Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.108

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.108.1

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ २.१०८.१ ॥

最优秀的婆罗门遮婆梨一边安慰婆罗多,一边对通晓正法的罗摩说出了这些违背正法的话。

2.108.2

साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ २.१०८.२ ॥

好吧,罗怙婆之子,愿你的智慧不要如此徒劳。即使是普通人,这样的念头对于高尚而有见识的人也是无益的。

2.108.3

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३ ॥

谁是谁的亲人?谁能从谁那里得到什么?因为众生独自出生,也独自死亡。

2.108.4

तस्मान्माता पिता चेति राम सज्जेतयो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४ ॥

因此,罗摩啊,那个执着地说“这是母亲,这是父亲”的人,应被视为疯狂;实际上,谁也不属于谁。

2.108.5

यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५ ॥

就像一个人前往另一个村庄,途中在某处停留,然后离开那住所,在另一天再次启程。

2.108.6

एवमेव मनुष्याणां पिता माता गृहं वसु ।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ २.१०८.६ ॥

同样,对于人来说,父亲、母亲、房屋和财富都只是一处住所;嗟,迦古特斯塔,善人在此并不执着于它们。

2.108.7

पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ २.१०८.७ ॥

人中之最啊,舍弃祖传的王国,你不应走上那条痛苦、崎岖、荆棘遍布的歧途。

2.108.8

समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८ ॥

在繁荣的阿逾陀城为自己举行灌顶吧;这片大地与这座城市,梳着单辫,正在等待你。

2.108.9

राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९ ॥

享受最珍贵的王家享乐吧,王子啊,如因陀罗在天界一般,在阿逾陀城中逍遥生活。

2.108.10

न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।
अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥ २.१०८.१० ॥

十车王与你毫无关系,你与他也毫无关系;他是另一位王,你是另一个人。所以,照我所说的去做吧。

2.108.11

बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च ।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११ ॥

父亲只是众生的种子,即白色精液与血;与月经期的母亲结合,这便是人在此世的出生。

2.108.12

गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ २.१०८.१२ ॥

那位君王已去往众人都必须前往之地;这便是凡人的常道。而你却徒然地毁灭自己。

2.108.13

अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३ ॥

我只为那些专注于财富与法的人而悲伤,而不为其他人;他们在此受苦,死后走向毁灭。

2.108.14

अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४ ॥

人们流行着'八祭是为祖先'的说法。看看这浪费的食物吧:死者又能吃什么呢?

2.108.15

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५ ॥

若此处一人所食,进入了另一人的身体,那么为远行之人举行的祭祀就应当施行;但那食物对他而言并不有益。

2.108.16

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६ ॥

这些典籍是智者以布施为基础所作:行祭祀,施舍,受戒,修苦行,然后舍弃。

2.108.17

स नास्ति परमित्येव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ २.१०८.१७ ॥

你要确定此念:'彼岸并不存在。' 大智者啊,执着于所见,把所不见的放在身后。

2.108.18

स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ २.१०८.१८ ॥

以那指示一切世界道路的智慧为前导,并蒙婆罗多恳请而心悦,你便接受王国吧。