蚁垤《罗摩衍那》 · 篇 2.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.34.1
ततः कमलपत्राक्षः श्यामो निरुपमो महान्।
उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ २.३४.१ ॥
于是莲花瓣般眼睛、肤色深黑、无与伦比的伟大罗摩对御者说:"请告诉我父王的消息。"
2.34.2
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्।
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥ २.३४.२ ॥
罗摩所派的御者迅速进入宫殿,看见国王因悲伤而心神迷乱,正在长叹。
2.34.3
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।
तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ २.३४.३ ॥
他看见大地之主如同日食的太阳、被灰烬覆盖的火、无水的池塘。
2.34.4
आबोध्य च महाप्राज्ञः परमाकुलचेतनम्।
राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत् ॥ २.३४.४ ॥
那位大智慧的御者唤醒心神极度烦乱、只为罗摩悲伤的国王,合掌说道。
2.34.5
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा।
भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत् ॥ २.३४.५ ॥
御者先以胜利的祝福向国王致意,然后以因恐惧而颤抖、柔和而迟缓的声音说话。
2.34.6
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥ २.३४.६ ॥
"那位人中之虎、你的儿子罗摩,正站在门口;他把财富施予婆罗门,也把一切都给了依靠他的人。"
2.34.7
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः।
सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते ॥ २.३४.७ ॥
愿他能见到你,愿你吉祥。真勇之罗摩已向所有朋友告别,如今想要见你。
2.34.8
गमिष्यति महारण्यं तं पश्य जगतीपते।
वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ २.३४.८ ॥
请看他吧,大地之主:他将进入大森林,被一切王者之德环绕,如太阳被其光芒环绕。
2.34.9
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः।
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ २.३४.९ ॥
那位言语诚实、心怀正法的国王,深邃如大海,清净如虚空,向他回答道。
2.34.10
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥ २.३४.१० ॥
苏曼特罗,把我这里的妃子们都带来。我想在所有妃子的环绕下,见到罗怙后裔。
2.34.11
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।
आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम् ॥ २.३४.११ ॥
他进入内宫,对那些女子说道:“尊贵的君王召唤你们;速往那里去,不可耽搁。”
2.34.12
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया।
प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम् ॥ २.३४.१२ ॥
苏曼特罗奉国王之命如此传达,众女子明白了夫君的命令,便向那宫殿走去。
2.34.13
अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः।
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ २.३४.१३ ॥
那里的七百五十名女子,眼睛通红,持守誓愿,围绕着考萨利亚,缓缓离去。
2.34.14
आगतेषु च दारेषु समवेक्ष्य महीपतिः।
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥ २.३४.१४ ॥
妃子们到来后,国王看见了,对御者说:“须摩多罗,把我的儿子带来。”
2.34.15
स सूतो राममादाय लक्ष्मणं मैथिलीं तथा।
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ २.३४.१५ ॥
那御者带着罗摩、罗什曼那和弥提罗女,迅速径直前往大地之主的面前。
2.34.16
स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्।
उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः ॥ २.३४.१६ ॥
国王远远看见儿子合掌走来,心中悲痛,被众女围绕,急忙从座位上跃起。
2.34.17
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।
तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः ॥ २.३४.१७ ॥
众生之主看见罗摩,急速朝他奔去;因悲痛而痛苦地赶到他身边,便昏厥倒在地上。
2.34.18
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः।
विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा ॥ २.३४.१८ ॥
罗摩与大勇士罗什曼那迅速奔向国王,他因悲痛几乎失去知觉,满怀忧伤。
2.34.19
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि।
हा हा रामेति सहसा भूषणध्वनिमिश्रितः ॥ २.३४.१९ ॥
王宫中忽然响起千名女子的哭声:“哎呀,罗摩!哎呀,罗摩!”,与饰物的叮当声交织在一起。
2.34.20
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥ २.३४.२० ॥
罗摩与罗什曼那二人都用双臂拥抱他,与悉多一同哭泣,将他扶坐在床榻上。
2.34.21
अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्।
उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम् ॥ २.३४.२१ ॥
此时罗摩合掌向国王开口。国王片刻后恢复了知觉,却仍沉没在泪水与悲痛的海洋之中。
2.34.22
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः।
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ २.३४.२२ ॥
大王,我向您辞行。您是我们所有人的主宰。请您平安地目送我前往檀陀迦森林吧。
2.34.23
लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्।
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ २.३४.२३ ॥
请允许罗什曼那同行,也让悉多随我入林。虽然有许多确凿的理由加以劝阻,他们二人却都不愿改变心意。
2.34.24
अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद।
लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान् ॥ २.३४.२४ ॥
赐人尊荣的大王,请舍弃悲忧,允许我们所有人离去:罗什曼那、我与悉多,正如创造主允许自己的儿子们一样。
2.34.25
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।
उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ॥ २.३४.२५ ॥
国王看着平静等待前往森林许可的罗怙后裔(罗摩),说道:
2.34.26
अहं राघव कैकेय्या वरदानेन मोहितः।
अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥ २.३४.२६ ॥
罗怙后裔啊,我因吉迦伊的恩赐而迷惑。现在你应当在阿逾陀挽留我,自己成为国王。
2.34.27
एवमुक्तो नृपतिना रामो धर्मभृतां वरः।
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २.३४.२७ ॥
国王如此说后,精通言辞、持守法度中最优秀的罗摩合掌回答父亲。
2.34.28
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः।
अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता ॥ २.३४.२८ ॥
国王啊,愿您统治大地一千年。我将居住在森林中;我并不渴望王国。
2.34.29
नव पञ्च च वर्षाणि वनवासे विहृत्य ते।
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥ २.३४.२९ ॥
人主啊,在森林中度过十四年,誓言完成之时,我将再次抱住您的双足。
2.34.30
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः।
कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ २.३४.३० ॥
国王被真理的绳索所缚,悲痛哭泣,受吉迦伊的催促,低声对他心爱的儿子说道。
2.34.31
श्रेयसे वृद्धये तात पुनरागमनाय च।
गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ २.३४.३१ ॥
孩子啊,为了你的安康、昌盛和归来,请安心地走那条无所畏惧的道路吧。
2.34.32
न हि सत्यात्मनस्तात धर्माभिमनसस्तव।
संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ २.३४.३२ ॥
孩子啊,你以真实为本性、心志专注于正法,你的决心无法被改变,罗怙之喜啊。
2.34.33
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा।
एकाहं दर्शनेनापि साधु तावच्चराम्यहम् ॥ २.३४.३३ ॥
孩子啊,今夜无论如何也不要走。只要一天,让我看着你,稍稍安心地度过。
2.34.34
मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्।
तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि ॥ २.३४.३४ ॥
看着你的母亲和我,在此度过今夜吧。满足了一切心愿,明早你便能成就你的事。
2.34.35
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय।
त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम् ॥ २.३४.३५ ॥
孩子啊,罗怙之子啊,我所爱的人!你所做的确实艰难。正是为了让我高兴,你才这样投身于森林。
2.34.36
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव।
छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया ॥ २.३४.३६ ॥
孩子啊,罗怙之子啊!我以真理发誓,这并非我所愿。我是被那个像灰烬中隐藏之火的狡诈女人所迫使而动摇的。
2.34.37
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।
अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः ॥ २.३४.३७ ॥
你想摆脱我给你造成的这场欺骗,却被破坏正道的凯凯伊所驱使。
2.34.38
न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम।
अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ २.३४.३८ ॥
你是我的长子,你想让父亲说谎,这并不是最令人惊讶的事,我的儿子。
2.34.39
अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्।
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ २.३४.३९ ॥
此时罗摩听了父亲悲伤的话,与弟弟罗什曼那一同沮丧地说了这些话。
2.34.40
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।
अपक्रमणमेवातः सर्वकामैरहं वृणे ॥ २.३४.४० ॥
今天我能得到的功德,明天谁会给我呢?因此,我带着全部的愿望,选择离去。
2.34.41
इयं सराष्ट्रा सजना धनधान्यसमाकुला।
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ २.३४.४१ ॥
这片土地,连同其国土与人民,充满财富与谷物,由我放弃,愿它交给婆罗多。
2.34.42
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति।
यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया ॥ २.३४.४२ ॥
我前往森林的决心今天不会动摇。而你,赐予恩惠的人啊,你在战斗中赐给凯凯伊的恩惠——。
2.34.43
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव।
अहं निदेशं भवतो यथोक्तमनुपालयन् ॥ २.३४.४३ ॥
国王啊,所许之物请全部给予;愿您守持真实。我必按照您所说的命令而遵行。
2.34.44
चतुर्दश समा वत्स्ये वने वनचरैः सह।
मा विमर्शो वसुमती भरताय प्रदीयताम् ॥ २.३४.४४ ॥
十四年间我将与林中之人同住于森林。不要犹豫;愿将大地交予婆罗多。
2.34.45
नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम्।
यथानिदेशं कर्तुं वै तवैव रघुनन्दन ॥ २.३४.४५ ॥
罗怙之喜悦者啊,我既不愿要王国,也不愿为自己求安乐与所爱之物;我唯一的愿望是遵行您的命令。
2.34.46
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।
नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥ २.३४.४६ ॥
愿您的悲伤消散;不要沉溺于泪水之中。诸河之主大海,无人能令其动摇。
2.34.47
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्।
नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम् ॥ २.३४.४७ ॥
我既不想要王国,也不想要安乐与这大地;不想要这一切欲望,不想要天堂,甚至不想要生命。
2.34.48
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ।
प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ २.३४.४८ ॥
人中之雄啊,我只愿从您那里得到真实,而非虚假;我以您的真实与善行向您起誓。
2.34.49
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो।
स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः ॥ २.३४.४९ ॥
父亲啊,主上啊,我一刻也不能留在这里。请不要承受这份悲伤,我的决定不会改变。
2.34.50
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव।
मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ २.३४.५० ॥
罗怙之子啊,凯凯依请求我前往森林,我也曾说过我会去。我将遵守这一诺言。
2.34.51
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्।
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥ २.३४.५१ ॥
陛下啊,请不要忧虑。在森林里,那里满是安静的鹿群,回荡着各种鸟儿的鸣叫,我们将会找到快乐。
2.34.52
पिता हि दैवतं तात देवतानामपि स्मृतम्।
तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः ॥ २.३४.५२ ॥
父亲啊,父亲就是神明;即使在诸神之中,父亲也被视为神明。因此,我以“父亲即是我的神明”为念,将遵从父亲的吩咐。
2.34.53
चतुर्दशसु वर्षेषु गतेषु नृपसत्तम।
पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम् ॥ २.३४.५३ ॥
诸王之中最尊贵的啊,待十四年过去,您将再次见到归来的我。因此,请放下这份忧伤吧。
2.34.54
येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः।
स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः ॥ २.३४.५४ ॥
人中之虎啊,这些泪流满面的人都应由您来安慰稳定,您为何竟如此失态动摇了呢?
2.34.55
पुरं च राष्ट्रं च मही च केवला
मया विसृष्टा भरताय दीयताम्।
अहं निदेशं भवतोऽनुपालयन्
वनं गमिष्यामि चिराय सेवितुम् ॥ २.३४.५५ ॥
城市、王国以及整个大地,既已由我舍弃,便交给婆罗多吧。我遵从你的命令,将前往森林长久居住。
2.34.56
मया विसृष्टां भरतो महीमिमां
सशैलखण्डां सपुरोपकाननाम्।
शिवासु सीमास्वनुशास्तु केवलं
त्वया यदुक्तं नृपते तथास्तु तत् ॥ २.३४.५६ ॥
愿婆罗多在吉祥的边界之内,全面统治我所舍弃的这片大地,包括其山岭、城市与园林。陛下,愿您所说的一切如此实现。
2.34.57
न मे तथा पार्थिव धीयते मनो
महत्सु कामेषु न चात्मनः प्रिये।
यथा निदेशे तव शिष्टसम्मते
व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ २.३४.५७ ॥
陛下,我的心并不像专注于智者所认可的您的命令那样,专注于大的欲望,也不专注于我自己,亲爱的。无瑕之人啊,愿您的忧愁因我而消散。
2.34.58
तदद्य नैवानघ राज्यमव्ययं
न सर्वकामान् वसुधां न मैथिलीम्।
न चिन्तितं त्वामनृतेन योजयन्
वृणीय सत्यं व्रतमस्तु ते तथा ॥ २.३४.५८ ॥
因此,无瑕之人啊,今日我既不想要不朽的王国,也不想要一切欲望、大地,或弥提利;我也不会把您与虚妄联系起来思考。我选择真实;愿您的誓言如此成就。
2.34.59
फलानि मूलानि च भक्षयन् वने
गिरींश्च पश्यन् सरितः सरांसि च।
वनं प्रविश्यैव विचित्रपादपं
सुखी भविष्यामि तवास्तु निर्वृतिः ॥ २.३४.५९ ॥
在森林中食用果实和根茎,观赏山岭、河流与湖泊,进入这片树木繁多的森林,我将快乐。愿你安宁。
2.34.60
एवं स राजा व्यसनाभिपन्न-
स्तापेन दुःखेन च पीड्यमानः।
आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो
भूमिं गतो नैव चिचेष्ट किंचित् ॥ २.३४.६० ॥
国王遭此灾难,备受忧愁与悲痛折磨,拥抱着儿子,彻底失去了知觉,倒在地上,丝毫不动。
2.34.61
देव्यः समस्ता रुरुदुः समेता-
स्तां वर्जयित्वा नरदेवपत्नीम्।
रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां
हाहाकृतं तत्र बभूव सर्वम् ॥ २.३४.६१ ॥
聚集的所有王后都哭了起来,唯独国王的正妻(考莎利亚)例外;苏曼特罗也哭着昏厥过去,四处响起“哎呀”的哀号。