Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 2.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.7.1

ज्ञातिदासी यतो जाता कैकेय्या तु सहोषिता।
प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया ॥ २.७.१ ॥

カイケーイーの女奴隷の家に生まれ、彼女と共に暮らしていたマンタラーは、自らの意思で月のように輝く宮殿に登った。

2.7.2

सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्।
अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत ॥ २.७.२ ॥

その宮殿からマンタラーは、王道に水が撒かれ蓮や睡蓮が散らばる全アヨーディヤーを見下ろした。

2.7.3

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम्।
सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्युताम् ॥ २.७.३ ॥

優れた旗と幟で飾られ、白檀の水が撒かれ、頭を沐浴した人々で満ちていた。

2.7.4

माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्।
शुक्लदेवगृहद्वारां सर्ववादित्रनादिताम् ॥ २.७.४ ॥

花環と菓子を手にした最もすぐれた再生族の声が響き、白い神殿の門を持ち、あらゆる楽器の音が鳴り響いていた。

2.7.5

सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषनिनादिताम्।
प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् ॥ २.७.५ ॥

歓喜に満ちた人々で溢れ、婆羅門の詠唱が響き、優れた象と馬は喜び、牛と雄牛は大声で鳴いていた。

2.7.6

हृष्टप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्।
अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता ॥ २.७.६ ॥

喜び沸き立つ市民によって高く掲げられた旗と花環で飾られたアヨーディヤーを見て、マンタラーは大いに驚いた。

2.7.7

सा हर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम्।
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥ २.७.७ ॥

喜びに目を輝かせ、白い絹をまとって近くに立つ乳母を見て、マンタラーは尋ねた。

2.7.8

उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती।
राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति ॥ २.७.८ ॥

最高の喜びに満ち、財を求める貞淑なラーマの母は、今いったいどんな富を人々に与えているのか?

2.7.9

अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे।
कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः ॥ २.७.९ ॥

この民はなぜこれほど度を越して喜んでいるのか?教えて。あるいは、大いに喜んだ王は何をさせるのか?

2.7.10

विदीर्यमाणा हर्षेण धात्री तु परया मुदा।
आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् ॥ २.७.१० ॥

喜びに今にも張り裂けそうになった乳母は、無上の歓喜のうちに、ラーガヴァに訪れる大いなる栄華を、せむしの女に語った。

2.7.11

श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम्।
राजा दशरथो राममभिषेक्ता हि राघवम् ॥ २.७.११ ॥

明日、プシャ星宿のもとで、怒りを克服した無垢なラーガヴァ、ラーマを、王ダシャラタは世継ぎの地位に灌頂するであろう。

2.7.12

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षितः।
कैलासशिखराकारात् प्रासादादवरोहत ॥ २.७.१२ ॥

乳母の言葉を聞き、せむしの女は憤然として、カイラーサの峰のようにそびえる宮殿から急いで降りてきた。

2.7.13

सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी।
शयानामेव कैकेयीमिदं वचनमब्रवीत् ॥ २.७.१३ ॥

怒りに燃えた、悪を見る者マンタラーは、横たわるカイケーイーにこの言葉を語った。

2.7.14

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते।
उपप्लुतमघौघेन नात्मानमवबुध्यसे ॥ २.७.१४ ॥

起きなさい、愚かな女!なぜ横たわっているのか。危険がおまえに迫っているのに、不幸の激流に呑まれながら、自分の状況が分かっていない。

2.7.15

अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे।
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ २.७.१५ ॥

ああ不吉な者よ、幸運そうな姿の者よ!おまえは自分の幸運を誇っているが、その幸運は夏の熱に流れる川の流れのように不安定なのだ。

2.7.16

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः।
कुब्जया पापदर्शिन्या विषादमगमत् परम् ॥ २.७.१६ ॥

怒れる、悪を見る佝偻のマンタラーから厳しい言葉をこのように投げかけられ、カイケーイーは深い絶望に陥った。

2.7.17

कैकेयी त्वब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे।
विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ २.७.१७ ॥

カイケーイーは佝偻の女に言った。「マンタラーよ、無事なのか。沈んだ顔で、ひどく悲しんでいるのが見えるが。」

2.7.18

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ २.७.१८ ॥

カイケーイーの甘く響く言葉を聞き、怒りに満ち、弁舌に長けたマンタラーはこの言葉を語った。

2.7.19

सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणी।
विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ २.७.१९ ॥

非常に憂えた、カイケーイーの利益を願う せむしのマンタラーは、彼女を悲しませ、ラーghavaに対する不和を生じさせながら、このように言った。

2.7.20

अक्षयं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम्।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ २.७.२० ॥

王妃よ、あなたの破滅のために、尽きることのない大きな災いが起こりました。王ダシャラタはラーマを皇太子として灌頂しようとしています。

2.7.21

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता।
दह्यमानानलेनेव त्वद्धितार्थमिहागता ॥ २.७.२१ ॥

底知れぬ恐怖に沈み、苦しみと悲しみに満ち、まるで火に焼かれるように、私はあなたの幸せのためにここへ来ました。

2.7.22

तव दुःखेन कैकेयि मम दुःखं महद् भवेत्।
त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः ॥ २.७.२२ ॥

カイケーイーよ、あなたの苦しみは私の苦しみとなって大きく、あなたの繁栄は私の繁栄ともなる。これに疑いはない。

2.7.23

नराधिपकुले जाता महिषी त्वं महीपतेः।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ २.७.२३ ॥

王妃よ、王族に生まれ、王の第一王妃でありながら、どうして王の義務の厳しさがわからないのですか。

2.7.24

धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः।
शुद्धभावेन जानीषे तेनैवमतिसंधिता ॥ २.७.२४ ॥

あなたの夫は法を語りながら欺瞞的で、優しく話しながら残酷です。あなたは純粋な性質のゆえにこれを知らず、そのために彼にこのように大きく欺かれているのです。

2.7.25

उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्।
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २.७.२५ ॥

今日、あなたの夫はあなたのもとに来て空しい慰めの言葉を用い、富によってカウサルヤーを自分の側へ引き入れるでしょう。

2.7.26

अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु।
काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ २.७.२६ ॥

その邪な心の者は、あなたの親族の中からバラタを追い払い、棘のない王国にラーマをまもなく即位させるでしょう。

2.7.27

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया।
आशीविष इवाङ्गेन बाले परिधृतस्त्वया ॥ २.७.२७ ॥

娘よ!敵は夫という名目で、母のようにあなたの幸せを願うふりをして、毒蛇を抱くようにあなたの体で抱きしめられている。

2.7.28

यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः।
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २.७.२८ ॥

敵や蛇は、軽んじられると害をなすように、今日、王ダシャラタはあなたを息子とともにそのような境遇に置いたのです。

2.7.29

पापेनानृतसान्त्वेन बाले नित्यं सुखोचिता।
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २.७.२९ ॥

娘よ、いつも幸福に慣れていたあなたは、その邪悪な者が偽りの慰めの言葉によって、ラーマを王国に即位させるため、あなたは眷属もろとも滅ぼされてしまったのです。

2.7.30

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ २.७.३० ॥

それゆえ、カイケーイーよ、今や時は来た。速やかにあなたの益となることをしなさい。息子を、あなた自身を、そして私を守りなさい、驚いた様子のあなたよ!

2.7.31

मन्थराया वचः श्रुत्वा शयनात् सा शुभानना।
उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ॥ २.७.३१ ॥

マンタラーの言葉を聞いて、美しい顔のカイケーイーは寝床から起き上がった。喜びに満ち、秋の月の細い光のように。

2.7.32

अतीव सा तु संतुष्टा कैकेयी विस्मयान्विता।
दिव्यमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥ २.७.३२ ॥

非常に満足し驚嘆したカイケーイーは、そのせむしの女に神聖で吉祥な飾りを与えた。

2.7.33

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा।
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥ २.७.३३ ॥

その女に飾りを与えた後、喜んだ女性の中の最上の者カイケーイーは、再びマンタラーにこう言った。

2.7.34

इदं तु मन्थरे मह्यमाख्यातं परमं प्रियम्।
एतन्मे प्रियमाख्यातं किं वा भूयः करोमि ते ॥ २.७.३४ ॥

マンタラーよ、お前は私にこの無上の喜ばしい知らせを告げてくれた。この嬉しい言葉への礼に、ほかに何をしてやれようか。

2.7.35

रामे वा भरते वाहं विशेषं नोपलक्षये।
तस्मात् तुष्टास्मि यद् राजा रामं राज्येऽभिषेक्ष्यति ॥ २.७.३५ ॥

ラーマとバラタの間に私は何の違いも見ない。だから王がラーマを王国で即位させることを私は喜んでいるのだ。

2.7.36

न मे परं किंचिदितो वरं पुनः
प्रियं प्रियार्हे सुवचं वचोऽमृतम्।
तथा ह्यवोचस्त्वमतः प्रियोत्तरं
वरं परं ते प्रददामि तं वृणु ॥ २.७.३६ ॥

これより愛しい願いは私にはない。愛されるにふさわしい者よ、お前は甘露のように甘美な言葉を語り、さらに喜ばしい言葉も語った。それゆえ、お前に最上の恩恵を与えよう。選ぶがよい。