蚁垤《罗摩衍那》 · 篇 2.36
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.36.1
ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।
सबाष्पमतिनिःश्वस्य जगादेदं पुनर्वचः ॥ २.३६.१ ॥
于是伊克瓦库国王因其誓言而痛苦,含泪深深叹息,再次对苏曼特拉说出了这些话。
2.36.2
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः।
राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २.३६.२ ॥
御者啊,让装满珍宝的四军迅速准备好,去追随罗怙后裔(罗摩)。
2.36.3
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः।
शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः ॥ २.३६.३ ॥
靠姿色谋生的女子、女乐手,以及富有的商人,让那些广布的队伍为王子增添光彩。
2.36.4
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।
तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ २.३६.४ ॥
对那些依靠他生活、因他的勇力而欢喜的人,给予多种赏赐,也把他们安排在此处。
2.36.5
आयुधानि च मुख्यानि नागराः शकटानि च।
अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः ॥ २.३६.५ ॥
让主要的兵器、城中居民和车辆跟随Kākutstha(罗摩),也让熟悉森林之道的猎人一同前往。
2.36.6
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु।
नदीश्च विविधाः पश्यन् न राज्यं संस्मरिष्यति ॥ २.३६.६ ॥
他猎杀鹿与象,饮用林中的蜂蜜,观赏各色河流,便不会再想起王国了。
2.36.7
धान्यकोशश्च यः कश्चिद् धनकोशश्च मामकः।
तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ २.३६.७ ॥
凡我所有的粮仓与财库,愿它们都随着居于荒林之中的罗摩而去。
2.36.8
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।
ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने ॥ २.३६.८ ॥
他将在圣地举行祭祀,奉献应有的布施,与仙人相聚,在林中安然居住。
2.36.9
भरतश्च महाबाहुरयोध्यां पालयिष्यति।
सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति ॥ २.३६.९ ॥
大臂的婆罗多将守护阿逾陀;愿光荣的罗摩一切所愿皆得满足。
2.36.10
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्।
मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत ॥ २.३६.१० ॥
迦古特斯特王如此说时,吉迦伊心中生出恐惧;她的脸变得干涩,声音也哽咽了。
2.36.11
सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ २.३६.११ ॥
吉迦伊满心沮丧与惊惧,面容枯槁,转向国王说出了这些话。
2.36.12
राज्यं गतधनं साधो पीतमण्डां सुरामिव।
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ २.३६.१२ ॥
善人啊,失去财富的王国,如同饮尽了酒渣的美酒,极其寡淡而空虚;婆罗多不会想要它。
2.36.13
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।
राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ २.३६.१३ ॥
当失去羞耻的吉凯伊说出极其残酷的话时,国王十车王对这位长眼睛的女子说道。
2.36.14
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते।
अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ २.३६.१४ ॥
你把我套上车轭让我背负,如今背负重担的我,你为何还要折磨?卑劣的女人啊,既已开始的事,为何先前不加阻止?
2.36.15
तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना।
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ २.३६.१५ ॥
这位高贵的女子吉凯伊听到国王愤怒说出的这些话,怒气加倍,对国王说道。
2.36.16
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्।
असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥ २.३६.१६ ॥
在你们自己的家族中,萨加罗曾放逐他的长子,名为阿萨曼贾;同样,这个人也理应离去。
2.36.17
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्।
व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत ॥ २.३६.१७ ॥
被这样说后,国王十车王说:“可耻!”所有人都感到羞愧,但她却没有明白。
2.36.18
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः।
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ २.३६.१८ ॥
那里,一位名叫悉达多的年迈大臣,品行纯洁,深受国王敬重,他对吉凯伊说道。
2.36.19
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्।
सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ २.३६.१९ ॥
阿萨曼遮抓住在路上玩耍的孩子,把他们抛入萨拉由河中;这个恶念之人以此为乐。
2.36.20
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्।
असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन ॥ २.३६.२० ॥
众市民见此大怒,对国王说:“国家的增益者啊,或选阿萨曼遮,或从我们中选一人。”
2.36.21
तानुवाच ततो राजा किंनिमित्तमिदं भयम्।
ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ २.३६.२१ ॥
于是国王对他们说:“这恐惧是因何而起?”国王问后,百姓便说出了这些话。
2.36.22
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतसः।
सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥ २.३६.२२ ॥
他在我们那些心神散乱的孩子玩耍时把他们抛入萨拉由河,出于愚昧,他获得了无与伦比的快乐。
2.36.23
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः।
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २.३६.२३ ॥
那位人主听了百姓的这些话,为了让他们高兴,便舍弃了那个有害的儿子。
2.36.24
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्।
यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता ॥ २.३६.२४ ॥
父亲迅速让他与妻子和随从一同登上车,并命令他们说:“此人应终身流放。”
2.36.25
स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्।
दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥ २.३६.२५ ॥
他拿起法拉皮塔卡袋,察看山中的堡垒;他四处游荡,仿佛是做了恶业的人。
2.36.26
इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः।
रामः किमकरोत् पापं येनैवमुपरुध्यते ॥ २.३६.२६ ॥
如此,极其正直的萨格拉王遗弃了他。罗摩犯了什么罪,以致受到这样的惩罚?
2.36.27
नहि कंचन पश्यामो राघवस्यागुणं वयम्।
दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ २.३६.२७ ॥
我们在罗伽瓦(罗摩)身上看不到任何过失;他的瑕疵就如同月亮上的污点一样难以找到。
2.36.28
अथवा देवि त्वं कंचिद् दोषं पश्यसि राघवे।
तमद्य ब्रूहि तत्त्वेन तदा रामो विवास्यते ॥ २.३६.२८ ॥
或者,女神啊,你是否在罗伽瓦身上看到什么过失?请现在如实说出,因为那样罗摩就会被流放。
2.36.29
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च।
निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान् ॥ २.३६.२९ ॥
抛弃一个不作恶、专注于正道的人,是违背法(达摩)的;这样的行为甚至能焚毁因陀罗的光辉。
2.36.30
तदलं देवि रामस्य श्रिया विहतया त्वया।
लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने ॥ २.३६.३० ॥
因此,女神啊,对于罗摩来说,这已经足够了,他的福运已被你毁坏。美颜的人啊,你也应当避免世人的非议。
2.36.31
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वरः।
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ २.३६.३१ ॥
国王听了悉达多的话,声音极为疲惫,以被悲痛击碎的话语对吉迦叶伊说了这番话。
2.36.32
एतद्वचो नेच्छसि पापरूपे
हितं न जानासि ममात्मनोऽथवा।
आस्थाय मार्गं कृपणं कुचेष्टा
चेष्टा हि ते साधुपथादपेता ॥ २.३६.३२ ॥
你这恶貌之人,你不愿听这些话,或者连我自己的利益也不知道。你走上了卑劣的道路,你的行为邪恶;你的举动已偏离善人之道。
2.36.33
अनुव्रजिष्याम्यहमद्य रामं
राज्यं परित्यज्य सुखं धनं च।
सर्वे च राज्ञा भरतेन च त्वं
यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥ २.३६.३३ ॥
今天我将舍弃王位、安乐与财富,随罗摩而去。你与国王婆罗多及众人一起,随你所愿,长久地享有这王国吧。