蚁垤《罗摩衍那》 · 篇 2.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.73.1
श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।
भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥ २.७३.१ ॥
婆罗多闻知父亲去世及两位兄长被流放,悲痛万分,便说了这番话。
2.73.2
किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः ।
विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥ २.७३.२ ॥
我失去了父亲和如父的兄长,悲伤不已、一无所有,这王国对我又有何用?
2.73.3
दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।
राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥ २.७३.३ ॥
你给我的悲痛再添悲痛,如同在伤口上撒盐;你使国王如同已死,又使罗摩成为苦行者。
2.73.4
कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।
अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥ २.७३.४ ॥
你来到这个家族,如同死亡之夜,要使它毁灭;如同藏起燃烧的炭火,我的父亲却未察觉。
2.73.5
मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।
सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥ २.७३.५ ॥
看见罪恶的女人啊!你使我的国王、父亲走向死亡。玷污家族的女人啊!你因迷惑夺去了这个家族的幸福。
2.73.6
त्वाम् प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः ।
तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥ २.७३.६ ॥
因为得到了你,今天我的父亲——信守诺言、声名远扬的十车王——在剧烈的悲痛中去世了。
2.73.7
विनाशितो महाराजः पिता मे धर्मवत्सलः ।
कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥ २.७३.७ ॥
我那爱护法度的大王父亲已被毁灭。罗摩为何被放逐?他为何去了森林?
2.73.8
कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।
दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥ २.७३.८ ॥
考莎厘雅与苏弥陀罗为爱子之痛所折磨,即便有你这样的母亲,她们也难以存活。
2.73.9
ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।
वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥ २.७३.९ ॥
实则高尚的罗摩,心怀法度,对你的态度极为恭敬,正如他对待生母一样,因他深知对长辈应尽的本分。
2.73.10
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।
त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥ २.७३.१० ॥
同样,我那长母考莎厘雅富有远见,恪守法度,对待你如同对待亲妹妹一般。
2.73.11
तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।
प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥ २.७३.११ ॥
你将身着树皮与破衣的她的儿子放逐到森林,罪孽深重的人啊,你怎能不悲伤?
2.73.12
अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।
प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥ २.७३.१२ ॥
你将不见过失的、英勇的、自制的、荣耀的罗摩,身着树皮放逐,你看出了什么理由?
2.73.13
लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।
तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥ २.७३.१३ ॥
贪婪的女人啊,我想你并不了解你对罗伽瓦(Rāghava)的真实心意。为了王位,你竟招致了这场大祸。
2.73.14
अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।
केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥ २.७३.१४ ॥
若不见罗摩与罗什曼那这两位人中虎杰,我凭何种力量与威势,敢于守护这王国?
2.73.15
तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।
उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥ २.७३.१५ ॥
那位伟大的国王,威力强盛,始终依赖于他,正如法(dharma)依赖于自身,正如须弥山依赖于须弥林。
2.73.16
सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।
दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥ २.७३.१६ ॥
我如何以何种力量,承担这由大力负轭者所担起的重担?正如幼牛套上轭木,承受其重。
2.73.17
अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।
सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥ २.७३.१७ ॥
或者,即便我凭借计谋或智力之力有所能为,我也不会让你这渴求儿子的人如愿以偿。
2.73.18
न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥ २.७३.१८ ॥
若罗摩不是始终像对待母亲一样待你,我对你这心存恶念之人,便不会有任何犹豫去舍弃你。
2.73.19
उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।
साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥ २.७३.१९ ॥
你这个看到罪恶、背离善行的人,这念头怎会在你心中生起?这是我们先人所谴责的。
2.73.20
अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥ २.७३.२० ॥
在这个家族中,诸子之中最年长者被立为王,其余兄弟则专心地侍奉于他。
2.73.21
न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।
गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥ २.७३.२१ ॥
残忍的人啊,我想你并不顾及王者之法,难道你不知道王者行为的永恒之道吗?
2.73.22
सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।
राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥ २.७३.२२ ॥
在王者之行中,总是长子被立为王;这是诸王的共同规矩,尤其是伊柯娑库家族的规矩。
2.73.23
तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।
अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥ २.७३.२३ ॥
在那些唯守法度、专注家族品行的人之中,愿这里的善行之名在触及你之后折返。
2.73.24
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।
बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥ २.७३.२४ ॥
你的先祖们也是福德广大、统治人民的君王。你的心智中怎会生出这样的迷惑?这实在可责。
2.73.25
न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।
त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥ २.७३.२५ ॥
但我不会按你的心愿去做,你这有罪的决意。你给我带来了足以夺去我生命的灾祸。
2.73.26
एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।
निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥ २.७३.२६ ॥
现在我自己,即使你不喜欢,也要把那位无过失、为亲人所爱的兄长从森林中接回来。
2.73.27
निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।
दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥ २.७३.२७ ॥
我把罗摩接回之后,将以光辉的德行,怀着坚定的内心,甘愿做他的仆人。
2.73.28
प्रिय इतरैः वाक्य गणैः तुदम्स् ताम् ।
शोक आतुरः च अपि ननाद भूयः ।
सिम्हो यथा पर्वत गह्वरस्थः ॥ २.७३.२८ ॥
他被悲痛所折磨,用许多刺耳的话语刺伤她,再次怒吼,如同居于山洞中的狮子。