Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.112.1

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।
विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ॥ २.११२.१ ॥

那两位光辉无比的兄弟相会,令人激动万分;聚集的大仙人见此情景,无不惊叹。

2.112.2

अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः ।
तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२ ॥

而隐身的众仙人、成就者与至上大仙,赞叹那两位高尚的兄弟,即迦库特斯塔之后裔。

2.112.3

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।
श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे ॥ २.११२.३ ॥

拥有两位通晓法义、勇于行法之子的人,真是有福;我们听了他二人的对话,也深深向往。

2.112.4

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः ।
भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ २.११२.४ ॥

于是,渴望杀死十首罗刹的众仙人迅速聚集,对王者中的雄虎婆罗多说了这些话。

2.112.5

कुले जात महाप्राज्ञ महावृत्त महायशः ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ २.११२.५ ॥

高贵家族出身的大智者、德行高尚的大名之人啊!若你眷顾父亲,就应当接受罗摩的话。

2.112.6

सदानृणमिमं रामं वयमिच्छामहे पितुः ।
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ २.११२.६ ॥

我们愿此罗摩始终不负父亲之债;而达舍罗陀正因免于对吉迦伊的债务,才升入天界。

2.112.7

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः ।
राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥ २.११२.७ ॥

说完这番话,乾闼婆、大仙和王仙便各自踏上自己的道路离去了。

2.112.8

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः ।
रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८ ॥

罗摩因那吉祥的话语而欢喜,面容喜悦,容貌吉祥,向那些仙人致敬。

2.112.9

स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया ।
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९ ॥

然而,身体虚弱的婆罗多以颤抖的声音,合掌对罗ghava再次说道:

2.112.10

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।
कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१० ॥

啊,迦矩特stha的后裔!考虑到王者之法与家族之法的延续,您应当满足我和我母亲的请求。

2.112.11

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११ ॥

如此庞大的王国我一人无力守护,也无力让那些心向我们的城邦居民和乡野百姓满意。

2.112.12

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।
त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षकाः ॥ २.११२.१२ ॥

我们的亲族、战士、朋友和知己,都只盼望您,正如农夫盼望雨云一般。

2.112.13

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३ ॥

大智者啊,请接受这王国并使其安定。考古斯塔的后裔啊,你有能力护持世界。

2.112.14

इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा ।
भृशं सम्प्रार्थयामास राममेव प्रियंवदः ॥ २.११२.१४ ॥

说完这些,言语温和的婆罗多便伏在哥哥的脚下,恳切地恳求罗摩本人。

2.112.15

तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५ ॥

罗摩将这位兄弟抱在膝上,亲自对婆罗多说出了这些话——他肤色黝黑,眼如莲瓣,声音如醉酒的天鹅。

2.112.16

आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६ ॥

亲爱的,你心中生出了这份智慧,既出于天性,又源于修养;你也非常渴望守护大地。

2.112.17

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः ।
सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७ ॥

与大臣、友人、智者和谋士商议之后,把所有事务——无论多么重大——都安排办妥。

2.112.18

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।
अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ॥ २.११२.१८ ॥

即使吉祥天女离开月亮,即使喜马拉雅舍弃它的积雪,即使大海越过它的海岸,我也绝不违背父亲的誓言。

2.112.19

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।
न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९ ॥

亲爱的弟弟,无论母亲出于欲望还是贪心为你做了此事,都不要放在心上;对待她应当如同对待母亲一样。

2.112.20

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२० ॥

罗摩如此说话时,考莎厘雅之子婆罗多对他说道;罗摩光辉如太阳,容貌如初月。

2.112.21

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ २.११२.२१ ॥

请用双足踏上这双饰以黄金的木屐;因为这两双将保障全世界的安宁与福祉。

2.112.22

सो ऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ।
प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२ ॥

那位光辉赫赫的人中之虎,登上木屐后又下来,将它们交给了大德的婆罗多。

2.112.23

स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।
चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३ ॥

他恭敬地向木屐致礼后,对罗摩说:十四年间,我将以束发和树皮衣度日。

2.112.24

फलमूलाशनो वीर भवेयं रघुनन्दन ।
तवागमनमाकांक्षन् वसन् वै नगराद्बहिः ॥ २.११२.२४ ॥

英雄啊,罗怙族的喜乐,我将以果实和根茎为食,住在城外,期盼你的归来。

2.112.25

तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप ।
चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५ ॥

克敌者啊,我已将王国的重任托付于你的木屐,罗怙之最优者啊:若到十四年圆满之日我不见你,我便将投入火中。

2.112.26

तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६ ॥

他说“就这样吧”,恭敬地拥抱了他,又拥抱了设睹卢祇那,然后对婆罗多说了这些话。

2.112.27

मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।
मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७ ॥

请保护母亲吉迦伊,不要对她发怒。罗怙之最优者啊,你已经被我和悉多所立誓约束。

2.112.28

इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥ २.११२.२८ ॥

说完这些话,他满眼含泪,送别了兄弟。

2.112.29

स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९ ॥

具有威力、通晓法义的婆罗多,恭敬地礼拜那双装饰精美的木屐,绕行罗怙,并把木屐放在一头大象的头上。

2.112.30

अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।
व्यसर्जयद्राघववंशवर्द्धनः स्थिरः स्वधर्मे हिमवानिवाचलः ॥ २.११२.३० ॥

随后,他依次向民众、长者、大臣和百姓,以及两位弟弟致礼问候,然后遣散了他们——他是罗怙家族的光大者,在自己的法义中坚定如喜马拉雅山。

2.112.31

तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः ।
स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः ॥ २.११२.३१ ॥

母亲们哽咽泪流,因悲痛而无法向他道别。然而罗摩向所有母亲行礼,一边哭泣,一边走进了自己的茅屋。