ヴァールミーキのラーマーヤナ · サルガ 2.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.6.1
गते पुरोहिते रामः स्नातो नियतमानसः।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ २.६.१ ॥
司祭が去ると、ラーマは沐浴し、心を整えて、広い目の妻とともにナーラーヤナの社へ赴いた。
2.6.2
प्रगृह्य शिरसा पात्रीं हविषो विधिवत् ततः।
महते दैवतायाज्यं जुहाव ज्वलितानले ॥ २.६.२ ॥
そして規定どおり供物の器を頭上に掲げ、燃え盛る火に偉大な神のためにギーを献じた。
2.6.3
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्।
ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ २.६.३ ॥
供物の残りを食べ、自分にとって愛しいものを願い、神ナーラーヤナを瞑想しながら、よく敷かれたクシャ草の床に坐した。
2.6.4
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ २.६.४ ॥
言葉を慎み、心を整えて、ヴァidehīとともに、人中の最上の人の子はヴィシュヌの荘厳な社に横たわった。
2.6.5
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः।
अलंकारविधिं सम्यक् कारयामास वेश्मनः ॥ २.६.५ ॥
夜があと一更残る頃に目覚め、宮殿の飾りつけを正しく行わせた。
2.6.6
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम्।
पूर्वां संध्यामुपासीनो जजाप सुसमाहितः ॥ २.६.६ ॥
そこで御者・吟遊詩人・賛歌の歌い手たちの心地よい言葉を聞きながら、早朝の薄明の礼拝に坐し、きわめて集中してジャパを唱えた。
2.6.7
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्।
विमलक्षौमसंवीतो वाचयामास स द्विजान् ॥ २.६.७ ॥
頭を垂れてマドゥスーダナを讃え、清らかな絹をまとって、再生族(ドヴィジャ)に吉祥の章句を唱えさせた。
2.6.8
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तथा।
अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ २.६.८ ॥
そのとき、吉日を告げる荘厳で甘美な声が鼓と角笛の響きに呼応して、アヨーディヤーに満ちた。
2.6.9
कृतोपवासं तु तदा वैदेह्या सह राघवम्।
अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ २.६.९ ॥
ラーガヴァがヴァイデーヒーとともに断食をしたと聞き、アヨーディヤーに住む人々は皆喜んだ。
2.6.10
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्।
प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ २.६.१० ॥
そこで町の人々は皆、ラーマの即位の知らせを聞き、夜が明けたのを見て、町を飾り始めた。
2.6.11
सिताभ्रशिखराभेषु देवतायतनेषु च।
चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ २.६.११ ॥
白い雲の峰のような神々の寺院、四つ辻、大路、祠堂、そして物見の楼閣において。
2.6.12
नानापण्यसमृद्धेषु वणिजामापणेषु च।
कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ २.६.१२ ॥
さまざまな品物に富んだ商人の店々、そして裕福で華麗な家々においても。
2.6.13
सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च।
ध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा ॥ २.६.१३ ॥
すべての集会所と目立つ木々には、旗が高く、ふさわしく掲げられ、小旗も同じであった。
2.6.14
नटनर्तकसङ्घानां गायकानां च गायताम्।
मनःकर्णसुखा वाचः शुश्राव जनता ततः ॥ २.६.१४ ॥
そのとき民衆は、俳優と踊り手の一団や歌い手たちの歌から、心と耳を喜ばせる言葉を聞いた。
2.6.15
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः।
रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ २.६.१५ ॥
ラーマの即位について人々は互いに語り合った。ラーマの即位が近づくと、辻や家々でもそうであった。
2.6.16
बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः।
रामाभिषवसंयुक्ताश्चक्रुरेव कथा मिथः ॥ २.६.१६ ॥
家の戸口で群れて遊ぶ子どもたちさえ、ラーマの灌頂について互いに語り合っていた。
2.6.17
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः।
राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ २.६.१७ ॥
花の供物で飾られ、香の香りに満ちた王道は、ラーマの灌頂のために市民たちによって荘厳に整えられた。
2.6.18
प्रकाशकरणार्थं च निशागमनशङ्कया।
दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः ॥ २.६.१८ ॥
明かりのため、また夜が来ることへの不安から、彼らは道筋のあちこちに灯の木を立てた。
2.6.19
अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः।
आकांक्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ २.६.१९ ॥
このように都を飾り立て、市民たちはラーマの太子即位を切望していた。
2.6.20
समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च।
कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २.६.२० ॥
皆は群れをなして広場や集会所に集まり、互いに語り合いながら、そこで民の王を称えた。
2.6.21
अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः।
ज्ञात्वा वृद्धं स्वमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ २.६.२१ ॥
ああ!この偉大な王、イクシュヴァーク族の喜びは、自らが老いたことを知り、ラーマを王位に就けるであろう。
2.6.22
सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः।
चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ २.६.२२ ॥
我らは皆恵まれている。ラーマが我らの地の主となるからだ。世の高低を見てきた彼は、長く我らを守る者となるであろう。
2.6.23
अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः।
यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥ २.६.२३ ॥
驕りのない心を持ち、学識があり、法の魂をもち、兄弟を慈しむラーガヴァは、兄弟に優しいように、我らにも優しい。
2.6.24
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः।
यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २.६.२४ ॥
正しく汚れなき王ダシャラタが長く生きられますように。その恩寵によって、我らは王位に就いたラーマを見るであろう。
2.6.25
एवंविधं कथयतां पौराणां शुश्रुवुः परे।
दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २.६.२५ ॥
このように語り合う町の人々の声を他の者たちが聞いた。四方から噂を聞いた地方の人々も到着した。
2.6.26
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्।
रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २.६.२६ ॥
彼らは四方から、ラーマの即位式を見るために町に来て、町を満たした。地方の人々が。
2.6.27
जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः।
पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः ॥ २.६.२७ ॥
その押し寄せる人の波からそこに響きが起こった。満月の日に激しく荒れ狂う海の轟きのように。
2.6.28
ततस्तदिन्द्रक्षयसंनिभं पुरं
दिदृक्षुभिर्जानपदैरुपाहितैः।
समन्ततः सस्वनमाकुलं बभौ
समुद्रयादोभिरिवार्णवोदकम् ॥ २.६.२८ ॥
そのとき、インドラの都のような町は、見たいと願って集まった地方の人々で四方から響きに満ち、海水が水棲の生き物で満ちているかのように輝いた。