蚁垤《罗摩衍那》 · 篇 2.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.110.1
क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह ।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१ ॥
瓦希斯塔知道罗摩愤怒,便回答他。阇跋离也知道这个世界的来去。
2.110.2
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२ ॥
他想让你回头,才说了这番话。世界之主啊,请听我说这世界的起源。
2.110.3
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ।
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३ ॥
起初一切都是水,大地就是在那里被造出的。随后,自生的梵天与诸神一同出现。他化为野猪,将大地托举起来。
2.110.4
असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः ।
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥ २.११०.४ ॥
他与自我克制的诸子一同创造了整个世界。从虚空中生出的梵天是永恒、恒常、不灭的。
2.110.5
तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपः सुतः ॥ २.११०.५ ॥
由他生出摩哩奇;摩哩奇之子是迦叶波。
2.110.6
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः ।
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ २.११०.६ ॥
由迦叶波生出毗婆娑然;毗婆娑然之子是韦婆斯跋多摩奴。他从前是生主;摩奴之子是甘蔗王(伊刹婆迦)。
2.110.7
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७ ॥
摩奴最初将这片富饶的大地赐予的那位,应知他便是阿约提亚往昔的国王伊刹婆迦。
2.110.8
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः ।
कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ॥ २.११०.८ ॥
伊刹婆迦之子名叫俱叉的光辉王子声名远播;俱叉之子英勇的毗俱叉由此诞生。
2.110.9
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ २.११०.९ ॥
威光赫赫、勇猛的巴那是毗俱叉之子;巴那之子则是臂膀宽长、声名卓著的阿那兰耶。
2.110.10
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१० ॥
在这位善人中最杰出的君王治下,雨水按时降下、各式各样,并无饥荒;在大王阿那兰耶的统治下,连一个小偷都没有。
2.110.11
अनरण्यान्महाबाहुः पृथू राजा बभूव ह ।
तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।
स सत्यवचनाद्वीरः सशरीरो दिवङ्गतः ॥ २.११०.११ ॥
阿那兰耶之子是长臂的普利图王;普利图之子是大王特里商古。那位英雄凭借其真言之力,肉身升入了天界。
2.110.12
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ।
धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२ ॥
特里商古之子是声名卓著的敦度玛罗;光辉的敦度玛罗之子是由瓦那始婆。
2.110.13
युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ।
मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ २.११०.१३ ॥
光荣的曼陀多是欲那什凡之子,他诞生了。曼陀多之子、大光明的苏桑地诞生了。
2.110.14
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ।
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥ २.११०.१४ ॥
苏桑地还有两个儿子,即德鲁瓦桑地和普拉塞纳吉特。德鲁瓦桑地之子是著名的、摧毁敌人的婆罗多。
2.110.15
भरतात्तु महाबाहोरसितो नाम जायत ।
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २.११०.१५ ॥
从大臂的婆罗多生出一子,名叫阿悉多。与他为敌的,有这些对立的诸王:海哈耶人、塔拉正迦人,以及勇猛的舍希槃度人。
2.110.16
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ २.११०.१६ ॥
在战斗中抵挡了他们所有人之后,国王被放逐了。他在一座美丽的上好山中定居,专心于修行者的生活。
2.110.17
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७ ॥
据传他的两位妻子都怀了孕。其中一位为了毁掉对手的胎儿,给了她名为“萨伽罗”的毒药。
2.110.18
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८ ॥
有一位名叫遮婆那的仙人,是婆利古的后裔,已隐居于喜马拉雅山。迦林蒂走近这位仙人,恭敬地向他致礼。
2.110.19
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ।
धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदनः ॥ २.११०.१९ ॥
那位brāhmaṇa仙人对求子的她说:
2.110.20
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।
ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२० ॥
她欢喜地绕行那位仙人,并向他告辞。回到家后,王后生下了一个儿子,他的眼睛如莲花瓣,光辉如莲花之心。
2.110.21
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जातः स सगरो ऽभवत् ॥ २.११०.२१ ॥
然而,她的同妻想要杀死胎儿,便给她下了毒。他随着那毒药一同降生,被称为萨格拉。
2.110.22
स राजा सगरो नाम यः समुद्रमखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ २.११०.२२ ॥
那位名为萨格拉的国王,他令人挖掘了大海:在节日里举行祭祀后,他以强力令人挖掘,使这些民众惊恐。
2.110.23
असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम् ।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २.११०.२३ ॥
我们听说萨格拉有个儿子名叫阿萨曼遮。这位作恶之人在父亲在世时就被父亲驱逐了。
2.110.24
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।
दिलीपों ऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ २.११०.२४ ॥
阿萨曼遮的勇猛之子阿姆舒曼也出生了。阿姆舒曼之子是迪利波,迪利波之子是跋吉罗陀。
2.110.25
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ।
ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवाः ॥ २.११०.२५ ॥
从薄伽罗陀生出劫具陀,因他,劫具陀族得以闻名;劫具陀之子为罗怙,因他,罗怙族被称为罗伽婆。
2.110.26
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६ ॥
罗怙光辉的儿子长大后成了食人者。他在世上因此被称为羯摩沙波陀,也名为娑陀娑。
2.110.27
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुतः ।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७ ॥
羯摩沙波陀之子出生,名为尸迦那。他遇到其威力,与军队一同被彻底消灭。
2.110.28
शङ्खणस्य च पुत्रो ऽभूच्छूरः श्रीमान् सुदर्शनः ।
सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥ २.११०.२८ ॥
尸迦那之子出生,即勇武而光荣的苏达尔舍那。苏达尔舍那之子为火色,火色之子为速行。
2.110.29
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।
प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युतिः ॥ २.११०.२९ ॥
速行之子为摩卢,摩卢之子为普舍舒卢迦,普舍舒卢迦之子生出了大光明的安跋利沙。
2.110.30
अम्बरीषस्य पुत्रो ऽभून्नहुषः सत्यविक्रमः ।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ २.११०.३० ॥
安跋利沙之子出生,即真正勇武的那呼沙;那呼沙之子为至极正法的那跋伽。
2.110.31
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ २.११०.३१ ॥
阿闍与苏弗拉塔是那跋伽的两个儿子。阿闍的正法之子是国王十车王。
2.110.32
तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुतः ।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२ ॥
你是他的长子继承人,以罗摩之名而闻名。王啊,请接受你自己的王国,并照料民众。
2.110.33
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३ ॥
在所有甘蔗王族中,царём即长子。长子在世时,受封王位的不是幼子,而是长子。
2.110.34
स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः ॥ २.११०.३४ ॥
啊,大名远扬者!你今日不应违背罗怙族永恒的家族法度。请如父亲一般,统治这富饶珍宝、疆域广阔的大地。