蚁垤《罗摩衍那》 · 篇 2.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.22.1
अथ तं व्यथया दीनं सविशेषममर्षितम्।
सरोषमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥ २.२२.१ ॥
此时,见他因痛苦而沮丧,格外愤懑,如同发怒的象王,因愤怒而双目圆睁,
2.22.2
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्।
उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥ २.२२.२ ॥
罗摩走近友人、兄弟、爱人苏弥德罗之子罗什曼那,以坚定之心、保持内在力量与自制,这样说道:
2.22.3
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्।
अवमानं निरस्यैनं गृहीत्वा हर्षमुत्तमम् ॥ २.२२.३ ॥
克制愤怒与悲伤,唯以坚定为依靠,摒弃这份屈辱,怀抱至高的喜悦,
2.22.4
उपक्लृप्तं यदैतन्मे अभिषेकार्थमुत्तमम्।
सर्वं निवर्तय क्षिप्रं कुरु कार्यं निरव्ययम् ॥ २.२२.४ ॥
迅速停止为我加冕所做的这些盛大准备,并且不浪费地完成此事。
2.22.5
सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः।
अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः ॥ २.२२.५ ॥
苏弥德罗之子啊,愿为我加冕而忙碌的那些筹备,成为为停止加冕而忙碌的筹备。
2.22.6
यस्या मदभिषेकार्थे मानसं परितप्यते।
माता नः सा यथा न स्यात् सविशङ्का तथा कुरु ॥ २.२२.६ ॥
请这样做,使那因我的加冕而内心痛苦的我们的母亲,不至于心生疑虑。
2.22.7
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे।
मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ २.२२.७ ॥
苏弥special之子啊,她心中因怀疑而生的悲痛,我一刻也不能置之不理。
2.22.8
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन।
मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ २.२२.८ ॥
我想不起来,无论有意还是无意,我曾对诸母或父亲做过哪怕一点令他们不快的事。
2.22.9
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः।
परलोकभयाद् भीतो निर्भयोऽस्तु पिता मम ॥ २.२२.९ ॥
愿我那始终诚实、守信、真正勇武的父亲,不因对来世的恐惧而畏惧,愿他无所畏惧。
2.22.10
तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते।
सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ २.२२.१० ॥
若此事不予撤回,他也会心生'真理未能守住'的痛苦;他的那份懊悔也会折磨我。
2.22.11
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण।
अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः ॥ २.२२.११ ॥
因此,啊罗什曼那,请撤销灌顶的安排;我想先从此地前往森林。
2.22.12
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।
सुतं भरतमव्यग्रमभिषेचयतां ततः ॥ २.२२.१२ ॥
因我流放之故,愿王女(吉迦伊)今日心愿得偿;然后愿她使其子婆罗多无阻地受灌顶。
2.22.13
मयि चीराजिनधरे जटामण्डलधारिणि।
गतेऽरण्यं च कैकेय्या भविष्यति मनः सुखम् ॥ २.२२.१३ ॥
我身着树皮衣与鹿皮,头戴结成圆髻的发辫,入林而去之后,吉迦伊的心就会感到欢喜。
2.22.14
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्।
तं नु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम् ॥ २.२२.१४ ॥
既然智慧已定此决,心也已经安定,我不应当令其烦恼。我将不再拖延,即刻入林流放。
2.22.15
कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने।
राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ २.२२.१५ ॥
啊,苏弥特拉之子!我的流放,只应看作命运(kṛtānta)所致;而已经交付的王国重新回归,也同样是命运。
2.22.16
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने।
यदि तस्या न भावोऽयं कृतान्तविहितो भवेत् ॥ २.२२.१६ ॥
若她的这种心意不是由命运所定,那么在我这痛苦之中,吉迦伊的态度又怎会如此?
2.22.17
जानासि हि यथा सौम्य न मातृषु ममान्तरम्।
भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ॥ २.२२.१७ ॥
啊,温和的人!你知道,在我的诸母之中,她对我与对她自己的儿子,从来没有过分别与偏爱。
2.22.18
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।
उग्रैर्वाक्यैरहं तस्या नान्यद् दैवात् समर्थये ॥ २.२२.१८ ॥
她为阻止加冕、为使我流放而说出的严厉、狠毒之言,我认为其原因不外乎天命(daiva)。
2.22.19
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा।
ब्रूयात् सा प्राकृतेव स्त्री मत्पीड्यं भर्तृसंनिधौ ॥ २.२२.१९ ॥
出身高贵、天性端庄、具备这般品德的王女,怎会像寻常女子一样,在丈夫面前说出伤害我的话呢?
2.22.20
यदचिन्त्यं तु तद् दैवं भूतेष्वपि न हन्यते।
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ २.२२.२० ॥
那天命不可思议,即使在众生之中,其打击也无法避免。显然,逆转已降临到我身上,也降临到她身上。
2.22.21
कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान्।
यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न दृश्यते ॥ २.२२.२१ ॥
啊,苏弥特拉,哪个人敢与天命相争?天命之所为,看不出还有别的抓手。
2.22.22
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।
यस्य किंचित् तथाभूतं ननु दैवस्य कर्म तत् ॥ २.२२.२२ ॥
苦乐、恐惧与愤怒、得失、生灭,凡其中有此类者,必定是天命所为。
2.22.23
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः।
उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ २.२२.२३ ॥
即使是苦行严厉的仙人,也受天命驱使,舍弃严格的戒律,因欲望与愤怒而堕落。
2.22.24
असंकल्पितमेवेह यदकस्मात् प्रवर्तते।
निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत् ॥ २.२२.२४ ॥
此间凡是出乎意料、突然发生,并使已经开始的事业逆转的,必定是天命所为。
2.22.25
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना।
व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ २.२२.२५ ॥
你应以此智慧,自己稳住自己。纵使我的灌顶受阻,我心中也没有任何悲恼。
2.22.26
तस्मादपरितापः संस्त्वमप्यनुविधाय माम्।
प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥ २.२२.२६ ॥
因此,你应无悲恼、坚定地听从我,迅速撤去灌顶的仪式。
2.22.27
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः।
मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ २.२२.२७ ॥
啊,罗什曼那,用这些为灌顶而聚集的水瓶,我的苦行誓愿沐浴便将举行。
2.22.28
अथवा किं मयैतेन राज्यद्रव्यमयेन तु।
उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥ २.२२.२८ ॥
或者说,这由王家财富所备的水与我何干?我自己取来的水,便足以完成誓愿的规定。
2.22.29
मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये।
राज्यं वा वनवासो वा वनवासो महोदयः ॥ २.२२.२९ ॥
啊,罗什曼那,不要因福运的反转而悲恼。无论是王位还是林居,林居也是伟大的升华。
2.22.30
न लक्ष्मणास्मिन् मम राज्यविघ्ने
माता यवीयस्यभिशङ्कितव्या।
दैवाभिपन्ना न पिता कथंचि-
ज्जानासि दैवं हि तथाप्रभावम् ॥ २.२२.३० ॥
啊,罗什曼那,在这阻碍我王位的事情上,不可怀疑小母亲。父亲也是被命运所困,绝非其他原因。你知道命运有如此的力量。