蚁垤《罗摩衍那》 · 篇 2.111
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.111.1
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहितः ।
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ २.१११.१ ॥
于是国王的家庭祭司婆湿吒对罗摩如此说后,又说了另一句充满法(dharma)的话。
2.111.2
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।
आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२ ॥
啊,迦古特斯特ha!啊,罗ghava!生于此世之人有三位导师:师长、父亲与母亲。
2.111.3
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।
प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३ ॥
人中之雄啊!父亲生育此人,老师赐予智慧;因此他被称为古鲁(导师)。
2.111.4
सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।
मम त्वं वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ २.१११.४ ॥
啊,敌人的焚烧者!我是你父亲的师长,也是你的师长。遵从我的话,不要违背善人之道。
2.111.5
इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा ।
एषु तात चरन् धर्मं नातिवर्त्तेः सताङ्गतिम् ॥ २.१११.५ ॥
亲爱的孩子!这些是你的议会、行会以及再生的婆罗门。在他们之间践行法,不要违背善人之道。
2.111.6
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।
अस्यास्तु वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ २.१११.६ ॥
你不应违背年迈而守法的母亲。遵从她的话,不要违背善人之道。
2.111.7
भरतस्य वचः कुर्वन् याचमानस्य राघव ।
आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७ ॥
罗怙之裔啊,请成全正在恳求的婆罗多之言。你以真实、法与勇力著称,不应背离自己。
2.111.8
एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् ।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ २.१११.८ ॥
导师如此温和地对他说话后,罗怙之裔(罗摩)亲自回答了坐在那里的婆悉吒,这位人中之最。
2.111.9
यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९ ॥
父母对儿子始终如一的待遇,父母所施的恩情,是难以轻易报答的。
2.111.10
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१० ॥
依自己的能力施舍,为他沐浴、涂油,经常说温和的话,同样地养育、培育他(父母就这样抚育了儿子)。
2.111.11
स हि राजा जनयिता पिता दशरथो मम ।
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११ ॥
那位国王达舍罗陀是生我的父亲。他所下的命令,不会因我而变成虚妄。
2.111.12
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् ।
उवाच परमोदारः सूतं परमदुर्मनाः ॥ २.१११.१२ ॥
罗摩如此说后,极其宽厚的婆罗多心中深感悲伤,立刻对御者说话。
2.111.13
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।
आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३ ॥
车夫啊,快在这裸露的地上为我铺设吉祥草。在尊者对我息怒之前,我要坐在他面前。
2.111.14
अनाहारो निरालोको धनहीनो यथा द्विजः ।
शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४ ॥
我绝食、失去光彩,如同失去财富的婆罗门,将躺在殿堂前,直到他返回。
2.111.15
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः ।
कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५ ॥
然而他见到苏曼陀罗望着罗摩,心中悲伤,便亲自在地上铺起了吉祥草的床铺。
2.111.16
तमुवाच महातेजा रामो राजर्षिसत्तमः ।
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६ ॥
大光明的罗摩,王仙中最尊贵者,对他说:“婆罗多啊,你在做什么?亲爱的,你为何要坐在我面前?”
2.111.17
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।
न तु मूर्द्धाभिषिक्तानां विधिः प्रत्युपवेशने ॥ २.१११.१७ ॥
婆罗门可在一旁而坐,在此约束众人;但头顶受灌顶的国王,并不宜坐在同样受灌顶者的面前。
2.111.18
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।
पुरवर्य्यामितः क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८ ॥
起来吧,人中之虎!放弃这严苛的誓愿,罗怙之子啊,从此处速返那殊胜的城市阿逾陀。
2.111.19
आसीनस्त्वेव भरतः पौरजानपदं जनम् ।
उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९ ॥
婆罗多仍坐着,环顾四周,对城中与乡间的百姓说:"诸位贤者,你们为何不去劝导他呢?"
2.111.20
ते तमूचुर्महात्मानं पौरजानपदा जनाः ।
काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥ २.१११.२० ॥
于是城中与乡间的百姓对那位大德者说:"我们了解迦古斯特ha(罗摩);罗ghava所言甚是。"
2.111.21
एषो ऽपि हि महाभागः पितुर्वचसि तिष्ठति ।
अत एव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१ ॥
"这位大福之人也坚守父亲的话语;因此我们无法轻易让他回头。"
2.111.22
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२ ॥
罗摩明白了他们的话,便说道:"请如此领会那些以法为眼的朋友之言。"
2.111.23
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३ ॥
"罗ghava啊,听了这两方面的话,请仔细思量。大臂者,起来吧,触一触我与这水。"
2.111.24
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।
श्रृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ २.१११.२४ ॥
于是婆罗多起身,触碰着水,说道:"请诸位议会、大臣与各行会听我言。"
2.111.25
न याचे पितरं राज्यं नानुशासामि मातरम् ।
आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५ ॥
我不向父亲请求王位,也不命令母亲,更不允许那位通晓至高法的尊贵罗怙之子。
2.111.26
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः ।
अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६ ॥
若必须居住,且须践行父亲之命,那么我自己将在林中住十四年。
2.111.27
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ।
उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७ ॥
德性高尚的罗摩,因兄长真实之言而惊异,环视城中百姓与乡野之人,开口说道。
2.111.28
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८ ॥
父亲在世时为我所卖、所质押、所购之事,无论我还是婆罗多,都不能废除。
2.111.29
अपधिर्न मया कार्य्यो वनवासे जुगुप्सितः ।
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९ ॥
林中流放之事,我不认为有可指责之过。凯克伊所言恰当,我父亲所作所为也是善行。
2.111.30
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।
सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३० ॥
我知道婆罗多能忍耐,尊敬长辈。对于这位践守诺言的大德之人,这一切确实都是吉祥的。
2.111.31
अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः ।
भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ २.१११.३१ ॥
与这位品行高尚的兄弟一同从森林归来,我将再次成为大地上最优秀的君主。
2.111.32
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।
अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥
国王被凯刻伊以恩赐之誓束缚,我已履行了那诺言。以此,使那位大地之主的父亲脱离虚妄。