Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.41.1

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।
आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान् ॥ २.४१.१ ॥

当这位人中之虎合掌离去时,内宫的妇女中爆发出巨大的哀号。

2.41.2

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।
यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति ॥ २.४१.२ ॥

那位曾是这些无依、弱小、受苦之人的依靠与庇护的主人,如今要去哪里?

2.41.3

न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।
क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति ॥ २.४१.३ ॥

即使遭受辱骂,他也不愤怒;避开一切引起愤怒的缘由,安抚所有愤怒之人,与众人同担忧苦,他要去哪里?

2.41.4

कौसल्यायां महातेजा यथा मातरि वर्तते।
तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥ २.४१.४ ॥

这位大光辉者如何对待母亲考萨利雅,也如此对待我们。这位大德之人要去哪里?

2.41.5

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।
परित्राता जनस्यास्य जगतः क्व नु गच्छति ॥ २.४१.५ ॥

被受凯柯伊困扰的君王派往森林,这位庇护此民与世界的人要去哪里?

2.41.6

अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्।
धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ २.४१.६ ॥

唉,昏乱的君王不察生灵世界将遭毁灭;他将把守法、持守誓言的罗摩流放到森林中去。

2.41.7

रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ २.४१.७ ॥

悲痛万分的他们哭泣起来,并高声哀号。

2.41.8

स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।
पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः ॥ २.४१.८ ॥

国王听到后宫传来的那可怕的哀号声,被丧子之痛煎熬,极为悲伤。

2.41.9

नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।
अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ २.४१.९ ॥

祭火供奉不再举行,家主不再烹饪,百姓荒废了本分,太阳也隐没了。

2.41.10

व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्।
पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ २.४१.१० ॥

象群丢下了口中的草料,母牛不给小牛哺乳,母亲即使得到长子也不感到欢喜。

2.41.11

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।
दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ २.४१.११ ॥

三叉仙、赤身星(火星)、木星与水星,皆变得凶恶,逼近月亮,所有行星都停滞在那里。

2.41.12

नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।
विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे ॥ २.४१.१२ ॥

星宿失去了光辉,行星失去了光彩,毗舍佉星在烟雾中出现在天空。

2.41.13

कालिकानिलवेगेन महोदधिरिवोत्थितः।
रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ २.४१.१३ ॥

如雨季狂风之力掀起的大海,当罗摩被流放入林后,那座城市便剧烈震动。

2.41.14

दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।
न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥ २.४१.१४ ॥

四方皆惶乱,仿佛被黑暗笼罩;无星辰闪耀,无行星发光,一切皆不显明。

2.41.15

अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।
आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ २.४१.१५ ॥

忽然间,城中所有人都陷入哀颓;无论饮食还是娱乐,无人再用心。

2.41.16

शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्।
अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम् ॥ २.४१.१६ ॥

阿逾陀的人们被接连不断的悲痛煎熬,不停地深深叹息,都向大地之主(国王)抱怨责备。

2.41.17

बाष्पपर्याकुलमुखो राजमार्गगतो जनः।
न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः ॥ २.४१.१७ ॥

面带泪痕、神情慌乱的人们走上王道;看不到一个欢欣的人,人人都沉浸在悲伤之中。

2.41.18

न वाति पवनः शीतो न शशी सौम्यदर्शनः।
न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ २.४१.१८ ॥

凉风不再吹拂,温柔可亲的月亮也不见光辉;太阳也不再灼烤世界——整个世界都陷入不安。

2.41.19

अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।
सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ॥ २.४१.१९ ॥

妇女们的儿子、丈夫和兄弟,不再谋求自身利益,舍弃了一切,只一心思念罗摩。

2.41.20

ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।
शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे ॥ २.४१.२० ॥

罗摩所有的朋友,心神迷乱,被悲痛的重负压倒,甚至不肯躺到床上去。

2.41.21

ततस्त्वयोध्या रहिता महात्मना
पुरन्दरेणेव मही सपर्वता।
चचाल घोरं भयशोकदीपिता
सनागयोधाश्वगणा ननाद च ॥ २.४१.२१ ॥

于是,失去了大德罗摩的阿逾陀,犹如失去因陀罗的大地与群山一般剧烈震颤;被恐惧与悲痛所煎熬,它与象群、武士和马群一同轰鸣。