ヴァールミーキのラーマーヤナ · サルガ 2.87
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.87.1
गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।
ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥ २.८७.१ ॥
グハの言葉を聞いたバラタは、その極めて不快な知らせを聞いて、そこでその件について深く考え込んだ。
2.87.2
सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।
पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥ २.८७.२ ॥
優美でありながら偉大な精神を持ち、獅子のような肩と大きな腕を持ち、蓮のように大きな目をした若者で、見る者に好ましい。
2.87.3
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।
पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥ २.८७.३ ॥
しばらく気を取り直したものの、ひどく心を痛めたバラタは、急に倒れた。まるで象使いの鉤で心臓を突かれた象のように。
2.87.4
भरतम् मुर्च्छितम् द्रुष्ट्वा विवर्णवदनो गुहः ।
बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥ २.८७.४ ॥
気を失ったバラタを見て、グハの顔は青ざめた。地震の中の木のように、彼はそこで激しく動揺した。
2.87.5
तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।
परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥ २.८७.५ ॥
その状態のバラタを抱きしめたシャトルグナは、そばに立ち、悲しみにやつれ、正気を失ったかのように大声で泣いた。
2.87.6
ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।
उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥ २.८७.६ ॥
そのとき、バラタの母たちが皆集まってきた。断食で痩せ衰え、悲しみに沈み、夫の災いに心を痛めて。
2.87.7
ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।
कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥ २.८७.७ ॥
地に倒れている彼を、泣きながら母たちが取り囲んだ。しかし悲しみに沈んだカウサルヤーは進み出て、彼を抱きしめた。
2.87.8
वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।
परिपप्रच्छ भरतम् रुदन्ती शोक लालसा ॥ २.८७.८ ॥
雌牛が我が子の仔牛を抱くように、慈愛深く苦行者のようなカウサルヤーはバラタを抱きしめ、泣きながら、悲しみに満ちた切望をもって尋ねた。
2.87.9
पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।
अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥ २.८७.९ ॥
わが子よ、どこか病がお前の身体を悩ませてはいないだろうね。今やこの王家の命は、お前一人にかかっているのだから。
2.87.10
त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।
वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥ २.८७.१० ॥
わが子よ、お前の顔を見ることだけで私は生きている。ラーマが弟と共に森へ去り、王ダシャラタも亡くなった今、我らの守護者はお前ただ一人なのだから。
2.87.11
कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।
पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥ २.८७.११ ॥
わが子よ、ラクシュマナについて何か不吉な知らせを聞いてはいないかい。ひとり息子の母の子と、その妻が一緒に森へ行ってしまったのだから。
2.87.12
स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।
कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥ २.८७.१२ ॥
偉大な名声の持ち主は、しばし気を取り直し、なお泣きながらカウサルヤーを慰めた後、グハにこの言葉を告げた。
2.87.13
भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।
अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥ २.८७.१३ ॥
私の兄はどこで夜を過ごしたのか。シーターとラクシュマナはどこにいたのか。どの寝床で眠り、何を食べたのか。グハよ、私に教えてくれ。
2.87.14
सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।
यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥ २.८७.१४ ॥
バラタに問われ、ニシャーダの王グハは答えた。親しく有益な客人ラーマをどのように迎えたかを語ったのである。
2.87.15
अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।
रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥ २.८७.१५ ॥
ラーマが食べるために、私は多くの食べ物を捧げた。米、上等なものと普通のもの、そして多様な果物である。
2.87.16
तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।
न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥ २.८७.१६ ॥
真の勇者ラーマはそれらすべてに同意しなかった。武士の法を思い起こし、彼はそれを受け取らなかった。
2.87.18
न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।
लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।
औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥ २.८७.१८ ॥
友よ、私たちは受け取ってはならず、常に与えるべきなのだ。ラクシュマナが持ってきた水を飲んで、大いに名高いラーガヴァは、そのときシーターとともに断食を行った。
2.87.19
ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।
वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥ २.८७.१९ ॥
それからラクシュマナも残りの水で同じことをした。三人は言葉を慎み、心を集中して、そこで黄昏の礼拝を行った。
2.87.20
सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।
स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥ २.८७.२० ॥
その後、サウミトリは自らクシャ草を持って来て、ラーガヴァのためにすみやかに美しい寝床を整えた。
2.87.21
तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।
प्रक्षाल्य च तयोः पादौ अपचक्राम लक्ष्मणः ॥ २.८७.२१ ॥
ラーマはシーターと共にその良い寝床に横たわった。ラクシュマナは二人の足を洗ってから、そこを離れた。
2.87.22
एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।
यस्मिन् रामः च सीता च रात्रिम् ताम् शयितौ उभौ ॥ २.८७.२२ ॥
これがインクディーの木の根であり、ラーマとシーターの二人がその夜に横たわった草そのものだ。
2.87.23
नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।
शरैः सुपूर्णौ इषुधी परम् तपः ।
महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।
निशाम् अतिष्ठत् परितो अस्य केवलम् ॥ २.८७.२३ ॥
ラクシュマナは、矢の詰まった二つの箙を背に結び、指当てを着け、大弓に弦を張って、その夜ずっと一人で二人のまわりを見張って立っていた。
2.87.24
ततः तु अहम् च उत्तम बाण चापधृक् ।
स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।
अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।
महा इन्द्र कल्पम् परिपालयमः तदा ॥ २.८७.२४ ॥
そのとき私もまた立派な矢と弓を手にして、ラクシュマナの立つところに立った。疲れを知らぬ親族や弓を持つ者たちとともに、私たちは偉大なインドラのようなその方を守っていたのだ。