Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.29.1

एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ २.२९.१ ॥

悉多听了罗摩的这些话,满面泪水,痛苦地轻声说道:

2.29.2

ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।
गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता ॥ २.२९.२ ॥

你所说的在森林中居住的种种过失,请把它们当作优点来看待;我因受你的深情所驱使而这样说。

2.29.3

मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा।
चमराः सृमराश्चैव ये चान्ये वनचारिणः ॥ २.२९.३ ॥

鹿、狮子、大象、老虎、沙罗婆、遮摩罗、苏摩罗,以及其他在林中游荡的野兽——

2.29.4

अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव।
रूपं दृष्ट्वापसर्पेयुस्तव सर्वे हि बिभ्यति ॥ २.२९.४ ॥

罗怙婆啊,它们从未见过你这样的形象,见到你的形貌,它们都会逃散;它们确实都会感到恐惧。

2.29.5

त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ २.२९.५ ॥

罗摩啊,遵照长辈的命令,我也必须与你同行;若与你分离,我便要在此舍弃生命。

2.29.6

नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव।
सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा ॥ २.२९.६ ॥

罗怙婆啊,即便是诸天之主帝释,也无法凭武力侵害站在你身边的我。

2.29.7

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।
काममेवंविधं राम त्वया मम निदर्शितम् ॥ २.२९.७ ॥

失去丈夫的女子无法活下去。啊,罗摩,你向我指明的正是这样的道路。

2.29.8

अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ २.२९.८ ॥

啊,大智慧者,昔日在父亲家中,我从婆罗门那里听说,我确实应当在森林中居住。

2.29.9

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे।
वनवासकृतोत्साहा नित्यमेव महाबल ॥ २.२९.९ ॥

啊,大力者,我在家中聆听那些通晓吉兆的再生婆罗门的话语,因此一直渴望森林的流放。

2.29.10

आदेशो वनवासस्य प्राप्तव्यः स मया किल।
सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा ॥ २.२९.१० ॥

我必定要获得森林流放的命令。啊,爱人,我将与你同行,我的夫君;不会有别的选择。

2.29.11

कृतादेशा भविष्यामि गमिष्यामि त्वया सह।
कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः ॥ २.२९.११ ॥

接到命令后,我将与你同行。此时已经到来;啊,再生者,愿那些话语成真。

2.29.12

वनवासे हि जानामि दुःखानि बहुधा किल।
प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ २.२९.१२ ॥

啊,英雄,我知道在森林流放中,那些未能自我克制的人必定会遭遇种种苦难。

2.29.13

कन्यया च पितुर्गेहे वनवासः श्रुतो मया।
भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः ॥ २.२९.१३ ॥

我还是少女时,在父亲家中听说过住在森林中的事,那是关于一位品行安宁的女乞丐,就在我母亲面前。

2.29.14

प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो।
गमनं वनवासस्य कांक्षितं हि सह त्वया ॥ २.२९.१४ ॥

夫君啊,我早已多次恳求您;与您一同前往森林流放,正是我所渴望的。

2.29.15

कृतक्षणाहं भद्रं ते गमनं प्रति राघव।
वनवासस्य शूरस्य मम चर्या हि रोचते ॥ २.२९.१५ ॥

啰伽婆啊,愿您吉祥;我已决意前往。在森林流放中像勇士一般过这样的生活,正合我意。

2.29.16

शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा।
भर्तारमनुगच्छन्ती भर्ता हि परदैवतम् ॥ २.२९.१६ ॥

纯洁之人啊,出于爱的心意,我将免于罪过,跟随丈夫前行;因为丈夫就是至高的神。

2.29.17

प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया।
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ २.२९.१७ ॥

即使在来世,我与您的结合也将永远吉祥;这在名望卓著的婆罗门的圣典中也有所闻。

2.29.18

इहलोके च पितृभिर्या स्त्री यस्य महाबल।
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ २.२९.१८ ॥

大力者啊,在此世由父亲们依其本分、以水为凭许配给某人的女子,即使在来世也仍属于他。

2.29.19

एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्।
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥ २.२९.१९ ॥

这样,你不愿带我这位品行端正、忠贞的妻子离开此地;你为何不愿带我从这里走?

2.29.20

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।
नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥ २.२९.२० ॥

啊,迦具私他!我对你忠贞虔敬,满怀忧伤,与你同甘共苦,你理应带我同去。

2.29.21

यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।
विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् ॥ २.२९.२१ ॥

若你不愿在我这般悲伤之时带我去林中,我将为求死而服毒、投火或投水。

2.29.22

एवं बहुविधं तं सा याचते गमनं प्रति।
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २.२९.२२ ॥

她如此多方恳求他同行,但这位臂力强大的人不同意带她进入荒僻的森林。

2.29.23

एवमुक्ता तु सा चिन्तां मैथिली समुपागता।
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ २.२९.२३ ॥

听了这些话,弥提罗公主陷入深深的忧虑,她的眼中滚落热泪,仿佛要用泪水洗遍大地。

2.29.24

चिन्तयन्तीं तदा तां तु निवर्तयितुमात्मवान्।
क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत् ॥ २.२९.२४ ॥

于是自制的迦具私他看到沉思又被愤怒占据的毗提诃公主,便多方安慰,设法让她平静下来。