蚁垤《罗摩衍那》 · 篇 2.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.19.1
तदप्रियममित्रघ्नो वचनं मरणोपमम्।
श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ २.१९.१ ॥
羅摩,敵人的摧毀者,聽到這些如同死亡一般令人不悅的話,卻並未痛苦,並對吉柯伊說了這番話。
2.19.2
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः।
जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २.१९.२ ॥
就这样吧。我将遵守父王的诺言,披着束发与树皮衣,从此地前往森林居住。
2.19.3
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः।
नाभिनन्दति दुर्धर्षो यथापूर्वमरिंदमः ॥ २.१९.३ ॥
然而我想知道,那位不可战胜、降伏敵人的君王,为何不像從前那樣對我表示讚許。
2.19.4
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः।
यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ २.१९.४ ॥
王后啊,你不要生气;我在你面前说这话。你要高兴。我将披着树皮衣与束发前往森林。
2.19.5
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च।
नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ २.१९.५ ॥
当慈爱的师长、父亲和感恩的君王吩咐时,我怀着信任,又有什么可爱之事我会不去做呢?
2.19.6
अलीकं मानसं त्वेकं हृदयं दहते मम।
स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ २.१९.६ ॥
唯有一个虚假的念头灼烧着我的心:国王自己为何没有告诉我关于婆罗多加冕的事?
2.19.7
अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च।
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ २.१९.७ ॥
即使没有任何人催促,我也会欣然将悉多、王国、我珍爱的生命与财富,亲自交给兄弟婆罗多。
2.19.8
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः।
तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ २.१९.८ ॥
既然人主父王亲自催促,我又为满足你的心愿而守护誓言,还有什么可说的呢?
2.19.9
तथाश्वासय ह्रीमन्तं किं त्विदं यन्महीपतिः।
वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ २.१९.९ ॥
"那就去安慰这位知礼的罗摩吧。这位地上的君主为何低头凝视大地,缓缓落泪呢?"
2.19.10
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥ २.१९.१० ॥
依国王之命,今日便让使者乘快马前往,从舅家把婆罗多接回来。
2.19.11
दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः।
अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ २.१९.११ ॥
不加思索父亲的话,我这就快速前往檀陀迦森林,在那里居住十四年。
2.19.12
सा हृष्टा तस्य तद् वाक्यं श्रुत्वा रामस्य कैकयी।
प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम् ॥ २.१९.१२ ॥
听到罗摩的话,甘迦伊欢喜不已,她相信他将启程,便催促罗怙之后快些动身。
2.19.13
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः।
भरतं मातुलकुलादिहावर्तयितुं नराः ॥ २.१९.१३ ॥
就这样吧。信使将乘快马前往母舅家,把婆罗多接回此地。
2.19.14
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्।
राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ २.१९.१४ ॥
罗摩啊,我认为你这样急切之人不应拖延;因此你应当从此地迅速前往森林。
2.19.15
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते।
नैतत् किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् ॥ २.१९.१५ ॥
人中之杰啊,国王自己因羞愧而不与你说话,这并非小事;请放下这份怒气。
2.19.16
यावत्त्वं न वनं यातः पुरादस्मादतित्वरम्।
पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥ २.१९.१६ ॥
罗摩啊,在你尽快从此城前往森林之前,你的父亲既不沐浴,也不进食。
2.19.17
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः।
मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते ॥ २.१९.१७ ॥
“唉,何等痛苦!”他深深叹息,被悲伤淹没的国王昏厥过去,倒在那张饰以黄金的卧榻上。
2.19.18
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः।
कशयेव हतो वाजी वनं गन्तुं कृतत्वरः ॥ २.१९.१८ ॥
罗摩也扶起了国王,在凯凯依的催促下,急忙前往森林,如同被鞭子抽打的马。
2.19.19
तदप्रियमनार्याया वचनं दारुणोदयम्।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ २.१९.१९ ॥
罗摩听了卑劣的吉迦依所说的那令人不悦、后果可怖的话语,毫无悲恼,便对吉迦依说了这些话。
2.19.20
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे।
विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम् ॥ २.१९.२० ॥
王后啊,我并不追求财富,也不愿贪恋此世。请知道我与仙人相同,安住于纯净的法中。
2.19.21
यत् तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया।
प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ २.१९.२१ ॥
凡是我能为尊敬的父亲做的令他欢喜之事,即使舍弃性命,我也会以各种方式去完成。
2.19.22
न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्।
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ २.१९.२२ ॥
没有比这更大的法行了:侍奉父亲,或遵从他的话语。
2.19.23
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ २.१९.२३ ॥
尊敬的父亲虽然没有对我说,但依你的话,我将从此地起在无人的森林中居住十四年。
2.19.24
न नूनं मयि कैकेयि किंचिदाशंससे गुणान्।
यद् राजानमवोचस्त्वं ममेश्वरतरा सती ॥ २.१९.२४ ॥
吉迦依啊,你对我想必没有任何期望,因为你对国王这样说了我,尽管你这贤德的妻子对我本有更大的权威。
2.19.25
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्।
ततोऽद्यैव गमिष्यामि दण्डकानां महद् वनम् ॥ २.१९.२५ ॥
待我向母亲辞行、安抚悉多之后,今日便将前往檀陀迦的大森林。
2.19.26
भरतः पालयेद् राज्यं शुश्रूषेच्च पितुर्यथा।
तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥ २.१९.२६ ॥
愿婆罗多守护王国,如侍奉父亲那样尽孝;您也应当如此,因为这就是永恒的法。
2.19.27
रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता।
शोकादशक्नुवन् वक्तुं प्ररुरोद महास्वनम् ॥ २.१९.२७ ॥
父王听到罗摩的话,陷入深深的悲痛;因哀伤而说不出话,他放声痛哭。
2.19.28
वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा।
कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः ॥ २.१९.२८ ॥
于是,罗摩向昏厥的父王之足叩拜,又向卑劣的吉迦伊致礼,这位大光辉者便离开了。
2.19.29
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्।
निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम् ॥ २.१९.२९ ॥
罗摩向父王与吉迦伊行右绕之礼,随后走出内宫,看见了他那些友善的亲人。
2.19.30
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह।
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ २.१९.३० ॥
悉弥多罗之子、令悉弥多罗欢喜增长的罗什曼那,满腔愤怒,跟随在眼中含泪的罗摩身后。
2.19.31
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्।
शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥ २.१९.३१ ॥
罗摩绕行灌顶之物,将其置于右侧,缓缓离去,目光仍留在那里。
2.19.32
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति।
लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः ॥ २.१९.३२ ॥
失去王国并不减损他伟大的光彩;他是世界所爱,如同清凉光芒之月的亏缺,并不减其可爱。
2.19.33
न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ २.१९.३३ ॥
他欲往森林、离开大地,心中却不见丝毫动摇,仿佛超越了一切世界。
2.19.34
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते।
विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ २.१९.३४ ॥
他谢绝了吉祥的伞盖和装饰华美的羽扇,遣散了随从、车驾、城中百姓和其他人。
2.19.35
धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च।
प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥ २.१९.३५ ॥
他心中承受着悲痛,克制着感官,自持的他走进了母亲的宫殿,那位母亲曾传达了不悦的消息。
2.19.36
सर्वोऽप्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः।
नालक्षयत रामस्य कंचिदाकारमानने ॥ २.१९.३६ ॥
光荣而诚实的罗摩,其亲族无一人在他脸上看出任何神色。
2.19.37
उचितं च महाबाहुर्न जहौ हर्षमात्मवान्।
शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ २.१९.३७ ॥
臂膀强健的罗摩自持而得体,没有失去他的喜悦,正如秋夜满辉的月亮不失其光辉。
2.19.38
वाचा मधुरया रामः सर्वं सम्मानयञ्जनम्।
मातुः समीपं धर्मात्मा प्रविवेश महायशाः ॥ २.१९.३८ ॥
法行之魂、大名远扬的罗摩,以甜美的言语尊重所有人,走近了母亲的身边。
2.19.39
तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः।
सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥ २.१९.३९ ॥
在德行上与罗摩相等、勇力无比的兄弟罗什曼那,忍着自己的悲痛,跟随在他身后。
2.19.40
प्रविश्य वेश्मातिभृशं मुदा युतं
समीक्ष्य तां चार्थविपत्तिमागताम्।
न चैव रामोऽत्र जगाम विक्रियां
सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ २.१९.४० ॥
罗摩进入宫室,看到母亲充满极大的喜悦,以及她所遭遇的失去财富之事,却没有任何变化,因为他担心自己的灾祸会落到亲友身上。