Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.31.1

एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः।
बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ २.३१.१ ॥

拉克什曼早先已到,听到他们的这番对话,泪流满面,无法忍受悲痛。

2.31.2

स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः।
सीतामुवाचातियशां राघवं च महाव्रतम् ॥ २.३१.२ ॥

罗怙之喜悦者紧紧按住兄长的双足,对极其荣耀的悉多和持大愿的罗摩说道。

2.31.3

यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्।
अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥ २.३१.३ ॥

若你决意前往这座有鹿群和成千上万头大象的森林,那么我将手持弓箭走在前面,跟随你前行。

2.31.4

मया समेतोऽरण्यानि रम्याणि विचरिष्यसि।
पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ २.३१.४ ॥

你将与我一同漫游在可爱的森林中,四面八方回荡着鸟鸣与鹿群的声音。

2.31.5

न देवलोकाक्रमणं नामरत्वमहं वृणे।
ऐश्वर्यं चापि लोकानां कामये न त्वया विना ॥ २.३१.५ ॥

我不愿征服天界,也不求长生不死;没有你,即便是统治诸世界的权柄我也不愿要。

2.31.6

एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः।
रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ २.३१.६ ॥

萨乌弥特里决意随行入林,罗摩以许多安慰之言劝阻他,他便又开口说道。

2.31.7

अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम्।
किमिदानीं पुनरपि क्रियते मे निवारणम् ॥ २.३१.७ ॥

您先前已经准许了我,我本就是如此。现在为何又要再次阻止我?

2.31.8

यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः।
एतदिच्छामि विज्ञातुं संशयो हि ममानघ ॥ २.३१.८ ॥

我想知道,我想要前往,却被阻止的原因何在。无罪者啊,我心中有疑惑。

2.31.9

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।
स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम् ॥ २.३१.९ ॥

于是光辉伟大的罗摩对站在面前、准备出发、坚定、合掌恳求的罗什曼那说道。

2.31.10

स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः।
प्रियः प्राणसमो वश्यो विजेयश्च सखा च मे ॥ २.३१.१० ॥

他温和,喜爱法,坚定,始终立于善道,亲爱,如同我的生命,顺从,容易被感化,是我的朋友。

2.31.11

मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्।
को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ २.३१.११ ॥

苏弥special之子啊,若你今日与我同往那片森林,谁来侍奉光荣的考莎利亚与苏弥特拉?

2.31.12

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव।
स कामपाशपर्यस्तो महातेजा महीपतिः ॥ २.३१.१२ ॥

那位光辉伟大的君主,如同雨云向大地降雨一般向人倾注欲望,却被欲望的罗网缠住而倒下。

2.31.13

सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता।
दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ २.३१.१३ ॥

她是阿希瓦帕蒂王之女,得到此王国后,不会善待那些悲伤的庶母们。

2.31.14

न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्।
भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ २.३१.१४ ॥

婆罗多获得王国后,受制于吉迦叶伊,不会供养憍萨厘和极度悲伤的苏弥特拉。

2.31.15

तामार्यां स्वयमेवेह राजानुग्रहणेन वा।
सौमित्रे भर कौसल्यामुक्तमर्थममुं चर ॥ २.३१.१५ ॥

苏弥特里啊,你亲自在此供养那位尊贵的憍萨厘,或借国王的恩泽供养;去完成我所说的这件事。

2.31.16

एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता।
धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ २.३१.१६ ॥

如此,你对我的忠诚将得到充分显示;而尊敬通晓法的师长,也有无与伦比的大法。

2.31.17

एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन।
अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम् ॥ २.३१.१७ ॥

苏弥特里啊,罗怙之喜,请为我这样做;与我们分离的我们的母亲,将得不到幸福。

2.31.18

एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।
प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ २.३१.१८ ॥

罗摩以温和的话语如此说完后,懂得言辞的罗什曼那便回答了精通言辞的罗摩。

2.31.19

तवैव तेजसा वीर भरतः पूजयिष्यति।
कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः ॥ २.३१.१९ ॥

勇士啊,凭借你的光辉,婆罗多必定会尊敬考莎利雅和苏弥special(苏弥特拉);这没有疑问。

2.31.20

यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्।
प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः ॥ २.३१.२० ॥

勇士啊,若心怀恶意的婆罗多得到这至高王国后却不加守护,尤其因心术不正和骄傲——

2.31.21

तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः।
तत्पक्षानपि तान् सर्वांस्त्रैलोक्यमपि किं तु सा ॥ २.३१.२१ ॥

那个心怀恶念的残暴之人,我必定杀之,毫无疑问;他的所有党羽,即使在三界之中,也一并杀尽——至于她呢?

2.31.22

कौसल्या बिभृयादार्या सहस्रं मद्विधानपि।
यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम् ॥ २.३१.२२ ॥

高贵的考莎利雅即使养活千名如我者也绰绰有余;她拥有千个村庄,所得之物供依靠她生活的人享用。

2.31.23

तदात्मभरणे चैव मम मातुस्तथैव च।
पर्याप्ता मद्विधानां च भरणाय मनस्विनी ॥ २.३१.२३ ॥

因此,那位心胸高尚的夫人足以供养她自己、我的母亲,也足以供养像我这样的人。

2.31.24

कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते।
कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते ॥ २.३१.२४ ॥

请让我成为您的随从;这里并无不义。我将成就己愿,您的心愿也将得以实现。

2.31.25

धनुरादाय सगुणं खनित्रपिटकाधरः।
अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन् ॥ २.३१.२५ ॥

我手持张弦之弓,背负铁锹与竹篮,走在你的前面为你指路。

2.31.26

आहरिष्यामि ते नित्यं मूलानि च फलानि च।
वन्यानि च तथान्यानि स्वाहार्हाणि तपस्विनाम् ॥ २.३१.२६ ॥

我将常为你带来根茎、果实以及林中出产的其他物品,适合苦修者用于祭祀供奉。

2.31.27

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे।
अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ २.३१.२७ ॥

你将与韦德希在山坡上快乐地生活;无论你醒着还是睡着,我都会为你做好一切。

2.31.28

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्।
व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ २.३१.२८ ॥

罗摩听了这番话非常高兴,回答他说:“苏弥特拉之子啊,去吧,向你所有的亲友告别。”

2.31.29

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्।
जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २.३१.२९ ॥

在遮那迦的大祭典上,大德伐楼那亲自赠予国王的两张神圣而外形可怖的弓,

2.31.30

अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायकौ।
आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ ॥ २.३१.३० ॥

两副坚不可摧的神圣铠甲,两个装有取之不尽之箭的箭囊,以及两把如纯净太阳般明亮、镶嵌黄金的宝剑。

2.31.31

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि।
सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥ २.३१.३१ ॥

罗什曼那啊,把这一切恭敬地存放在老师的家中,取上所有兵器,快快回来。

2.31.32

स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः।
इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ २.३१.३२ ॥

他决心前往森林流放,向朋友们告别后,前往伊克ṣ瓦库的导师处,接过了上好的兵器。

2.31.33

तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्।
रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ २.३१.३३ ॥

王中之虎苏弥德丽,将那些以花环装饰、恭敬备好的神圣兵器全部展示给罗摩看。

2.31.34

तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्।
काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण ॥ २.३१.३४ ॥

自制的罗摩满怀爱意地对前来的罗什曼那说:“温和的罗什曼那啊,你正好在我所期盼的时候来了。”

2.31.35

अहं प्रदातुमिच्छामि यदिदं मामकं धनम्।
ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥ २.३१.३५ ॥

啊,灭敌者!我想与你一起,把我这些财富布施给婆罗门和苦行者。

2.31.36

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः।
तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ २.३१.३६ ॥

给这里那些对师长怀着虔诚、坚定居住的再生者中的上等人,也给他们,并给所有依靠我生活的人。

2.31.37

वसिष्ठपुत्रं तु सुयज्ञमार्यं
त्वमानयाशु प्रवरं द्विजानाम्।
अपि प्रयास्यामि वनं समस्ता-
नभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ २.३१.३७ ॥

请你速将伐悉瑟陀之子苏耶若那——那位尊贵的、再生者中最优秀的人——带到这里来。在礼敬了所有人以及其他有德的再生者之后,我将前往森林。