Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.65.1

अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।
वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥ २.६५.१ ॥

夜已过去,次日清晨,歌者们来到那座王宫前侍候。

2.65.2

सूताः परमसम्स्काराः मङ्गलाश्चोत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥ २.६५.२ ॥

受过最高教养、吉祥且精通上乘学问的御者歌者,以及喜好赞颂的歌手,各自分别诵唱。

2.65.3

राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ २.६५.३ ॥

他们高声宣读祝福、赞颂国王的声音,响彻宫殿的广阔殿宇。

2.65.4

ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।
अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥ २.६५.४ ॥

此时,在御者歌者赞颂之时,手鼓乐手诵唱其功绩,并奏响乐器。

2.65.5

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ २.६५.५ ॥

被那声音惊醒的鸟儿——栖息枝头的、关在笼中的,以及出入王宫的——开始鸣叫。

2.65.6

व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।
आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥ २.६५.६ ॥

吉祥之语、琵琶般的琴声、祝福之歌与诗偈的吟唱,充满了那座宫殿。

2.65.7

ततः शुचि समाचाराः पर्युपस्थान कोविदः ।
स्त्री वर्ष वर भूयिष्ठा उपतस्थुर् यथा पुरम् ॥ २.६५.७ ॥

于是品行纯洁、善于侍奉、多为年长而尊贵的妇女,如先前一样前来侍候。

2.65.8

हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।
आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥ २.६५.८ ॥

他们用金罐盛来混有黄檀香的水,依照沐浴的指示,在适当的时候,按照规定进行。

2.65.9

मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।
उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥ २.६५.९ ॥

他们奉上可触摸的吉祥之物和可食用的供品;其他许多少女和妇人也同样奉上。

2.65.10

सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।
सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥ २.६५.१० ॥

具备一切吉祥之相,一切都依规定恭敬供奉,整套灌顶的用品如同美德的光辉一般圆满。

2.65.11

ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।
तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥ २.६५.११ ॥

于是直到日出,众人都极为急切地站立着,心中想:“他为何还未到来?”

2.65.12

अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।
ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥ २.६५.१२ ॥

于是在科萨拉王卧榻附近的那些妇人聚集起来,唤醒了她们的主人。

2.65.13

तथाप्युचितवृत्तास्ता विनयेन नयेन च ।
न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥ २.६५.१३ ॥

然而,那些行为得体的女子,以谦恭和审慎,触碰了他的床榻,却什么也没有察觉。

2.65.14

ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।
ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥ २.६५.१४ ॥

那些熟知国王睡眠习惯的女子,在他的动作与举止间颤抖,为国王的性命而惊惧。

2.65.15

प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।
अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥ २.६५.१५ ॥

她们如逆流中的草尖般颤抖。随后,那些颤抖的女子见到国王……

2.65.16

यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।
कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥ २.६५.१६ ॥

他们所担忧的那桩恶事得以确定。而因丧子之痛而心力交瘁的考莎利雅与苏弥特拉……

2.65.17

प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।
निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥ २.६५.१७ ॥

两位熟睡之人未能按时醒来;她们黯淡无光、面色苍白、因悲痛而憔悴佝偻。

2.65.18

न व्यराजत कौसल्या तारेव तिमिरावृता ।
कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥ २.६५.१८ ॥

考莎利雅不再光彩照人,如被黑暗遮蔽的星辰。考莎利雅之后是国王的妻子苏弥特拉,其后……

2.65.19

न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।
ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥ २.६५.१९ ॥

悲伤的泪水扭曲了王后的面容,她不再光彩照人。两位吉祥的王后看到国王如此昏迷地躺着,

2.65.20

सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।
ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥ २.६५.२० ॥

后宫以为他的生命气息已经离去。于是,悲苦的诸位贤良女子大声哭号起来。

2.65.21

करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।
तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥ २.६५.२१ ॥

如同森林中雌象群的象王失去自己的位置,听到她们的哭声,(国王的)意识忽然恢复了。

2.65.22

कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥ २.६५.२२ ॥

考莎利亚和苏弥特拉失去了睡意,醒了过来。考莎利亚和苏弥特拉看到并触摸了国王,

2.65.23

हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।
सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥ २.६५.२३ ॥

她们大声哭喊:“哎呀,夫君!”便倒在地上。科萨拉王之女(考莎利亚)在地上翻滚。

2.65.24

न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।
नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥ २.६५.२४ ॥

她(考莎利亚)满身尘土,不再光彩,如同从天空坠落的星辰。国王的德行已经止息,考莎利亚便倒卧在地上。

2.65.25

आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।
ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥ २.६५.२५ ॥

随后我看见国王的所有女眷,以吉迦依为首,宛如被杀的雌象。

2.65.26

रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।
ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥ २.६५.२६ ॥

她们悲泣,被哀愁煎熬,纷纷昏厥倒地;她们的哭喊使那巨大的声音再度扩散。

2.65.27

येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।
तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥ २.६५.२७ ॥

由此声音再次扩大,在那座宫殿中回荡;于是那里充满了惊惧、慌乱而焦虑的人。

2.65.28

सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।
सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥ २.६५.२८ ॥

四面八方是喧嚷的哀号,亲族被悲痛折磨;欢乐顿时消逝,景象变得凄惨而慌乱。

2.65.29

बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।
अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।
यशस्विनम् सम्परिवार्य पत्नयः ।
भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।
प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥ २.६५.२९ ॥

在王宫中,他走向了命运所定的终结。众妃得知他已逝去,便环绕着这位光荣的王中雄杰,极度悲痛地哀哭,举起双臂,像孤苦无依者一样哀号。