Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.86.1

आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।
भरताय अप्रमेयाय गुहो गहन गोचरः ॥ २.८६.१ ॥

于是居于密林之中的古诃向不可估量的婆罗多讲述了大德罗什曼那的真实心意。

2.86.2

तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।
भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥ २.८६.२ ॥

我对那位醒着守夜、具足德行、手持良弓与箭的罗什曼那,极其恳切地说了要保护兄长的话。

2.86.3

इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।
प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥ २.८६.३ ॥

亲爱的,这张舒适的床是为你准备的。请安心地在上面舒适地躺下吧,罗怙族的欢喜啊。

2.86.4

उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।
धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥ २.८६.४ ॥

这些人都能承受苦难,而你应当享受安逸。为了守护那位正法之人,我们将彻夜守望。

2.86.5

न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।
मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥ २.८६.५ ॥

世上没有比罗摩更让我珍爱的人了。不要忧虑;我当着你的面说的这些,并非虚言。

2.86.6

अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥ २.८६.६ ॥

凭他的恩惠,我希望在此世间获得大名、丰厚的正法,以及纯粹的财富。

2.86.7

सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।
रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥ २.८६.७ ॥

我是他亲爱的朋友,我将手持弓箭,与我所有的亲族一起守护与悉多同眠的罗摩。

2.86.8

न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।
चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥ २.८६.८ ॥

我常在此林中游走,此地没有任何事物是我所不知的;战场上,我们即便面对四军之师也能抵挡。

2.86.9

एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।
अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥ २.८६.९ ॥

我们这样说后,只以法为念的大心罗什曼那使我们所有人都平静下来。

2.86.10

कथम् दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥ २.८६.१० ॥

达舍罗陀之子与悉多同卧于地,我怎能入睡,怎能保有生命或享受欢乐呢?

2.86.11

यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।
तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥ २.८६.११ ॥

看那位,即便诸神与阿修罗合力也无法在战场上抵挡的人,他正与悉多卧于草上。

2.86.12

महता तपसा लब्धो विविधैः च परिश्रमैः ।
एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥ २.८६.१२ ॥

这位是达舍罗陀唯一的儿子,他是以大苦行和多方努力所得,具备相称的吉相。

2.86.13

अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥ २.८६.१३ ॥

他被流放之后,国王不会长久活着,大地必定很快成为寡妇。

2.86.14

विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।
निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥ २.८६.१४ ॥

女人们大声哭喊之后,因疲惫而停止了;今天王宫的喧嚣必定已经平息。

2.86.15

कौसल्या चैव राजा च तथा एव जननी मम ।
न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥ २.८६.१५ ॥

我不希望考沙利雅、国王和我母亲,他们所有人都能活过这一夜。

2.86.16

जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।
दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥ २.८६.१६ ॥

或许我的母亲因为有舍特鲁格娜的照料仍能活着;但英雄之母考沙利雅将因悲伤而毁灭。

2.86.17

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥ २.८६.१७ ॥

过去了,过去了,愿望未能实现;不将罗摩立于王位,我的父亲将会灭亡。

2.86.18

सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।
प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥ २.८६.१८ ॥

当那个时候到来、此事发生时,目的已达成的人们将为国王举行一切亡者祭仪并予以安葬。

2.86.19

रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।
हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥ २.८६.१९ ॥

阿逾陀城,有美丽的广场和布局井然的大道,满是楼阁与宫殿,装饰着各种宝石。

2.86.20

गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥ २.८६.२० ॥

车马象群挤满街道,乐器之声回荡,充满一切吉祥,人民欢欣而富足。

2.86.21

आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥ २.८६.२१ ॥

在我父亲的王城中,园林与公园遍布,集会与节庆增辉,他们将快乐地漫游。

2.86.22

अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।
निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥ २.८६.२२ ॥

若我们与信守誓言者同在,平安无恙,待这段期限一满,我们便欢欣地回城。

2.86.23

परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।
तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥ २.८६.२३ ॥

这位大德的王子如此悲叹而留守,那一夜便过去了。

2.86.24

प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।
अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥ २.८६.२४ ॥

清晨明净,太阳升起,我为我们二人结好发髻,在这婆吉罗提河岸边,我使我们二人安然渡过了河。

2.86.25

जटा धरौ तौ द्रुम चीर वाससौ ।
महा बलौ कुन्जर यूथप उपमौ ।
वर इषु चाप असि धरौ परम् तपौ ।
व्यवेक्षमाणौ सह सीतया गतौ ॥ २.८६.२५ ॥

两人头戴发髻,身穿树皮衣,皆为大力之士,如象群之首领,手持上好的箭、弓与剑,乃令敌人极度煎熬之人,与悉多同行,四处张望而前进。