蚁垤《罗摩衍那》 · 篇 2.82
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.82.1
ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।
ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥ २.८२.१ ॥
智慧兼备的婆罗多看见那座集合着诸多贵族、井然有序的议会,犹如月圆之夜。
2.82.2
आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।
अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥ २.८२.२ ॥
依照礼法为诸位贵族设置座位,他们入座之时,那集会犹如乌云散尽后的满月之夜。
2.82.3
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ २.८२.३ ॥
那座充满学者、极为美妙的议会,此时犹如乌云散尽后的满月之夜。
2.82.4
राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।
इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥ २.८२.४ ॥
婆罗多见国王的臣民与大臣全部到齐,精通法的祭司便温和地对婆罗多说了这些话。
2.82.5
तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।
धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥ २.८२.५ ॥
"亲爱的孩子,奉行法的国王十车王已升天,把富有钱财与粮食、繁荣昌盛的大地交给了你。"
2.82.6
रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।
न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥ २.८२.६ ॥
罗摩同样坚守真实,常常念及善人的法,从不违背父亲的命令,正如升起的月亮不会舍弃它的月光。
2.82.7
पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।
तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥ २.८२.७ ॥
父亲与兄长已将此王国授予你,其荆棘已被除尽。你可享用它;令大臣欢喜,并迅速举行加冕。
2.82.8
उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।
कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥ २.८२.८ ॥
从北方、西方和南方,从远方边境和海滨,愿为你带来数以千万计的珍宝。
2.82.9
तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।
जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥ २.८२.९ ॥
婆罗多精通法义,闻此言语,悲伤充溢,心中因向往法而前往罗摩处。
2.82.10
स बाष्प कलया वाचा कल हम्स स्वरः युवा ।
विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥ २.८२.१० ॥
那位声音如迦罗频伽鸟般的年轻人,以哽咽带泪的声音在集会中悲叹,并责备了家祭司。
2.82.11
चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।
धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥ २.८२.११ ॥
像我这样的人,谁会夺取一位守持梵行、沐浴于学问、智慧并勤于法义之人的王国?
2.82.12
कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।
राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥ २.८२.१२ ॥
我是十车王之子,怎会成为夺取王国的人?此处您应当谈论王国、我,以及罗摩的法义。
2.82.13
ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।
लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥ २.८२.१३ ॥
长子且最为优秀,心怀正法,与迪利帕、那呼沙相当,迦古特沙之裔罗摩理应像十车王一样获得王位。
2.82.14
अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।
इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥ २.८२.१४ ॥
若我行下贱者所为、远离天界之罪,我便会成为伊克瓦库族中于此世玷污家族的人。
2.82.15
यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।
इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥ २.८२.१५ ॥
母亲所犯之罪,我不认可。我站在此地,合掌向居于险峻森林中的罗摩致敬。
2.82.16
रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।
त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥ २.८२.१६ ॥
我唯有追随罗摩。他是两足之人中最优秀的国王,罗怙之裔值得统治三界。
2.82.17
तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।
हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥ २.८२.१७ ॥
众人听闻此番合乎法的话语,心念皆专注于罗摩,因喜悦而泪流满面。
2.82.18
यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।
वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥ २.८२.१८ ॥
若我不能将尊者从林中召回,我便将亲自居于林中,正如尊者罗什曼那一样。
2.82.19
सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।
समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥ २.८२.१९ ॥
我将竭尽一切办法,即使用武力,也要在众多贤达善良之人面前,让尊贵的兄长返回。
2.82.20
विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।
प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥ २.८२.२० ॥
我先前已派出所有负责劳役的监管者和清理道路的护卫,这次出行我也十分认同。
2.82.21
एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।
समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥ २.८२.२१ ॥
婆罗多心怀正法、疼爱兄长,说完这番话后,便对站在近旁、精通谋略的苏曼特拉说道。
2.82.22
तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।
यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥ २.८२.२२ ॥
苏曼特拉,你速起身,依我的命令前去;即刻下令启程,并且召集军队。
2.82.23
एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।
हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥ २.८२.२३ ॥
大德的婆罗多如此吩咐,苏曼特拉心中欢喜,便依照所嘱咐的,将一切照他所希望的一一下达了指示。
2.82.24
ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।
श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥ २.८२.२४ ॥
众百姓与军中统帅听说已下令启程,要将罗怙后裔(罗摩)迎回,无不欢喜异常。
2.82.25
ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।
यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥ २.८२.२५ ॥
于是所有战士的妻子闻知出行启程之事,欢欣地在家家户户催促自己的丈夫。
2.82.26
ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।
सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥ २.८२.२६ ॥
那些统帅与骏马、牛车、疾驰的战车以及如意念般迅捷的战车一道,连同战士们,催动全军前进。
2.82.27
सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।
रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥ २.८२.२७ ॥
婆罗多见大军已整装待发,便在长者面前对身旁的苏曼特罗说:“快快为我备车。”
2.82.28
भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।
रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥ २.८२.२८ ॥
苏曼特罗领受了婆罗多的命令,非常欢喜;他驾起以良马套好的战车,便出发了。
2.82.29
स राघवः सत्य धृतिः प्रतापवान् ।
ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।
गुरुम् महा अरण्य गतम् यशस्विनम् ।
प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥ २.८२.२९ ॥
那位坚守真理、威德赫赫的罗怙之后(罗摩),勇毅而真实不移,已进入大森林。婆罗多想要安抚这位声名卓著的兄长,于是开口说道。
2.82.30
तूण समुत्थाय सुमन्त्र गच्च ।
बलस्य योगाय बल प्रधानान् ।
आनेतुम् इच्चामि हि तम् वनस्थम् ।
प्रसाद्य रामम् जगतः हिताय ॥ २.८२.३० ॥
苏曼陀罗啊,速起前往。召集军中的主要人员以集结军队。我想为了世界的福祉,安抚住在林中的罗摩并将他迎回。
2.82.31
स सूत पुत्रः भरतेन सम्यग् ।
आज्ञापितः सम्परिपूर्ण कामः ।
शशास सर्वान् प्रकृति प्रधानान् ।
बलस्य मुख्यामः च सुहृज् जनम् च ॥ २.८२.३१ ॥
那位车夫之子受婆罗多妥善吩咐,心愿完全得偿,便向民众的所有首领、军中的主要人员及朋友们下达了命令。
2.82.32
ततः समुत्थाय कुले कुले ते ।
राजन्य वैश्या वृषलाः च विप्राः ।
अयूयुजन्न् उष्ट्र रथान् खरामः च।
नागान् हयामः चैव कुल प्रसूतान् ॥ २.८२.३२ ॥
于是,各家各族的人起身,刹帝利、吠舍、首陀罗与婆罗门,套上骆驼拉的车、驴、象和出身高贵的马。