Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.89

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.89.1

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ २.८९.१ ॥

那位罗怙后裔婆罗多在恒河岸边度过夜晚,黎明起身,对设睹卢祇那说了这番话。

2.89.2

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २.८९.२ ॥

设睹卢祇那,起来!为何还躺着?快去把尼沙达之主guha请来——愿你吉祥;他会把大军渡过河去。

2.89.3

जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदितः ॥ २.८९.३ ॥

「我没有睡,我醒着,正在思念那位尊者(罗摩)。」设睹卢祇那在兄长的催促下,也这样说了。

2.89.4

आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ २.८९.४ ॥

适时,guha合掌而来,对婆罗多说道。

2.89.5

कच्चित्सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥ २.८९.५ ॥

啊,迦恭特塔之后裔,你在河岸上安然度过了夜晚吗?你与大军都平安无恙吗?

2.89.6

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ॥ २.८९.६ ॥

婆罗多听到guha出于情谊所说的这番话,他顺从罗摩的意志,也这样回答道。

2.89.7

सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥ २.८९.७ ॥

国王啊,这一夜我们过得很舒适,并蒙您厚待。现在请船夫们用许多船只送我们渡过恒河。

2.89.8

ततो गुहः संत्वरितं श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ २.८९.८ ॥

于是,guha听到婆罗多的命令,急忙回到城中,对他的族人说。

2.89.9

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा ।
नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ २.८९.९ ॥

起来,醒来吧!愿你们永远吉祥。把船拉拢准备好;我们要把军队渡过去。

2.89.10

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥ २.८९.१० ॥

他们听从国王的命令被如此吩咐后,急忙起身,立即从四面八方带来了五百条船。

2.89.11

अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः ।
शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः ॥ २.८९.११ ॥

其他的船以卍字符号为标志,挂着大铃,精美绝伦,装饰着旌旗,系有风帆,并且牢固地连结在一起。

2.89.12

ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।
तामारुरोह भरतः शत्रुघ्नश्च महाबलः ॥ २.८९.१२ ॥

于是,guha带来了一条吉祥的船,以卍字为标志,覆盖着淡色的毛毯,回荡着欢乐的声音。婆罗多与大力的舍睹鲁祇那登上了船。

2.89.13

कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनन्तरं राजदारास्तथैव शकटापणाः ॥ २.८९.१३ ॥

高桑雅与苏弥呾罗,以及王宫中的其他妃嫔和家祭司;在他们之前是导师与婆罗门;之后是王族亲属的妻子、车夫与商贩。

2.89.14

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ २.८९.१४ ॥

在住处点火的人、在圣渡口沐浴的人、拿取物品的人发出的喧闹,直达天界。

2.89.15

पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥ २.८९.१५ ॥

那些挂着旗幡的船只,由船夫亲自操控,载着满载的人群,当时迅速聚集而来。

2.89.16

नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ २.८९.१६ ॥

有的船满载妇女,有的满载马匹;还有的船在此载运价值极高的车辆与牛马。

2.89.17

ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ २.८९.१७ ॥

那些船到达对岸,放下那群人后便折返;船夫的亲族们则开始扎制色彩斑斓的竹筏。

2.89.18

सवैजयन्तास्तु गजा गजारोहप्रचोदिताः ।
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ २.८९.१८ ॥

披着胜利旗幡的象群,在象夫驱策下渡河,闪耀如同挂着旌旗的山峰。

2.89.19

नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ २.८९.१९ ॥

有人登上船只,有人乘筏渡过,有人借助水罐渡过,还有人用手臂游过。

2.89.20

सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् ।
मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥ २.८९.२० ॥

这条圣洁的恒河,满载着军队,由船夫亲自摆渡渡过。在吉祥的弥多罗时刻,他们前往殊胜的婆罗耶伽森林。

2.89.21

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः प्रतस्थे ॥ २.८९.२१ ॥

伟大的婆罗多安抚了军队,并按照适宜的方式安营,然后在祭司们的陪同下出发,去拜见圣者中的首席婆罗堕若遮。

2.89.22

स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ॥ २.८९.२२ ॥

他来到那位伟大的婆罗门、诸神的祭司的修行处,看见了一片树林,树丛中有可爱的叶棚,还有这位殊胜婆罗门那壮丽迷人的大森林。