Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 2.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.13.1

अतदर्हं महाराजं शयानमतथोचितम्।
ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम् ॥ २.१३.१ ॥

偉大な王は、そのような資格もなく、このように横たわるべきでもないのに、功徳が尽きて神々の世界から落ちたヤヤーティのように横たわっていた。

2.13.2

अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी।
पुनराकारयामास तमेव वरमङ्गना ॥ २.१३.२ ॥

災いの姿をしたその女は、目的を果たせず、恐れてはいないのに怖がるふりをして、まさにその恩恵のために再び王を呼び寄せた。

2.13.3

त्वं कत्थसे महाराज सत्यवादी दृढव्रतः।
मम चेदं वरं कस्माद् विधारयितुमिच्छसि ॥ २.१३.३ ॥

偉大な王よ、あなたは真実を語り誓いを固く守ると自慢している。ならばなぜ私のこの恩恵を差し止めようとするのか。

2.13.4

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा।
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥ २.१३.४ ॥

カイケーイーがこう言うと、王ダシャラタは怒り、一瞬うろたえたようになって答えた。

2.13.5

मृते मयि गते रामे वनं मनुजपुङ्गवे।
हन्तानार्ये ममामित्रे सकामा सुखिनी भव ॥ २.१३.५ ॥

私が死に、人中の牡牛ラーマが森へ去った後には、ああ、不徳の私の敵よ、おまえの望みは叶い、幸せになるがよい。

2.13.6

स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्।
प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥ २.१३.६ ॥

天上においても神々はラーマの無事を確かに告げている。ならば、ああ、彼に背くこの命令を私はどうして耐えられようか。

2.13.7

कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्।
यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति ॥ २.१३.७ ॥

ラーマは、カイケーイーの望みを叶えたいと願った者によって森へ追放された。これを真実と言えば、それは偽りとなるだろう。

2.13.8

अपुत्रेण मया पुत्रः श्रमेण महता महान्।
रामो लब्धो महातेजाः स कथं त्यज्यते मया ॥ २.१३.८ ॥

息子のなかった私が大いなる苦労の末に得た、大いなる光輝のラーマ。どうして私に捨てられようか。

2.13.9

शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥ २.१३.९ ॥

勇敢で学識があり、怒りを制し、忍耐に徹する、蓮の花びらのような目をしたラーマを、どうして私は追放できようか。

2.13.10

कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्।
अभिराममहं रामं स्थापयिष्यामि दण्डकान् ॥ २.१३.१० ॥

青い睡蓮のように黒く、長い腕を持ち、大いなる力を持ち、人を喜ばせるラーマを、どうして私はダンダカの森へ送れようか。

2.13.11

सुखानामुचितस्यैव दुःखैरनुचितस्य च।
दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ २.१३.११ ॥

幸福にのみふさわしく、苦しみには全くふさわしくない賢明なラーマの苦しみを、どうして私が見てよいだろうか。

2.13.12

यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्।
अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ २.१३.१२ ॥

ラーマに苦しみを与えずに自分の苦しみを越えられるなら、苦しみに値しないラーマのおかげで私は幸福を得られるだろう。

2.13.13

नृशंसे पापसंकल्पे रामं सत्यपराक्रमम्।
किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥ २.१३.१३ ॥

残酷で悪意を抱くカイケーયी よ!真の勇猛さを持つラーマを追い払い、この不快な行いで私にどんな喜びをもたらすのか。

2.13.14

अकीर्तिरतुला लोके ध्रुवं परिभविष्यति।
तथा विलपतस्तस्य परिभ्रमितचेतसः ॥ २.१३.१४ ॥

世にあって、比べようもない悪名が必ず私に降りかかるだろう。このように嘆き、心の乱れた私に。

2.13.15

अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत।
सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता ॥ २.१३.१५ ॥

太陽は沈みかけ、夜が訪れた。苦悩する王にとって、月輪に飾られたその三夜番の夜であった。

2.13.16

राज्ञो विलपमानस्य न व्यभासत शर्वरी।
सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः ॥ २.१३.१६ ॥

嘆き悲しむ王にとって、その夜は輝かなかった。老いた王ダシャラタは絶えず熱い溜息をついていた。

2.13.17

विललापार्तवद् दुःखं गगनासक्तलोचनः।
न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते ॥ २.१३.१७ ॥

空に目を注ぎ、苦しむ者のように嘆いた。「星々に飾られた夜よ!お前によって夜明けが来ることを私は望まない。」

2.13.18

क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः।
अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥ २.१३.१८ ॥

気高き女よ、私を憐れんでくれ。私はこうして合掌している。さもなくば、早く去るがよい。無慈悲な女は私の望むところではない。

2.13.19

नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं मम।
एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ॥ २.१३.१९ ॥

「残酷なカイケーyī を見ることさえ、彼女のせいで私は破滅したのだ」と言い、王は合掌してカイケーイーに語りかけた。

2.13.20

प्रसादयामास पुनः कैकेयीं राजधर्मवित्।
साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ॥ २.१३.२० ॥

王道に通じた王は再びカイケーイーをなだめようとした。「私は善行の者、哀れな者、おまえに身を寄せた者、命尽きかけた者である」と。

2.13.21

प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः।
शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् ॥ २.१३.२१ ॥

善き女よ、王妃よ、どうか王に特別なご慈悲をお示しください。美しい腰の女よ、私が今言ったことは、誰もいない所で言ったのではない。

2.13.22

कुरु साधुप्रसादं मे बाले सहृदया ह्यसि।
प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् ॥ २.१३.२२ ॥

私に善き恩寵を施してください、娘よ。おまえは慈悲深いのだから。王妃よ、どうか御心を和らげてください。私のラーマを、そしておまえが与えた不滅の王国を。

2.13.23

लभतामसितापाङ्गे यशः परमवाप्स्यसि।
मम रामस्य लोकस्य गुरूणां भरतस्य च।
प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे ॥ २.१३.२३ ॥

黒い瞳の方よ、ラーマが得られますように。そうすればおまえは最高の名声を得るだろう。私のため、ラーマのため、世界のため、長老たちのため、そしてバラタのために、この喜ばしいことをしてくれ。大きな腰の、美しい顔と目の女よ。

2.13.24

विशुद्धभावस्य हि दुष्टभावा
दीनस्य ताम्राश्रुकलस्य राज्ञः।
श्रुत्वा विचित्रं करुणं विलापं
भर्तुर्नृशंसा न चकार वाक्यम् ॥ २.१३.२४ ॥

清浄な心の、哀れな、赤い涙を流す王の、奇妙で哀れな嘆きを聞いても、邪悪な心を持つ残酷な女は、夫の言葉に耳を貸さなかった。

2.13.25

ततः स राजा पुनरेव मूर्च्छितः
प्रियामतुष्टां प्रतिकूलभाषिणीम्।
समीक्ष्य पुत्रस्य विवासनं प्रति
क्षितौ विसंज्ञो निपपात दुःखितः ॥ २.१३.२५ ॥

そこで王は再び気を失った。不満を抱き逆らう言葉を語る愛しい妃を見て、また息子の追放を思い、悲しみに沈んだ王は意識を失って地に倒れた。

2.13.26

इतीव राज्ञो व्यथितस्य सा निशा
जगाम घोरं श्वसतो मनस्विनः।
विबोध्यमानः प्रतिबोधनं तदा
निवारयामास स राजसत्तमः ॥ २.१३.२६ ॥

こうして、悲嘆に沈み深く溜息をつく高潔な王にとって、その恐ろしい夜は過ぎていった。呼び起こされても、その王者の中の王は意識を取り戻すことを拒んだ。