क्रौञ्चहंसरुतायुतम् ॥ २.१०.१२ ॥

如同被罗睺所蚀的月亮在白云密布的天空中闪耀,那座宫室中鹦鹉与孔雀成群,鹤与天鹅的鸣声回荡,光彩照人。

2.10.13

वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्।
लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥ २.१०.१३ ॥

回响着乐器的声音,充满驼背和侏儒的女子,以藤蔓凉亭、彩绘殿阁以及瞻波树和无忧树为装饰。

2.10.14

दान्तराजतसौवर्णवेदिकाभिः समायुतम्।
नित्यपुष्पफलैर्वृक्षैर्वापीभिरुपशोभितम् ॥ २.१०.१४ ॥

设有象牙、白银和黄金的台座,以常年开花结果的树木和阶梯井为点缀。

2.10.15

दान्तराजतसौवर्णैः संवृतं परमासनैः।
विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ २.१०.१५ ॥

四周环绕着象牙、白银和黄金制成的上等座位,备有种种饮食与各式美味。

2.10.16

उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम्।
स प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ २.१०.१६ ॥

装饰着珍贵的饰物,如同天界。大王进入自己繁盛的内宫之后,

2.10.17

न ददर्श स्त्रियं राजा कैकेयीं शयनोत्तमे।
स कामबलसंयुक्तो रत्यर्थी मनुजाधिपः ॥ २.१०.१७ ॥

大王在华美的床上没有看见名叫吉迦吉的女子。被欲望之力驱动、追求欢愉的人间之主,

2.10.18

अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च।
नहि तस्य पुरा देवी तां वेलामत्यवर्तत ॥ २.१०.१८ ॥

看不见心爱的妻子,他便问起,并陷入忧伤;因为从前那位王后从未错过那个时辰。

2.10.19

न च राजा गृहं शून्यं प्रविवेश कदाचन।
ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ २.१०.१९ ॥

国王从不进入空无一人的宫殿。于是国王来到宫中,问吉迦叶伊。

2.10.20

यथापुरम् अविज्ञाय स्वार्थलिप्सुम् अपण्डिताम्।
प्रतिहारी त्वथोवाच संत्रस्ता तु कृताञ्जलिः ॥ २.१०.२० ॥

守门人不像从前那样认出她,惊恐地合掌说道:这位贪图私利、缺乏见识的吉迦叶伊……

2.10.21

देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता।
प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥ २.१०.२१ ॥

陛下,王后极为愤怒,已奔向愤怒之室。国王听了守门人的话,心中极为忧虑。

2.10.22

विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः।
तत्र तां पतितां भूमौ शयानामतथोचिताम् ॥ २.१०.२२ ॥

国王再次陷入更深的忧伤,心神慌乱不定。他在那里看见她倒在地上,躺卧在不合她身份的境地。

2.10.23

प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः।
स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥ २.१०.२३ ॥

国王仿佛被忧愁所灼烧,望去。他年老,却看见自己年轻的妻子,比生命还更珍贵。

2.10.24

अपापः पापसंकल्पां ददर्श धरणीतले।
लतामिव विनिष्कृत्तां पतितां देवतामिव ॥ २.१०.२४ ॥

无罪的国王看见她怀着恶意,倒卧在地上,宛如被割断的藤蔓,又如堕落的天女。

2.10.25

किन्नरीमिव निर्धूतां च्युताम् अप्सरसं यथा।
मायाम् इव परिभ्रष्टां हरिणीम् इव संयताम् ॥ २.१०.२५ ॥

她倒卧着,如同跌落的紧那罗女,如同失位的天女,如同迷失的幻术,又如被缚的母鹿。

2.10.26

करेणुम् इव दिग्धेन विद्धां मृगयुना वने।
महागज इवारण्ये स्नेहात् परमदुःखिताम् ॥ २.१०.२६ ॥

她如同森林中被猎人毒箭射中的母象,又如荒野中出于深情而极度悲伤的大象。

2.10.27

परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः।
कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २.१०.२७ ॥

他用双手为她擦拭,心中极为惊惶,这位心生欲念的男子便对这位莲瓣眼的女子说了这些话。

2.10.28

न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्।
देवि केनाभियुक्तासि केन वासि विमानिता ॥ २.१०.२८ ॥

女神啊,我不知道愤怒潜藏在你心中。是谁侵犯了你,或是谁轻慢了你?

2.10.29

यदिदं मम दुःखाय शेषे कल्याणि पांसुषु।
भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ॥ २.१०.२९ ॥

美丽的人啊,你为何躺在尘土中,使我痛苦?对我这心怀善意之人,你为何躺卧于地上?

2.10.30

भूतोपहतचित्तेव मम चित्तप्रमाथिनि।
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ २.१०.३० ॥

你扰乱我心,你仿佛心神被鬼魅所附。我有高明的医者,他们必定欣然,全力为你医治。

2.10.31

सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि।
कस्य वापि प्रियं कार्यं केन वा विप्रियं कृतम् ॥ २.१०.३१ ॥

他们会使你快乐;高贵的女子啊,请说出你的病痛。应为谁行悦意之事,又是谁做了令人不悦之事?

2.10.32

कः प्रियं लभतामद्य को वा सुमहदप्रियम्।
मा रौत्सीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम् ॥ २.१०.३२ ॥

今天让谁得到喜悦之事,或让谁遭受极大的不悦?女神啊,不要哭泣,也不要使自己憔悴。

2.10.33

अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्।
दरिद्रः को भवेदाढ्यो द्रव्यवान् वाप्यकिंचनः ॥ २.१०.३३ ॥

谁不该被杀却被杀,或谁该被杀却被释放?谁贫穷而成为富人,或谁富有而成为一无所有者?

2.10.34

अहं च हि मदीयाश्च सर्वे तव वशानुगाः।
न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे ॥ २.१०.३४ ॥

我和我的所有人都顺从于你。我不敢违背你的任何心意。

2.10.35

आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम्।
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ २.१०.३५ ॥

即使以我的生命起誓,也请说出你心中所想。你知道自己的力量,不应怀疑我。

2.10.36

करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे।
यावदावर्तते चक्रं तावती मे वसुंधरा ॥ २.१०.३६ ॥

我必定满足你的心愿;我以自己的善行起誓。车轮所转之处,这片大地都属于我。

2.10.37

द्राविडाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः।
वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥ २.१०.३७ ॥

德罗毗荼人、信度人与索维罗人、刹陀罗人与南道诸民,文伽人、盎伽人与摩揭陀人,鱼人,以及迦尸与拘萨罗人——都十分富庶。

2.10.38

तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्।
ततो वृणीष्व कैकेयि यद् यत् त्वं मनसेच्छसि ॥ २.१०.३८ ॥

那里出产大量财物、五谷、山羊与绵羊。因此,凯盖伊啊,你心中想要什么,尽管选择吧。

2.10.39

किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने।
तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्।
तत् ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ॥ २.१०.३९ ॥

胆小的人啊,何必如此痛苦?起来,起来吧,光彩照人的人!那么凯盖伊啊,告诉我,你遭遇了什么恐惧;我会将它驱散,如同太阳驱散薄雾。

2.10.40

तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्।
परिपीडयितुं भूयो भर्तारमुपचक्रमे ॥ २.१०.४० ॥

她被如此安慰之后,心中安定,想要说出那令人不快的话,于是又开始折磨她的丈夫。