蚁垤《罗摩衍那》 · 篇 2.119
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.119.1
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ २.११९.१ ॥
精通法度的阿那素雅听完那段宏大的故事后,用双臂拥抱了迈蒂丽,并轻嗅她的头顶。
2.119.2
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।
रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २.११९.२ ॥
甘言的女子啊,你的话语清晰、优美而动听;婆耶姆伐罗的经过,我已全部听闻。你的故事使我非常欢喜。
2.119.3
रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।
दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् ।
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥ २.११९.३ ॥
光辉的太阳已经落下,吉祥的夜晚降临。白日里为觅食而散开的鸟群,以及黄昏时为入睡而藏匿的鸟群,它们的声音清晰可闻。
2.119.4
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ।
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥ २.११९.४ ॥
这些圣仙也因灌顶沐浴而湿透,高举水瓶,身着浸湿的树皮衣,结伴归来。
2.119.5
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥ २.११९.५ ॥
圣仙们的火祭中,祭品已依照仪轨供奉;可见一缕如鸽颈般赤褐的烟,被风吹动。
2.119.6
अल्पपर्णाहि तरवो घनीभूताः समन्ततः ।
विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिशः ॥ २.११९.६ ॥
虽然远离此地,那些叶子稀疏却四周密密丛生的树木,并未照亮此地的四方。
2.119.7
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ २.११९.७ ॥
夜行的生灵四处游荡,而苦修林中的这些鹿则卧在祭坛圣地旁歇息。
2.119.8
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।
जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ २.११९.८ ॥
悉多啊,夜色已深,缀满星辰;月亮以月光为披风,已升起在天空之中。
2.119.9
गम्यतामनुजानामि रामस्यानुचरी भव ।
कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ २.११९.९ ॥
去吧,我准许你;做罗摩的侍从吧。你言语甜美,使我心悦。
2.119.10
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ २.११९.१० ॥
摩ithila公主啊,就在我面前装饰自己吧;亲爱的孩子,以神圣的饰物增辉,给我喜悦吧。
2.119.11
सा तथा समलंकृत्य सीता सुरसुतोपमा ।
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ २.११९.११ ॥
悉多如天女一般,如此盛装打扮后,低头向那位女神行礼,然后面向罗摩走去。
2.119.12
तथा तु भूषितां सीतां ददर्श वदतां वरः ।
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ २.११९.१२ ॥
言辞最善的罗怙之裔(罗摩)看见如此盛装的悉多,因苦行女的情意馈赠而欢喜。
2.119.13
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ २.११९.१३ ॥
于是麦提利(悉多)将苦行女所赠的情谊礼物——衣物、饰物与花环——全部告诉了罗摩。
2.119.14
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ।
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ २.११९.१४ ॥
罗摩与大车士罗什曼那见麦提利这善意的举动,人间罕有,都十分欢喜。
2.119.15
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ।
अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ॥ २.११९.१५ ॥
于是,面如明月的罗怙后裔罗摩心怀欢喜,受到苦行者与成就者的礼敬,度过了那个神圣的夜晚。
2.119.16
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ २.११९.१६ ॥
那一夜过去后,两位人中虎完成了对圣火的供奉,便向居于林中的苦行者们告辞。
2.119.17
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ।
वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ॥ २.११९.१७ ॥
那些住在林中、遵行法道的苦行者便对二人说,穿过那片森林的道路已被罗刹充斥。
2.119.18
रक्षांसि पुरुषादानि नानारूपाणि राघव ।
वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ॥ २.११९.१८ ॥
罗怙之子啊,这片大森林中住着种种形貌、吞食人的罗刹,还有饮血的凶猛野兽。
2.119.19
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।
अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ २.११९.१९ ॥
在这大森林里,它们吞食残余之物、疏忽之人,或奉行法的苦行者。罗怙之子啊,请制止它们。
2.119.20
एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २.११९.२० ॥
这是在森林中采摘果实的大仙人们走的路。罗怙之子啊,您应当经由此路进入这难以通行的森林。
2.119.21
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतः स्वस्त्ययनः परं तपः ।
वनं सभार्य्यः प्रविऺवेश राघवः सलक्ष्मणः सूर्य्यमिवाभ्रमण्डलम् ॥ २.११९.२१ ॥
于是,苦行者与再生者合掌,为这至高的苦行献上吉祥的祝福。随后,罗怙之子与妻子、罗什曼那一同进入森林,如太阳进入云团。