Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.42.1

यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत।
नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी ॥ २.४२.१ ॥

只要他那满身尘土的身影仍可望见,伊凡庫的最优者便不收回自己的目光。

2.42.2

यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्।
तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ॥ २.४२.२ ॥

国王凝望着他那极其正直、深爱的儿子之时,他的悲痛仿佛随着见到儿子而在大地上增长。

2.42.3

न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः।
तदार्तश्च निषण्णश्च पपात धरणीतले ॥ २.४२.३ ॥

国王连罗摩扬起的尘土也看不见时,痛苦而疲惫,便瘫坐下去,倒卧在地上。

2.42.4

तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना।
परं चास्यान्वगात् पार्श्वं कैकेयी सा सुमध्यमा ॥ २.४२.४ ॥

在他右侧来到了双臂优美的考莎利雅,而另一侧则来到了腰肢纤细的吉凯伊。

2.42.5

तां नयेन च सम्पन्नो धर्मेण विनयेन च।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ २.४२.५ ॥

国王具备智慧、正法与谦逊,虽心神悲痛,却望着吉凯伊对她说道。

2.42.6

कैकेयि मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये।
नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ २.४२.६ ॥

吉凯伊啊,不要触碰我的身体,你这心怀恶念的人!我不想见你,无论作为妻子还是作为亲人。

2.42.7

ये च त्वामनुजीवन्ति नाहं तेषां न ते मम।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ २.४२.७ ॥

依靠你生活的人不是我的人,我也不属于他们。你只追求私利,已舍弃法度,因此我抛弃你。

2.42.8

अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्।
अनुजानामि तत् सर्वमस्मिंल्लोके परत्र च ॥ २.४२.८ ॥

我所做的一切——握住你的手、绕火而行——我都解除你的这份约束,无论在今世还是来世。

2.42.9

भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम्।
यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत् ॥ २.४२.९ ॥

若婆罗多欢喜地得到这永不衰败的王国,为父亲的缘故把它给我,那么这份赠与就不该到我手中。

2.42.10

अथ रेणुसमुद्ध्वस्तं समुत्थाप्य नराधिपम्।
न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ २.४२.१० ॥

于是,被悲伤折磨得憔悴的王后考萨利雅扶起倒在尘土中的国王,随即转身离去。

2.42.11

हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना।
अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम् ॥ २.४२.११ ॥

如同因贪欲杀害婆罗门、或以手触火的人,那位德行高尚的国王此后悔恨交加,念着他的儿子罗揭婆。

2.42.12

निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ २.४२.१२ ॥

国王在车道上一次次回身、一次次跌倒,他的容貌不再光彩照人,如同被罗睺吞食的太阳。

2.42.13

विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन्।
नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥ २.४२.१३ ॥

他悲痛万分,思念着心爱的儿子而哀号。得知儿子已到达城郊,他便说道:

2.42.14

वाहनानां च मुख्यानां वहतां तं ममात्मजम्।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ २.४२.१४ ॥

我儿被乘坐在最好的车辆上带走,路上可见他的足迹,但那位大德之人却不见踪影。

2.42.15

यः सुखेनोपधानेषु शेते चन्दनरूषितः।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ २.४२.१५ ॥

我那最优秀的儿子,曾涂着檀香膏,安稳地睡在枕上,被珍贵的女子们扇风。

2.42.16

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥ २.४२.१६ ॥

他今天必定在某处,依靠一棵树的树根,以木头或石头为枕而睡。

2.42.17

उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः।
विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः ॥ २.४२.१७ ॥

他将憔悴地满身尘土,深深叹息,从地上起身,就像泉水边母象群中的公牛。

2.42.18

द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः।
राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ २.४२.१८ ॥

林中的居民必定会看到长臂的罗摩离去,这位世界之主,仿佛孤苦无依一般。

2.42.19

सा नूनं जनकस्येष्टा सुता सुखसदोचिता।
कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति ॥ २.४२.१९ ॥

她确实是遮那迦所爱的女儿,本应安坐舒适之处,今日却因踩踏荆棘而疲惫,将要走入森林。

2.42.20

अनभिज्ञा वनानां सा नूनं भयमुपैष्यति।
श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ २.४२.२० ॥

她不熟悉森林,听到豺狼深沉、令人毛骨悚然的嚎叫,必定会感到恐惧。

2.42.21

सकामा भव कैकेयि विधवा राज्यमावस।
नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २.४२.२१ ॥

甘美的卡柯耶依啊,愿你心愿已遂、欢喜自在;作为寡妇去享受王国吧。没有那位人中之虎,我不敢活下去。

2.42.22

इत्येवं विलपन् राजा जनौघेनाभिसंवृतः।
अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम् ॥ २.४२.२२ ॥

国王如此哀叹,被众人簇拥,走进了那座华美的宫殿,仿佛沐浴后涂上了吉祥的油膏。

2.42.23

शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम्।
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ २.४२.२३ ॥

其十字路口与房屋内部空荡,店铺与高台紧闭,城市疲惫、虚弱,为忧伤所苦,宽阔的大道也不再拥挤。

2.42.24

तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्।
विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम् ॥ २.४२.२४ ॥

国王望着整座城市,心中只想着罗摩,且哀哭着走进宫殿,如太阳隐入云中。

2.42.25

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २.४२.२५ ॥

没有罗摩、悉多和罗什曼那的那座住宅,就像一座大湖,平静无波,其中的蛇已被金翅鸟夺走。

2.42.26

अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः।
उवाच मृदु मन्दार्थं वचनं दीनमस्वरम् ॥ २.४२.२६ ॥

于是,国王哽咽着哀叹,用柔和、含意微弱、凄苦而嘶哑的声音说道。

2.42.27

कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्।
नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥ २.४२.२७ ॥

快把我带到罗摩之母考莎厘雅的住所去吧,我的心在别处不会得到安慰。

2.42.28

कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत् ॥ २.४२.२८ ॥

应当在考莎厘雅的住所里,恭敬地将他安置在那里。

2.42.29

ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्।
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २.४२.२९ ॥

他进入考莎厘雅的住所,登上床榻,心神仍然纷乱不安。

2.42.30

पुत्रद्वयविहीनं च स्नुषया च विवर्जितम्।
अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ २.४२.३० ॥

国王看见那座失去两个儿子、又没有儿媳的住所,就像失去了月亮的天空。

2.42.31

तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्।
उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ ॥ २.४२.३१ ॥

大王见此情景,英勇的他举起手臂,高声呼喊:"哎呀,罗摩!你抛弃了我们两人!"

2.42.32

सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ २.४२.३२ ॥

那些在那时仍然活着、看见罗摩归来并拥抱他的人族中的俊杰,确实会幸福。

2.42.33

अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः।
अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ २.४२.३३ ॥

此后夜幕降临,那如同自己死亡之夜的黑夜,午夜时分,十车王对考莎利雅说了这番话。

2.42.34

न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश।
रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ २.४२.३४ ॥

考莎利雅,我看不见你。那么,请用你的手触摸我吧。随罗摩而去的我的目光,至今仍未收回。

2.42.35

तं राममेवानुविचिन्तयन्तं
समीक्ष्य देवी शयने नरेन्द्रम्।
उपोपविश्याधिकमार्तरूपा
विनिश्वसन्तं विललाप कृच्छ्रम् ॥ २.४२.३५ ॥

王后见国王躺在床上,心中只想着罗摩,便悲痛万分地坐到他身旁,深深叹息,痛苦地哀哭起来。