ヴァールミーキのラーマーヤナ · サルガ 2.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.24.1
तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने।
कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ २.२४.१ ॥
父の命に従う彼の固い決意を見て、涙にむせぶカウサリヤーは、この正しい言葉を語った。
2.24.2
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः।
मयि जातो दशरथात् कथमुञ्छेन वर्तयेत् ॥ २.२४.२ ॥
悲しみを知らず、心正しく、すべての生き物に優しく語る彼、ダシャラタとの間に私に生まれた彼が、どうして落穂を拾って生きていけるだろうか。
2.24.3
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते।
कथं स भोक्ष्यते रामो वने मूलफलान्ययम् ॥ २.२४.३ ॥
召使や下僕さえ上等の食事をとる彼、ラーマは森で根や果実をどうして食べるのだろうか。
2.24.4
क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम्।
गुणवान् दयितो राज्ञः काकुत्स्थो यद् विवास्यते ॥ २.२४.४ ॥
これを聞いて誰が信じられようか、誰が恐れを抱かずにいられようか。徳高く王に愛されるカークツスタが追放されるとは。
2.24.5
नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन्।
लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ २.२४.५ ॥
まことに世の中では運命こそ強大で、すべてを命じている。世界の喜びであるラーマよ、お前は森へ行くのだ。
2.24.6
अयं तु मामात्मभवस्तवादर्शनमारुतः।
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥ २.२४.६ ॥
お前の姿が見えないこの風が、嘆きと悲しみの薪で私、お前を生んだ母を燃やしている。流れる涙はその中へ供物として注がれる。
2.24.7
चिन्ताबाष्पमहाधूमस्तवागमनचिन्तजः।
कर्शयित्वाधिकं पुत्र निःश्वासायाससम्भवः ॥ २.२४.७ ॥
息子よ、お前の帰還を思う憂いから生じた、憂いと涙の大きな煙が、溜息と疲れから立ち上り、私をひどく痩せ衰えさせている。
2.24.8
त्वया विहीनामिह मां शोकाग्निरतुलो महान्।
प्रधक्ष्यति यथा कक्ष्यं चित्रभानुर्हिमात्यये ॥ २.२४.८ ॥
ここでお前に別れられた私を、比類なき大きな悲しみの炎が、冬の終わりに太陽が枯草を焼くように、すっかり焼き尽くすでしょう。
2.24.9
कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति।
अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि ॥ २.२४.९ ॥
牛はどうして、歩み去る自分の子牛に従わずにいられるでしょう。だから子よ、お前が行くところなら、私もお前に従って行きます。
2.24.10
यथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः।
श्रुत्वा रामोऽब्रवीद् वाक्यं मातरं भृशदुःखिताम् ॥ २.२४.१० ॥
母が言ったその言葉を聞いて、男子の中の雄牛であるラーマは、ひどく悲しむ母にこの言葉を告げた。
2.24.11
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते।
भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ २.२४.११ ॥
私が森へ入ったあと、カイケーイーに欺かれた王は、あなたにも見捨てられたら、必ずや生き延びないでしょう。
2.24.12
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः।
स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥ २.२४.१२ ॥
夫を捨てることは、女にとってただ残酷な行いです。あなたがそれを行ってはならない。心の中で思うことさえ非難されるのです。
2.24.13
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः।
शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः ॥ २.२४.१३ ॥
カークツトゥハ、大地の主である私の父が生きている限り、その奉仕を行うべきである。それこそが永遠のダルマである。
2.24.14
एवमुक्ता तु रामेण कौसल्या शुभदर्शना।
तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ २.२४.१४ ॥
ラーマにこう言われ、吉相のカウサリヤーは大いに喜び、苦もなく務めを果たすラーマに言った。「そうしましょう。」
2.24.15
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः।
भूयस्तामब्रवीद् वाक्यं मातरं भृशदुःखिताम् ॥ २.२४.१५ ॥
こう言われたラーマは、法を奉じる者の中で最も優れた者として、深く悲しむ母に再びこの言葉を告げた。
2.24.16
मया चैव भवत्या च कर्तव्यं वचनं पितुः।
राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ २.२४.१६ ॥
私もあなたも父の言葉を果たさねばなりません。王こそが夫であり、師であり、最高の者であり、万人の主であり支配者です。
2.24.17
इमानि तु महारण्ये विहृत्य नव पञ्च च।
वर्षाणि परमप्रीत्या स्थास्यामि वचने तव ॥ २.२४.१७ ॥
この大森林で十四年を過ごし、最高の愛情をもってあなたの言葉に従い続けましょう。
2.24.18
एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा।
उवाच परमार्ता तु कौसल्या सुतवत्सला ॥ २.२४.१८ ॥
こう言われたカウサリヤーは、涙に濡れた顔で、深く苦しみ、息子を慈しんで、愛する息子に語った。
2.24.19
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्।
नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव ॥ २.२४.१९ ॥
ラーマよ、この側室たちの中に住むことは私にはふさわしくありません。カクツトゥスタの末裔よ、森の雌鹿を連れて行くように、私も森へ連れて行ってください。
2.24.20
यदि ते गमने बुद्धिः कृता पितरपेक्षया।
तां तथा रुदतीं रामो रुदन् वचनमब्रवीत् ॥ २.२४.२० ॥
もしあなたが父への敬意から森へ行く決心をしたのなら、と、泣いている母に、ラーマもまた泣きながらこう言った。
2.24.21
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च।
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ २.२४.२१ ॥
生きている女性にとって、夫こそが神であり主人です。今日、あなたにとっても私にとっても、主人は王なのです。
2.24.22
न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता।
भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ॥ २.२४.२२ ॥
賢明な世界の主である王がおられるので、私たちは見捨てられてはいません。また、法に篤く、すべての生き物に優しく語るバラタもいます。
2.24.24
भवतीमनुवर्तेत स हि धर्मरतः सदा।
दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ॥ २.२४.२४ ॥
彼は法を喜ぶ者ですから、いつもあなたに仕えるでしょう。この酷い悲しみが彼を滅ぼしませんように。
2.24.25
राज्ञो वृद्धस्य सततं हितं चर समाहिता।
व्रतोपवासनिरता या नारी परमोत्तमा ॥ २.२४.२५ ॥
年老いた王の幸せに、常に心を集中して尽くしなさい。誓願と断食に励む女性こそ、最も優れた女性です。
2.24.26
भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्।
भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् ॥ २.२४.२६ ॥
夫に従わない女は罪深い道に落ちる。夫に仕えることによって、女は最高の天界を得る。
2.24.27
अपि या निर्नमस्कारा निवृत्ता देवपूजनात्।
शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ॥ २.२४.२७ ॥
神々への礼拝を避け、礼をもしない女であっても、夫の喜びと利益に専念し、ただ夫に仕えるべきである。
2.24.28
एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः।
अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥ २.२४.२८ ॥
これは女性の永遠の義務であり、ヴェーダと世に聞こえ、伝承に記されている。火の祭儀において、また常に花で神々を敬うべきである。
2.24.29
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः।
एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी ॥ २.२४.२९ ॥
女王よ、私のために、バラモンたちは敬われるべきである。敬意をもって遇せよ。こうして私の帰還を望みながら、時を待て。
2.24.30
नियता नियताहारा भर्तृशुश्रूषणे रता।
प्राप्स्यसे परमं कामं मयि पर्यागते सति ॥ २.२४.३० ॥
自制し、食を節制し、夫に仕えることに専念すれば、私が帰還したとき、おまえは最高の願いを得るであろう。
2.24.31
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्।
एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा ॥ २.२४.३१ ॥
法を守る者の中で最も優れた(ラーマ)が命を保つならば……ラーマにこう言われ、涙にあふれた目の(シーター)……
2.24.32
कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्।
गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक ॥ २.२४.३२ ॥
息子への悲しみに苦しむカウシャリヤーはラーマに言った。「息子よ、お前の固い決意を私には変えることができない。」
2.24.33
विनिवर्तयितुं वीर नूनं कालो दुरत्ययः।
गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो ॥ २.२४.३३ ॥
英雄よ、まことに時を逆戻りさせることは難しい。息子よ、一心に行け。偉大な君よ、いつも幸せであれ。
2.24.34
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा।
प्रत्यागते महाभागे कृतार्थे चरितव्रते।
पितुरानृण्यतां प्राप्ते स्वपिष्ये परमं सुखम् ॥ २.२४.३४ ॥
お前がまた戻ってくれば、私は疲れから解放されるでしょう。大いに幸運なお前よ、誓いを果たし、目的を成し遂げ、父への負い目を返して帰ってきたなら、私は至上の幸せのうちに眠ることでしょう。
2.24.35
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि।
यस्त्वां संचोदयति मे वच आविध्य राघव ॥ २.२४.३५ ॥
息子よ、死の道は地上では常に理解しがたい。ラーガヴァよ、私の言葉を退けてお前を駆り立てているのは、運命というものだ。
2.24.36
गच्छेदानीं महाबाहो क्षेमेण पुनरागतः।
नन्दयिष्यसि मां पुत्र साम्ना श्लक्ष्णेन चारुणा ॥ २.२४.३६ ॥
さあ行きなさい、大きな腕の者よ、無事に再び帰っておいで。息子よ、お前は甘く穏やかで愛らしい言葉で私を喜ばせてくれるでしょう。
2.24.37
अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः।
यत् त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ २.२४.३७ ॥
息子よ、お前が森から戻り、ジャタ(もつれた髪)と樹皮の衣をまとった姿を、私が再び見る時は来るのでしょうか。
2.24.38
तथा हि रामं वनवासनिश्चितं
ददर्श देवी परमेण चेतसा।
उवाच रामं शुभलक्षणं वचो
बभूव च स्वस्त्ययनाभिकांक्षिणी ॥ २.२४.३८ ॥
王妃は森への追放を決意したラーマを、この上なく慈しみに満ちた心で見つめた。そして吉兆の相を備えたラーマに語りかけ、彼の幸福を願って祝福を与えようとした。