Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.116.1

प्रतिप्रयाते भरते वसन् रामस्तपोवने ।
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २.११६.१ ॥

婆罗多返回之后,住在林中苦行居所的罗摩忧虑地察觉到苦行者们的不安与急切。

2.116.2

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २.११६.२ ॥

那些在吉特拉库塔以东的苦行居所中依止罗摩、专心侍奉他的苦行者,他看出他们心神不宁。

2.116.3

नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किताः ।
अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥ २.११६.३ ॥

他们以目光和皱眉指向罗摩,心怀疑虑的苦行者彼此低声交谈。

2.116.4

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः ।
कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ॥ २.११६.४ ॥

罗摩见他们的急切,心中疑惧,便合掌向这位宗族之主的仙人说了这些话。

2.116.5

न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।
दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ॥ २.११६.५ ॥

尊者啊,莫非我从前的某种行为显得有所不当,因此使苦行者们心烦意乱?

2.116.6

प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥ २.११६.६ ॥

或许是我的幼弟罗什曼那因疏忽做了某事,被仙人们看见,而与他自身的本性不相称?

2.116.7

कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि ।
प्रमादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २.११६.७ ॥

悉多专心侍奉你们和我,难道会因疏忽而有不当的行为吗?

2.116.8

अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ।
वेपमान इवोवाच रामं भूतदयापरम् ॥ २.११६.८ ॥

那位被衰老侵蚀、因苦修而更显苍老的仙人,仿佛颤抖着,对专注于怜悯众生的罗摩说道。

2.116.9

कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।
चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ २.११६.९ ॥

孩子啊,善良本性、只乐于行善的毗提诃公主,怎会动摇,尤其是对待苦行者呢?

2.116.10

त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।
रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ॥ २.११६.१० ॥

因为你的缘故,这种事才发生在苦行者身上;他们被罗刹所惊扰,彼此议论着这样的话。

2.116.11

रावणावरजः कश्चित् खरो नामेह राक्षसः ।
उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २.११६.११ ॥

这里有一个名叫哈罗的罗刹,是罗波那的幼弟,他正在拔除住在十人边地的所有苦行者。

2.116.12

धृष्टश्च जितकाशीं च नृशंसः पुरुषादकः ।
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २.११६.१२ ॥

他狂妄自大,以胜利自傲,残忍,食人,骄慢而邪恶;孩子啊,他甚至容不下你。

2.116.13

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २.११६.१३ ॥

亲爱的,自从你住在这座修行所以来,罗刹便不断骚扰苦行者。

2.116.14

दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि ।
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥ २.११६.१४ ॥

他们显出丑陋、残忍、恐怖的种种形貌,或畸形,或扭曲,千变万化。

2.116.15

अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् ।
प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्याः पुरतः स्थिताः ॥ २.११६.१५ ॥

这些卑贱之徒使用不洁、不宜的物件加害苦行者,站在他们面前,迅速击杀其他人。

2.116.16

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।
रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतसः ॥ २.११६.१६ ॥

他们潜伏于各处修行所中,不为人察觉,心胸狭小之徒在那里以毁灭苦行者为乐。

2.116.17

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।
कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २.११६.१७ ॥

祭祀将要举行时,他们抛掷祭勺与器皿,向圣火洒水,并踩碎祭壶。

2.116.18

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासवः ।
गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २.११६.१८ ॥

因那些恶人玷污了修行所,诸仙今日想要离开这些修行所,便催促我前往别的国度。

2.116.19

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।
दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २.११६.१९ ॥

因此,罗摩啊,那些恶徒已经对苦行者施加身体暴力。我们将离开这座修行所。

2.116.20

बहुमूलफलं चित्रमविदूरादितो वनम् ।
पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥ २.११६.२० ॥

离此不远有一片奇妙的森林,盛产块根与果实。我将和我的同伴们再次投奔那座古老的修行所。

2.116.21

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।
सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्त्तते ॥ २.११६.२१ ॥

孩子啊,khara 之前对你也一直行事不当。若你心中如此决定,就随我们从此地离去吧。

2.116.22

सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।
समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥ २.११६.२२ ॥

罗怙婆啊,与妻子同住的人总有危难之忧。纵然你十分有能力,如今在此居住对你而言已是苦事。

2.116.23

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकः ॥ २.११६.२३ ॥

王子罗摩虽然急切想要,却未能以回应之言挽留那位如此说话的苦行者。

2.116.24

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ २.११६.२४ ॥

向罗怙婆致敬、告别并宽慰他之后,那位宗族之主与众宗族一同离开了修行所。

2.116.25

रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २.११६.२५ ॥

罗摩送别众仙人之后,从那里向族长仙人致敬。众仙人十分欢喜,允许他离去并指教其志向,于是罗摩前往自己神圣的住处。

2.116.26

आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न विजहौ स राघवः ।
राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणाः ॥ २.११६.२६ ॥

然而,这位主公罗ghava即使在没有仙人的修道处,也片刻不曾离开。苦行者们始终跟随罗ghava,身上承载着仙人行为的德行。